सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/श्यैतम्

विकिस्रोतः तः
श्यैतम्
श्यैतम्
श्यैतम्

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ ८११ ॥ ऋ. ८.४९.१
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ ८१२ ॥


३. श्यैतम् ।। प्रजापतिः। बृहती। इन्द्रः।
अभिप्रवस्सुरा । धसाऽ३४औहोवा ॥ आइन्द्रमर्च । यथाविदाऽ२३४इ । ओऽ६ हा । योजरितृभ्यः । माघाऽ२३वा । पुरूऽ२ । वाऽ२३४सूः॥ सहस्रेणाइवाऽ३शा॥ हुम्माइ। क्षाऽ२ताऽ२३४औहोवा।।श्रीः।। सहस्रेणेवशि। क्षताऽ३४औहोवा॥ साहस्रेणे ।। वशाइक्षताऽ२३४इ । ओऽहो । शतानीकेव । प्राजाऽ२३इगा । तिधाऽ२ । ष्णूऽ२३४या ॥ हन्तिवृत्राणीऽ३दा ॥ हुम्माइ । शूऽ२षाऽ२३४औहोवा ॥ श्रीः ॥ हन्तिवृत्राणिदा। शुषाऽ३४औहोवा ॥ हान्तिवृत्रा । णिदाशुषाऽ२३४इ । ओऽ६हा । गिरेरिवप्र । रासाऽ२३आ। स्यपाऽ२इ । न्वाऽ२३४इराइ । दत्राणिपूरूऽ३भो ॥ हुम्माइ ॥ जाऽ२साऽ२३४औहोवा ॥ वाऽ२३४सू ।।

दी. २७. उत् . ६. मा. २२. चा.॥४३।।



[सम्पाद्यताम्]

टिप्पणी

श्यैतम् (ग्रामगेयः)

इमौ वै लोकौ सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम् इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम् अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥ मेनामेनं वाव ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बृहद्रथन्तरयोर् ह वा एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां विवहावहा इति॥जैब्रा 1.145॥ पदनिधनं ह वा अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम् अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥ रथन्तरेण स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥ बृहता स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान् जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद॥जैब्रा 1.146

श्यैतनौधसयोर् ह खलु वै प्रगाथौ वीर्यवत्तमौ। -जैब्रा २.३८२