सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/आमहीयवम्

विकिस्रोतः तः
आमहीयवम्
आमहीयवम्.

८. अमहीयुराङ्गिरसः। गायत्री । पवमानः सोमः ।
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
उग्रꣳ शर्म महि श्रवः ॥६७२॥ ऋ. ९.६१.१०
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परि स्रव ॥६७३॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे ॥६७४॥
. धा. १३. उ २. स्व. ४. ठी. ॥८॥


१. आमहीयवम् । अमहीयुः। गायत्री। पवमानः सोमः ।
ओम् । उच्चाताऽ३इजातमन्धसाः ॥ दिवाइसाऽ१द्भूऽ२ । मियाऽ२३ददाइ ॥ उग्रꣳशर्मा ॥ महाऽ२३इश्रवाउ । वाऽ३ ॥ श्रीः ॥ सनआऽ३इन्द्राययज्यवाइ ॥ वरूणाऽ१याऽ२ । मरू२३द्भियाः ॥ वरिवोवाइत् ॥ पराऽ२३इस्रवाउ । वाऽ३ ॥ श्रीः॥ एनावाऽ३इश्वानिअर्यआ॥ द्युम्नानाऽ१इमाऽ२ । नुषाऽ२३णाम् ॥ सिषासन्ताः । वनाऽ२३महाउ । वाऽ३ ॥ स्तौषेऽ३४५ ॥
दीर्घम्. ९. उद्धम् , ५. मात्रा २१. न. (१)


[सम्पाद्यताम्]

टिप्पणी

आमहीयवम् (ग्रामगेयः ४६७।१३)

अथामहीयवम्। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनाभ्यो ऽन्नाद्यं प्रायच्छद् वर्षम् एवापनिधनेन। ताभ्यो ऽवर्षद् एव नोदगृह्णात्। स एतन् निधनम् अपश्यत्। तद् उपैत्। तत आभ्य उद्गृह्णात्। एतस्य ह वा इदं साम्नः कृतो वर्षति च पर्जन्य उच् च गृह्णाति॥

यो वृष्टिकामस् स्याद् एतेनैवापनिधनेन स्तुवीत। वर्षुको हास्मै पर्जन्यो भवति। स यद्य् अतीव वर्षेद् एतद् एव निधनम् उपेयाद् उद् अहास्मै गृह्णाति। वर्षति च हास्मै पर्जन्य उच् च गृह्णाति य एवं वेद॥

ता यद् एनं प्रजास् सुहिता अशिता आमहीयन्त तद् आमहीयवस्यामहीयवत्वम्। ऐनं भार्यास् सुहितास् सुहितं महीयन्ते य एवं वेद॥

ता एनम् अन्नं विविदाना नापाचायन्। सधमादम् इवैवासन्। अन्नं हि श्रीः। सो ऽशोचत्। स नामहीयत। स ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय ता मा सृष्टा नापचायेयुर् इति। स एतत् सामापश्यत्। तेनास्तुत॥जैब्रा १.११७

स स्तौषे इत्य् एव निधनम् उपैत् ता अतोषयत्। ता अस्य वशम् आयन्। तोषयति द्विषतो भ्रातृव्यान् वशम् अस्य स्वा आयन्ति य एवं वेद। स यद् आमहीयमाना अपश्यत् तद् आमहीयवस्यामहीयवत्वम्। यद् व् एवैना वशे कृत्वामहीयत तद् व् एवामहीयवस्यामहीयवत्वम्। आ स्वान् वशे कृत्वा महीयते य एवं वेद। तद् ये ऽस्य स्वा अवशीकृता इव स्युर् एतद् एवैषां मध्य आसीनो ऽधीयीत। वश एवैनान्कुरुते॥

उत्तरकुरवो हाहुर् अवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति। एकैकस्यै देवतायै होता वषट्करोति सर्वाभ्य उद्गाता। सर्वदेवत्यो ह्य् उद्गाता। आमहीयवस्य निधनेन वषट् कुर्याद् इति। वषट्कृतस्यैव सोमस्य भक्षयन्ति। तद् उ ह स्माह मार्जश् शैलनो भ्रातृव्यान् वाव निधनेन तोषयतीति। पुरस्ताद् एव निधनस्य वषट्कुर्यात् वौषड् भूमी ओ ददा इति। वषट्कृतस्यैव सोमस्य भक्षयति॥जैब्रा १.११८


अथैतद् आमहीयवं प्राजापत्यं सवनमुखे क्रियते। तद् एतत् स्वयं प्रशस्तं यत् प्रजापत्यम्। तस्मिन्न् उ प्रशस्त एव सत्य् एषा भूयसी प्रशंसा क्रियते यद् एतद् ओम् इत्य् आदत्ते। असौ वा आदित्य एतद् अक्षरम्। तद् एतत् त्रयस्य वेदस्यापीळितम् अक्षरम्। स यद् ओम् इत्य् आदत्ते ऽमुम एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥ - जैब्रा १.३२२

उच्चा ते जातम् अन्धसेत्य् उद्वतीर् उत्थानीये ऽहन् भवन्त्य् अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति।

एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम्। सिषासन्तो वनामहे॥ इति सिषासद्वतीर् भवन्ति। सिषासन्तो ह्य् एवैतेनाह्ना स्वर्गं लोकं गच्छन्ति। तासु गायत्रम् उक्तब्राह्मणम्।

अथामहीयवम् । प्रजापतेर् वा आमहीयवम्। प्राजापत्यम् एतद् अहः। तद् यद् अत्रामहीयवं प्राजापत्ये ऽहन् क्रियते ऽहर् एव तद् रूपेण समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। - जैब्रा ३.२८३

आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रतिहारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् - आर्षेयकल्पः उपोद्घातः पृ. ३८

अभिजित् माध्यन्दिने सवने - आर्षेयकल्पः अध्यायः २, पृ ११९