सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/महावामदेव्यम्

विकिस्रोतः तः
महावामदेव्यम्.
महावामदेव्यम्

अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं ।
दूरेदृशं गृहपतिमथव्युं ॥ १३७३ ॥ ऋ. ७.१.१
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् ।
दक्षाय्यो यो दम आस नित्यः ॥ १३७४ ॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
त्वां शश्वन्त उप यन्ति वाजाः ॥ १३७५ ॥

[सम्पाद्यताम्]

टिप्पणी