सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/गौरीवितम्

विकिस्रोतः तः
गौरीवितम्
गौरीवितम्.

२०
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः |
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः || ११०१ || ऋ. ९.१०१.१०
ते पूतासो विपश्चितः सोमासो दध्याशिरः |
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते || ११०२ ||
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि |
इषमस्मभ्यमभितः समस्वरन्वसुविदः || ११०३ ||

गौरीवितम् ।। गौरीवितिः । अनुष्टुप् । पवमानस्सोमः ।
सोमाः । पवाऽ३ । तइन्दवाः । अस्मभ्यङ्गातुवित्तमाऽ२३ः । माइत्रास्वानाऽ३१२३ः । अरेऽ५पसाः ।। सूवाधियाऽ३१२३ः ।। सुवोवा । वाऽ५इदोऽ६'हाइ ।। श्रीः ।। तेपू । तासोऽ३ । विपश्चिताः ।। सोमासोद- दध्याशिराऽ२३ । सूरासोनाऽ३१२३ । दर्शाऽ५तासाः ।। जाइगत्नवाऽ३१२३ः ।। ध्रुवोवा । घाऽर्तोऽ६”हाह ।। श्रीः ।। सुष्वा। । णासोऽ३ । वियद्रिभाइः ।। चितानागोरधित्वचाऽ२३इ । आइषमस्माऽ३१२३ । भ्यमाऽ५भिताः ।। सामस्वराऽ३१२३न् ।। वसोवा । वाऽ५इदोऽ६हाइ ।।

दी २१ उत्. न. मा. २४. ही ।११४।।


[सम्पाद्यताम्]