सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/क्रौञ्चम्

विकिस्रोतः तः
क्रौञ्चम्.
क्रौञ्चम्.



२०. क्रौञ्चम् ।। क्रौञ्चः । गायत्री । पवमानस्सोमः ।
इन्द्रायेन्दाऽ१औहो ।। माऽ३रुत्वाऽ२३४ताइ । पावस्वामा । धूऽ३म । ताऽ२३४माः । पवस्वमधुमाऽ३२ । ताऽ२३४माः ।। अर्कस्ययोनाऽ२३इम् । अ । वाहाइ ।। साऽ२३४दाम् । एहियाऽ६हा ।।श्रीः।। तन्त्वाविप्राऽ१औहो ।। वाऽ३चोवीऽ२३४दाः । पारिष्कार्ण्वा । ताऽ३इध । णाऽ२३४साइम् । परिष्कृण्वन्तिधाऽ३२ । णाऽ२३४साइम् ।। सन्त्वामृजन्ताऽ२३इ ।अ । वाहाइ ।। याऽ२३४वाः । एहियाऽ६हा ।।श्रीः।। रसन्तेमाऽ१औहो ।। त्रोऽ३अर्याऽ२३४मा । पाइबन्तूवा । रूऽ३णः । काऽ२३४वाइ । पिबन्तुवरुणाऽ३२ः । काऽ२३४वाइ ।। पवमानस्याऽ२३ । म । वाहाइ ।। रूऽ२३४ताः । एहियाऽ६हा । होऽ५इ ।। डा ।।
दी. १०. उत्. ३. मा. २८. बै ।।१००।।


[सम्पाद्यताम्]

टिप्पणी

क्रौञ्चं भवति क्रुङ्ङेष्यमहरविन्ददेष्यमिव वै षष्ठमहरेवैतेन विन्दन्ति .....मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यदेतान्येवं सामानि क्रियन्त एवमेव प्रत्तां दुग्धे- तांब्रा १३.९

अथ सौपर्णं यज्ञस्यैवारम्भः। यज्ञो वै देवेभ्य उदक्रामत्। स सुपर्णो भूतः पर्यप्लवत। ते देवा अकामयन्ता यज्ञं रभेमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन यज्ञम् आरभन्त। उत्क्रान्त इवैतर्हि यज्ञो भवति षष्ठे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। यद् व् एवैनम् एतेन सुपर्णं भूतं परिप्लवमानम् आरभन्ते, तस्मात् सौपर्णम् इत्य् आख्यायते। तद् व् एवाचक्षते क्रौञ्चम् इति। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहन् क्रियते। तद् ऐळं भवति - पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥ - जैब्रा ३.१४७