सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३क/आरूढवदाङ्गिरसम्(इतएत)

विकिस्रोतः तः
आरूढवदाङ्गिरसं यामं वा।
आरूढवदाङ्गिरसं यामं वा।

इत एत उदारुहन्दिवः पृष्ठान्या रुहन्।
प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः॥ ९२॥ शौअ. १८.१.६१


 

 (९२।१) ॥ आरूढवदाङ्गिरसं यामं वा। आरूढविदङ्गिरानुष्टुबग्निः ॥
आरोऽ३हान्।आरोऽ३हान्। आरोऽ३हान्।इतएतउऽ३दारूऽ१हाऽ२न्॥दिवः पृष्ठानीऽ३यारूऽहाऽ२न्। प्रभूर्जयोयऽ३थापाऽ१थाऽ२ ॥ उद्यामंगिरऽ३सोयाऽ१यूऽ२ः । आरोऽ३हान् । आरोऽ३हान् । आऽ२३ । रोऽ२ । हाऽ२३४ । औहोवा ॥ ऊऽ२३४पा ॥
(झ्वौ । १४३)
(दी. १२ । प० १४ । मा० १०)२


[सम्पाद्यताम्]

टिप्पणी

घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । - आर्षेयकल्पः उपोद्घातः पृ. १३