सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/सञ्जयम्

विकिस्रोतः तः
सञ्जयम्.
सञ्जयम्

आ ते अग्न इधीमहि द्युमन्तं देवाजरम्।
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर॥ १०२२
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते।
सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर॥ १०२३
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि।
उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर॥ १०२४



१६ सञ्जयम् । इन्द्रः । पङ्क्तिः। अग्निः ।

आतेअग्नइधी । माऽ३हाइ । द्युमन्ताऽ३न्देवअजरम् ।। यद्धस्याते पनीयसी। समिद्दीदयताइ। हुम्ऽ३स्थिहुम्। द्याऽ२३४वी।।श्रीः।। आतेअग्नऋचा । हाऽ३वाइः । शुक्रस्याऽ३ज्योतिषस्पताइ ।। सुश्चन्द्रदस्मविश्पतेहव्यवाट्तुभ्यꣳहू । हुम्ऽ३स्थिहुम् । याऽ२३४ताइ ।। श्रीः ।। ओभे सुश्चन्द्रवि । श्पाऽ३ताइ । दर्वीश्राऽ३इणीषआसनाइ ।। उतोनउत्पुपूर्याउक्थेषुशवसा । हुम्ऽ३स्थिहुम् । पाऽ२३४ताइ ।। इषꣳस्तोतृभ्याऽ३आ । हुम्३स्थिहुम्ऽ३४३ । भाऽ३४५रोऽ६“हाह ।।

दी. २५ उत. न. मा.२९.वो. ।।९६।।