सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/सौमित्रम्

विकिस्रोतः तः
सौमित्रम्(अंशमात्रम्


)
सौमित्रम्.

१७. सौमित्रम् ।। सुमित्रः कुत्सः । उष्णिक् । इन्द्रः ।
औ꣢꣯हौ꣡꣯होइ । औ꣢ऽ३हो꣤ऽ३इ । ओ꣢ऽ३२३ ४५वाऽ६५६ । इ꣡न्द्राऽ᳒२᳒यसा꣡꣯मगा꣢꣯यताऽ२३꣡४꣡५꣡ ।। वि꣡प्राऽ᳒२᳒यबृहते꣡꣯बृहा꣢ऽ१त् ।। ब्र꣢ह्मकृ꣡तेऽ᳒२᳒विपश्चि꣡तेऽ२३꣡४꣡५꣡ ।। ए꣢ऽ३ । प꣢नस्य꣡वेऽ२३꣡४꣡५꣡ ।।श्रीः।। त्व꣡मिन्द्रा꣢꣯भिभू꣡꣯रसी꣣ऽ२३꣡४꣡५꣡ ।। त्व꣡ꣳसू꣯र्यम꣢रो꣯चयाऽ२३꣡४꣡५꣡ः ।। वि꣢श्व꣡कर्मा꣢꣯विश्व꣡दे꣯वा꣣ऽ२३꣡४꣡५꣡ः । ए꣢ऽ३ । म꣢हा꣡꣯ꣳअसाऽ२३꣡४꣡५꣡इ ।।श्रीः।। वि꣢भ्रा꣡꣯ज꣢ञ्ज्यो꣡꣯तिषा꣢꣯सु꣡वाऽ२३꣡४꣡५꣡ः ।। अ꣡गच्छो꣢꣯रो꣯चन꣡न्दिवा꣢ऽ१ः ।। दे꣢꣯वा꣡꣯स्तइ꣢न्द्रसख्या꣡꣯याऽ२३꣡४꣡५꣡ ।। औ꣢꣯हौ꣡꣯होइ । औ꣢ऽ३हो꣤ऽ३इ । ओ꣢ऽ३२३४५वाऽ६५६ ।। ए꣢ऽ३ । ये꣢꣯मि꣡राऽ२३꣡४꣡५꣡इ ।।
दी. २३. उत् ९. मा १३. ढि. ।।९७।।


इन्द्राय साम गायत विप्राय बृहते बृहत्।
ब्रह्मकृते विपश्चिते पनस्यवे॥ १०२५।। ऋ. ८.९८.१
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः।
विश्वकर्मा विश्वदेवो महां असि॥ १०२६
विभ्राजं ज्योतिषा त्व३ अगच्छो रोचनं दिवः।
देवास्त इन्द्र सख्याय येमिरे॥ १०२७


१७. सौमित्रम् ।। सुमित्रः कुत्सः । उष्णिक् । इन्द्रः ।
औहौहोइ । औऽ३होऽ३इ । ओऽ३२३ ४५वाऽ६५६ । इन्द्राऽ२यसामगायताऽ२३४५ ।। विप्राऽ२यबृहतेबृहाऽ१त् ।। ब्रह्मकृतेऽ२विपश्चितेऽ२३४४ ।। एऽ३ । पनस्यवेऽ२३४५ ।।श्रीः।। त्वमिन्द्राभिभूरसीऽ२३४५ ।। त्वꣳसूर्यमरोचयाऽ२३४५ः ।। विश्वकर्माविश्वदेवाऽ२३४५ः । एऽ३ । महाꣳअसाऽ२३४५इ ।।श्रीः।। विभ्राजञ्ज्योतिषासुवाऽ२३४५ः ।। अगच्छोरोचनन्दिवाऽ१ः ।। देवास्तइन्द्रसख्यायाऽ२३४५ ।। औहौहोइ । औऽ३होऽ३इ । ओऽ३२३४५वाऽ६५६ ।। एऽ३ । येमिराऽ२३४५इ ।।

दी. २३. उत् ९. मा १३. ढि. ।।९७।।

[सम्पाद्यताम्]

टिप्पणी

पृष्ठ्यषडहस्य पञ्चमस्याह्नः द्वितीयोक्थस्य साम -- "इन्द्राय साम गायत" इति पूर्णाः ककुभस्तेनानशनायुको भवति । पुरुषो वै ककुप्पुरुषमेव तन्मध्यतः प्रीणाति। .....सौमित्रं भवति। दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियानवलिहत्यचरत् तामिन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीदिमामच्छा ब्रूष्वेति तामच्छा ब्रूत सैनमब्रवीन्नाहैतन्न शुश्रुव प्रियमिव तु मे हृदयस्येति तामज्ञपयत् तां संस्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम सौमित्रं काममेवैतेनावरुन्धे। सुमित्रः सन् क्रूरमकरित्येनं वागभ्यवदत् तं शुगार्च्छत् स तपोऽतप्यत स एतत् सौमित्रमपश्यत् तेन शुचमपाहतापशुचं हते सौमित्रेण तुष्टुवानः -- तांब्रा. १३.६.३

त्रयो ब्रह्मापश्यन्, नोधास् तृतीयं, सुमित्रस् तृतीयं, बृहदुक्थस् तृतीयम्। तद् यत् प्रथमे त्रियहे नौधसं क्रियते, तेन प्रथमस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यद् द्वितीये त्रियहे सौमित्रं क्रियते तेन द्वितीयस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यत् तृतीये त्रियह बार्हदुक्थं क्रियते तेनैव तृतीयस् त्रियहो ब्रह्मण्वान् क्रियते। - जैब्रा. ३.१३३

सौमित्राणि (ग्रामगेयम्)