सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/आष्टादꣳष्ट्रं पूर्वं

विकिस्रोतः तः
आष्टादंष्ट्रपूर्वम्
आष्टादंष्ट्रपूर्वम्

१९
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः |
रथीतमं रथीनां वाजानां सत्पतिं पतिं || ८२७ || ऋ. १.११.१
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते |
त्वामभि प्र नोनुमो जेतारमपराजितं || ८२८ ||
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः |
यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं || ८२९ ||


१२. आष्टादꣳष्ट्रं पूर्वम् ।। अष्टादंष्ट्रः । अनुष्टुप् । इन्द्रः ।
इन्द्रंविश्वाअवीवृधन् । ऐयाहाइ ।। समूद्राऽ१व्याऽ२ । चसाङ्गाऽ१इराऽ२३ः । ऐयाऽ२३हाइ ।। रथाइताऽ१माऽ२म् । रथाइनाऽ२३म् । ऐयाऽ२३हाइ ।। वाजानाऽ१ꣳसाऽ२त् । पताइम्पाऽ१तीऽ२३म् । ऐयाऽ२३हाऽ३४३इ ।। श्रीः ।। सख्येतइन्द्रवाजिनः । ऐयाहाइ ।। माभाइमाऽ१शाऽ२ । वसास्पाऽ१ताऽ२३इ । ऐयाऽ२३हाइ ।। तुवामाऽ१भीऽ२ । प्रनोनूऽ१मा२३ः । ऐयाऽ२३हाइ ।। जेताराऽ१माऽ२ । पराजाऽ१इताऽ२३म् । ऐयाऽ२३हाऽ३४३इ ।। श्रीः ।। पूर्वीरिन्द्रस्यरातयः । ऐयाहाइ। ।। नवाइदाऽ१स्याऽ२ । तियूताऽ१याऽ२३ः । ऐयाऽ२३हाइ ।। यदावाऽ१जाऽ२ । स्यगोमाऽ१ताऽ२३ः । ऐयाऽ२३हाइ ।। स्तोतॄम्योऽ१माऽ२ । हताइमाऽ१घाऽ२३म् । ऐयाऽ२३ऽहाऽ३४३इ । ओऽ२३४५। ।।डा।।

दी. २०. उत्. २०. मा. ३७- दे ।।५२।।

आष्टादंष्ट्रपूर्वस्य अच्छावाक शस्त्रम्.



[सम्पाद्यताम्]

टिप्पणी

ऐयाहा इति वा इन्द्रो वृत्रमहन्नैयादोहोवेति न्यगृह्णाद्वार्त्रघ्ने सामनी वीर्यवती। ओजो एवैताभ्यां वीर्यमवरुन्धे - पञ्चविंशब्रा ११.११

शैखण्डिनानि (ग्रामगेयः)

षडहे द्वितीयमहः -- आष्टादंष्ट्र( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् । - आर्षेयकल्पः पृ. १११

इन्द्रं विश्वा अवीवृधन्न इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्। तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। - जै.ब्रा. ३.३४