सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/चन्द्रसाम

विकिस्रोतः तः
चन्द्रसाम
Text of a melody of Samaveda.

अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥ १४७॥ (ऋ० १ । ८४ । १५; सा.९१५;

॥ चन्द्रसाम ॥ प्रजापतिर्गायत्रीत्वष्टाचन्द्रः ॥

हाउहाउहाउ । चन्द्रम् । (त्रिः) । चन्द्रञ्चन्द्रम् । ( त्रिः) । चन्द्रञ्चान्द्रम् । ( त्रिः) । अत्राहगोरऽ३मान्वाऽ१ताऽ२॥ नामत्वष्टुरऽ३पाइचाऽ१याऽ२म् ॥ इत्थाचन्द्रमऽ३सोऽगॄऽ१हाऽ२३ ।। हाउहाउहाउ । चन्द्रम् । (त्रिः) । चन्द्रञ्चन्द्रम् । (द्विः) । चन्द्रञ्चान्द्रम् । ( द्विः) । चन्द्रम् । चाऽ२ । द्राऽ२३४ । ओहोवा ।। ए । चन्द्रम् । (द्वे त्रिः) ॥

--(दी १५ । प० ३२ । मा० ३०) ८( फौ। १४९)

॥ अष्टौ षष्ठः खण्डः ॥ ६ ॥


[साम-तन्त्र-सूत्राणि १४८]७[१४९]८ ( पृथक् सूत्राणि न सन्ति )

[सम्पाद्यताम्]

टिप्पणी

प्रवर्ग्यकर्मणि यदा महावीरपात्रस्योपरि सुवर्णोपधानं क्रियते, तस्मिन् क्षणे अस्य साम्नः गानं भवति।

जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः।

पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ॥ - वायुपुराणम् २.८.२२३