सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/अग्नेरर्कः

विकिस्रोतः तः
अग्नेरर्कः.
अग्नेरर्कः

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ।। ८१५ ।। ऋ. ९.६१.१९
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ।। ८१६ ।।
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ।। ८१७ ।।

[सम्पाद्यताम्]

टिप्पणी

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। अग्निर् वृत्रम् अमित्रियम् इति बार्हतं रूपम्। यद् ऊर्ध्वं मध्यंदिनाद् तद् एतस्याह्नो बार्हतम्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथाग्नेरर्क आग्नेयं सामाग्नेये ऽहन् क्रियते। आग्नेयम् एतद् अहर् यद् गायत्रम्। अग्निर् हि गायत्री। तद् यद् अत्राग्नेरर्कः क्रियते ऽहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथो अन्नं वा अर्को, ऽन्नाद्यस्यैवावरुद्ध्यै। - जैब्रा ३.१९१

अर्कोपरि टिप्पणी