सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/४६५

विकिस्रोतः तः
अवभृथम्
अवभृथम्.

अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
                                   --साम ४६५, ऋग्वेदः १.१२७.१



(४६५।१) ।। भारद्वाजे द्वे । भरद्वाजोऽत्यष्टिरग्निः ।।

अग्निꣳहोता ।। रम्मन्येऽ३दास्वन्तम् । ओऽ३वाऽ३ । वासोःसूऽ२३४नूम् ।
सहसोजाऽ३तावेऽ१दासाऽ२म् । विप्रन्नजा । ओऽ३वाऽ३ । तवेऽ२दाऽ२३४साम् ।
यऊर्ध्वाऽ१याऽत । सुवाध्वाऽ१राऽ२ः । देवोदेवा । ओऽ३वाऽ३ । चियाऽ२काऽ२३४र्पा ।
घृतोवा । स्यविभ्राऽ२ष्टिम् । अनुशुक्रशा । ओऽ३वाऽ३ । चिषः ।।
आजुह्वाऽ२३ना ।। स्यसा । ओऽ३वाऽ३ । पाऽ२इषाऽ२३४औहोवा ।।
ऊऽ२३४पा ।।
(दी० १३ । प० २३ । मा० १०)३८( ड्वौ । ८०९)

(४६५।२)

अग्निꣳहोतारंमन्ये । दाऽ२३४ । स्वन्तंवसोःसूनुम् । । सहसोजाऽ३तावेऽ१दासाऽ२म् ।
विप्रन्नजाऽ३तावेऽ१दासाऽ२म् । यऊर्ध्वयाऽ३सूवध्वाराऽ२ः ।
देवोदेवाऽ३चायाऽ१कृपाऽ२ । घृतास्यविभ्राष्टिमनुशु । क्राशोऽ१चिषाऽ२ः ।
आजुह्वाऽ३नाऽ३ । । स्याऽ२३साऽ३ । पाऽ३४५इषोऽ६हाइ । ।
( दी० १६ । प० १२ । मा० ८)३९( खै । ८१०)


४६५।३ अवभृथगमनकाले प्रस्तोतृसाम । त्रिर्गायेत् ।

अवभृथौद्गात्रम्

अवभृथसाम

अवभृथसाम
अवभृथम्

अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
                                   --साकौसं १.५.२.३.९, ऋग्वेदः १.१२७.१

अहावोहा २३४ वाः। अहावोहा २३४ वाः। अहावोहा २३४ वाः। अग्निष्टपती। प्रतिदहती। अग्निं हो । तारम्मा३ न्ये३ दास्वन्तम् । अहावोहा२३४ वाः । अहावोहा २३४ वाः । अहावोहा २३४ वाः । अग्निष्टपती । प्रतिदहती । वसोः। सूनुं सहसोजा३ ता३ वे"दसम् । अहावोहा२३४ वाः। अहावोहा२३४ वाः । अहावोहा२३४ वाः। अग्निष्टपती । प्रतिदहती। विप्राम् । नजा३ ता३ 'वेदसम् । अहावोहा२३४ वाः। अहावोहा२३४ वाः । अहावोहा२३४ वाः। अग्निष्टपती । प्रतिदहती। यऊ ध्वया३ सू३ वध्वरः। अहावोहा२३४ वाः । अहावोहा२३४ वाः। अहावोहा२३४ वाः । अग्निष्टपती। प्रतिदहती । देवो । देवा३ ची३ या कृपा। अहावोहा२३४ वाः । अहावोहा२३४ वाः। अहावोहा२३४ वाः । अग्निष्टपती। प्रतिदहती। घृता। स्यविभ्राष्टिमनुशू३ क्रा३ शोचिषः । अहावोहा२३४ वाः। अहावोहा२३४ वाः । अहावोहा२३४ वाः । अग्निष्टपती । प्रतिदहती । आजू । ह्वाना३ स्या३ सर्पिषः । अहावोहा२३४ वाः। अहावोहा२३४ वाः। अहावोहा२३४ वाः। अग्निष्टपती । प्रतिदहा५ ता६५६ इ । ए३ । विश्वं समत्रिणन्दहा२३४५।.... ए३ । विश्वं समत्रिणन्दहा२३४५।.... ए३ । विश्वं समत्रिणन्दहा२३४५ ॥ [ ग्राम १२.१.४० ]


[सम्पाद्यताम्]

अवभृथोपरि पौराणिकसंदर्भाः

अवभृथोपरि वैदिकसंदर्भाः


(४६५।४)

प्रवर्ग्योद्वासनौद्गात्रम्

अग्नेर्वैश्वानरस्य राक्षोघ्नं बार्हस्पत्यं वा

प्रवर्ग्यसाम
प्रवर्ग्यम्

साकौसं [ १.५.२.३.९] -


अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुः सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
 

त्यग्नाइः। प्रतिदहती। हाउहो५हाउ। अग्निंहो। तारम्मा३न्ये३दास्वन्तम् । त्यग्नाइः। प्रतिदहती। हाउहो५हाउ। वसोः। सूनुंसहसोजा३ता३वेदसम् । त्यग्नाइः। प्रतिदहती। हाउहो५हाउ। विप्राम् । नजा३ता३वेदसम् । त्यग्नाइः। प्रतिदहती। हाउहो५हाउ । यऊ। ध्वया३सू३वध्वरः। त्यग्नाइः। प्रतिदहती । हाउहो५हाउ। देवो। देवा३ची३याकृपा। त्यग्नाइः। प्रतिदहती । हाउहो५हाउ। घृता। स्यविभ्राष्टिमनुशू३क्रा३शोचिषः । त्यग्नाइः । प्रतिदहती । हाउहो५हाउ । आजू । ह्वाना३स्या३सर्पिषः । त्यग्नाइः । प्रतिदहती । हाउहो५हाउ । वा। ए३। विश्वंसमत्रिणन्दहा२३४५॥

  • ....ए३ । विश्वंव्यत्रिणन्दहा२३४५॥....। ए३* विश्वन्न्यत्रिणन्दहा२३४५॥ [ग्राम १२.१.४१]



१. एतत् प्रवर्ग्यसाम इत्यप्युच्यते। प्रवर्ग्योद्वासनकाले प्रस्तोता सकृद् गायेत् ।

  • त्यग्नाइः इत्यादि ‘हाउहो ५ हाउ । वा।' इत्यन्तं गीत्वा एतन्निधनं ब्रूयात् ।