सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.४९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.४९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.४८ ऋग्वेदः - मण्डल ८
सूक्तं ८.४९
प्रस्कण्वः काण्वः।
सूक्तं ८.५० →
दे. इन्द्रः। प्रगाथः - विषमा बृहती, समा सतोबृहती

अथ वालखिल्यम् (सूक्ताः ८.४९ - ८.५९)। तु. अथर्ववेदः २०.५१


अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥३॥
अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥४॥
आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥५॥
उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥६॥
यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥७॥
अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥८॥
एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥९॥
यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥१०॥

  • वाराणसीस्थराजकीयसंस्कृतपाठशालायाः प्राप्ते ज्ञ-संज्ञकलिखितपुस्तके वालखिल्यसूक्तानां भाष्यं लिखितमुपलभ्यते । परं त्वितरेषु सर्वेष्वपि पुस्तकेष्वनुपलम्भात् व्याख्याशैल्या विभिन्नत्वाच्च नैतत्सायणाचार्यकृतमिति व्यक्तं प्रतीयते । तथाप्येतद्विदुषामुपयोगाय स्यादिति मत्वात्र दीयते । एतस्मिन् विषयेऽस्माभिः पृष्टा एतत्पाठशालाधिकारिणः एवं लिखन्ति- एतद्धस्तलिखितं पाठशालायाः कृते रेवानगरे क्रीतमासीत् । तस्य लेखनं पुण्यपत्तन एवाभूदिति श्रूयते । एतल्लिखितपुस्तकगतवालखिल्यसूक्तभाष्यं केन विरचितमिति निश्चितं वक्तुमशक्यम् । न केनापि वाराणसीस्थेन पण्डितेनैतद्विरचितमिति निश्चितमेव'।

भाष्यम्

श्रीगणेशाय नमः । श्रुतिकञ्जार्थलक्ष्मीं यो विकासयति हृद्गतम्( १ °ताम् ) । स पायात्सच्चिदानन्दः सूर्यमण्डलगो हरिः । 'अभि प्र वः' इति दशर्चं प्रथमं सूक्तं प्रस्कण्वस्थार्षमैन्द्रम् । अनुक्रान्तं च--- अभि प्र दश प्रस्कण्वः प्रागाथं तत्' इति । अयुजां बृहती छन्दः । युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।


अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे ।

यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥१

अ॒भि । प्र । वः॒ । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।

यः । ज॒रि॒तृऽभ्यः॑ । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥१

अभि । प्र। वः । सुऽराधसम् । इन्द्रम् । अर्च। यथ । विदे।।

यः । जरितृऽभ्यः । मघऽवा। पुरुऽवसुः । सहस्रेणऽइव । शिक्षति ॥ १ ॥

ऋषिरात्मानं ब्रूते । हे प्रस्कण्व वः युष्माकम् । बहुवचनं पुत्रपौत्राभिप्रायेण । युष्मत्स्वामिभूतमिन्द्रमभिलक्ष्य प्रार्च प्रकर्षेण पूजय । तत्र दृष्टान्तः । यथा विदे विद्वांसं स्वगुरुं पूजयसि तद्वत् । कीदृशम् । सुराधसम् । शोभनं राधो धनं यस्य तम् । कोऽसाविन्द्र इत्युच्यते । य इन्द्रः मघवा धनवान् पुरूवसुः बहूनां वासयिता जरितृभ्यः स्तोतृभ्यः सहस्रेणेव अपरिमितमेव शिक्षति ददाति । धनादिकमिति शेषः । अत्र योशब्दोऽवधारणार्थः । सहस्रेणेव ( इवशब्दोऽवधारणार्थः । सहस्रेणैव ) ।।


श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ ।

गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥२

श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ ।

गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑सः ॥२

शतानीकाऽइव । प्र। जिगाति । धृष्णुऽया । हन्ति । वृत्राणि । दाशुषे ।

गिरेःऽइव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुऽभोजसः ॥ २ ॥

धृष्णुया शत्रुधर्षणशील इन्द्रः शतानीकेव अपरिमितान्येव रिपुसैन्यानि प्र जिगाति प्रकर्षेण गच्छति । स्ववशीकरोति । किंच य इन्द्रः दाशुषे हविर्दत्तवतो यजमानस्य वृत्राणि पापानि शत्रून् वा हन्ति नाशयति । तस्यास्य पुरुभोजसः बहुपालकस्येन्द्रस्य दत्राणि हिरण्यादीनि धनानि । दत्रमत्र हिरण्यं 'मरुत् दत्रम्' इति हिरण्यनामसु पाठात् । प्र पिन्विरे प्रकर्षेण प्रीणयन्ति तर्पयन्ति जगत् । अत्र दृष्टान्तः । गिरेरिव पर्वतस्य मेघस्य वा संबन्धिनो यथा रसाः जलानि जगत् प्रणयन्ति तद्वत् ॥


आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः ।

आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ॥३

आ । त्वा॒ । सु॒तासः॑ । इन्द॑वः । मदाः॑ । ये । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

आपः॑ । न । व॒ज्रि॒न् । अनु॑ । ओ॒क्य॑म् । सरः॑ । पृ॒णन्ति॑ । शू॒र॒ । राध॑से ॥३

आ। त्वा । सुतासः । इन्दवः । मदाः । ये । इन्द्र । गिर्वणः ।

आपः । न । वज्रिन् । अनु । ओक्यम् । सरः । पृणन्ति । शूर । राधसे ।। ३ ।।

हे गिर्वणः गीर्भिर्वननीयेन्द्र मदाः हर्षकराः ये इन्दवः सोमाः सुतासः अभिषुताः सन्ति ते हे वज्रिन् वज्रोपेत हे शूर शौर्ययुक्तेन्द्र ओक्यं समवयितुमर्हं ( समवेतुमर्हं) वा त्वामापृणन्ति सर्वतः पूरयन्ति । स्वरसप्रदानेन त्वां तर्पयन्तीत्यर्थः । कथम् । आपो न सरः । ता यथा महाजलाशयं पूरयन्ति तद्वत् । किमर्थम् । राधसे यजमानस्य धनलाभाय ।


अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्व॒ः स्वादि॑ष्ठमीं पिब ।

आ यथा॑ मन्दसा॒नः कि॒रासि॑ न॒ः प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥४

अ॒ने॒हस॑म् । प्र॒ऽतर॑णम् । वि॒वक्ष॑णम् । मध्वः॑ । स्वादि॑ष्ठम् । ई॒म् । पि॒ब॒ ।

आ । यथा॑ । म॒न्द॒सा॒नः । कि॒रासि॑ । नः॒ । प्र । क्षु॒द्राऽइ॑व । त्मना॑ । धृ॒षत् ॥४

अनेहसम् । प्रऽतरणम् । विवक्षणम् । मध्वः । स्वादिष्ठम् । ईम् । पिब ।

आ। यथा । मन्दसानः । किरासि । नः । प्र । क्षुद्राऽइव । त्मना । धृषत् ॥ ४ ॥

हे इन्द्र अनेहसं यथाकालम् ईम् एनं सोमं पिब । कीदृशम् । प्रतरणं प्रवर्धनम् । प्रपूर्वस्तिरतिर्वर्धनार्थः । विवक्षणम् अतिशयेन स्तुत्यं मध्वः मधुनः सकाशादपि स्वादिष्ठं स्वादुतमम् । कमेतम् । यस्य पानेन मन्दसानः हवींषि संभजमानस्त्वं नोऽस्मभ्यं यजमानेभ्यः यथा यथावत् फलमाकिरासि कार्त्स्न्येन विक्षिपसि । ददासीत्यर्थः । केभ्य इव । धृषत् शत्रुधर्षकस्त्वं त्मना आत्मना स्वयमेव क्षुद्रेव दीनेभ्य इव तेभ्यो यथा प्र ददासि तद्वत् । उपसर्गवशाद्योग्याक्रियाध्याहारः ॥


आ न॒ः स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः ।

यं ते॑ स्वधावन्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तयः॑ ॥५

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः ।

यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥५

आ। नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृऽभिः ।।

यम् । ते। स्वधाऽवन् । स्वदयन्ति । धेनवः। इन्द्र । कण्वेषु । रातयः ॥ ५ ॥ ॥ १४ ॥

हे इन्द्र स भवान् नोऽस्मदीयैः सोतृभिः सोमाभिषवकर्तृभिरध्वदिभिर्ऋत्वग्भिः कृतं स्तोत्रविशेषम् आ आभिमुख्येन उप द्रवत् उपगच्छतु समीपं प्राप्नोतु । क इव । हियानः प्रेर्यमाणः अश्वो न अश्व इव । स यथा अभिलषितं देशं प्राप्नोति तद्वत् । हे स्वधावन् अन्नवन्निन्द्र ते तव स्वभूतानि धेनवः तर्पकाणि कण्वेषु अस्मासु वर्तमानानि रातयः हविर्दानानि यं त्वां स्वदयन्ति स्वादयन्ति । त्वदुदरे प्रविश्य त्वां तर्पयन्तीत्यर्थः । स भवान् उप द्रवत् इति पूर्वेण संबन्धः ॥ ॥ १४ ॥


उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुम् ।

उ॒द्रीव॑ वज्रिन्नव॒तो न सि॑ञ्च॒ते क्षर॑न्तीन्द्र धी॒तयः॑ ॥६

उ॒ग्रम् । न । वी॒रम् । नम॑सा । उप॑ । से॒दि॒म॒ । विऽभू॑तिम् । अक्षि॑तऽवसुम् ।

उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । न । सि॒ञ्च॒ते । क्षर॑न्ति । इ॒न्द्र॒ । धी॒तयः॑ ॥६

उग्रम् । न । वीरम् । नमसा। उप । सेदिम । विऽभूतिम् । अक्षितऽवसुम् ।।

उद्रीऽइव । वज्रिन्। अवतः । न । सिञ्चते । क्षरन्ति । इन्द्र । धीतयः ॥ ६ ॥

हे इन्द्र वीरं विशेषेण शत्रुभटान् प्रेरयन्तं त्वां नमसी हविर्लक्षणेनान्नेन सह । यद्वा नमसा प्रह्वीभावेन सह उप सेदिम शरणं प्राप्नुमो वयम् । कमिव । उग्रं न उद्गूर्णबलमिव । तं यथा केचन दीनाः शरणं प्राप्नुवन्ति तद्वत् । कीदृशं त्वाम् । विभूतिं विविधैश्वर्योपेतम् । अथवा विविधभवनस्वभावम् । ‘इन्द्रो मायाभिः पुरुरूप ईयते ' इति श्रुतेः । 'रूपंरूपं प्रतिरूपो बभूव' इति श्रुत्यन्तरात् । अक्षितवसुम् अक्षीणधनम् । किंच हे वज्रिन् वज्रवन्निन्द्र सिञ्चते स्वर्गादिफलसेक्त्रे तुभ्यं त्वदर्थं धीतयः अस्मदङ्गुल्यः क्षरन्ति स्रवन्ति सोमरसम् । क इव । उद्रीव । उदकान् ( उदकवान्) अवतो न कूप इव । स यथा सस्यादिसेक्त्रे जलं क्षरति तद्वत् । अत्र इवशब्दोऽनर्थकः ।।


यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ ।

अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥७

यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि॑ ।

अतः॑ । नः॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । म॒हे॒ऽम॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । आ । ग॒हि॒ ॥७

यत् । ह । नूनम् । यत् । वा । यज्ञे । यत् । वा । पृथिव्याम् । अधि ।

अतः । नः । यज्ञम् । आशुऽभिः । महेऽमते । उग्रः । उग्रेभिः । आ । गहि ॥ ७ ॥

हे महेमते पूजासक्तबुद्धे इन्द्र यद्ध यत्र क्वचित् स्थानविशेषे नूनं निश्चितं वर्तसे । यत् यत्र वा यज्ञे अध्वरे वर्तसे । यत् यत्र वा पृथिव्याम् अधि अधिकं वर्तसे । अतः अस्मात्स्थानविशेषात् उग्रः उद्गूर्णबलस्त्वम् उग्रेभिः उद्भूर्णबलैः आशुभिः शीघ्रगामिभिरश्वैः नोऽस्माकं यज्ञम् आ गहि आगच्छ ॥


अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ ।

येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥८

अ॒जि॒रासः॑ । हर॑यः । ये । ते॒ । आ॒शवः॑ । वाताः॑ऽइव । प्र॒ऽस॒क्षिणः॑ ।

येभिः॑ । अप॑त्यम् । मनु॑षः । प॒रि॒ऽईय॑से । येभिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥८

अजिरासः । हरयः । ये। ते। आशवः । वाताःऽइव । प्रऽसक्षिणः ।।

येभिः । अपत्यम् । मनुषः । परिऽईयसे । येभिः । विश्वम् । स्वः। दृशे ।। ८ ॥

हे इन्द्र ते तव स्वभूताः ये हरयः अश्वाः वाताइव वायव इव प्रसक्षिणः प्रकर्षेण संगच्छमानाः सन्ति । कीदृशास्ते पुनः । अजिरासः शत्रून् क्षिपन्तः आशवः शीघ्रगामिनश्च । येभिः यैरश्वैः मनुषः मनोः अपत्यम् अपतनहेतुं यजमानं परीयसे सर्वत आगच्छसि येभिः यैश्चाश्वैः विश्वं स्वः सर्वं स्वर्लोकं दृशे द्रष्टुमिच्छसि तैरा गहि इति पूर्वेणान्वयः ॥


ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः ।

यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥९

ए॒ताव॑तः । ते॒ । ई॒म॒हे॒ । इन्द्र॑ । सु॒म्नस्य॑ । गोऽम॑तः ।

यथा॑ । प्र । आवः॑ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथिम् । यथा॑ । नीप॑ऽअतिथिम् । धने॑ ॥९

एतावतः । ते । ईमहे । इन्द्र । सुम्नस्य । गोऽमतः ।।

यथा । प्र । आवः । मघवन् । मेध्यऽअतिथिम् । यथा । नीपऽअतिथिम् । धने ॥ ९ ॥

हे मघवन् धनवन्निन्द्र धने निमित्तभूते सति यथा येन प्रकारेण मेध्यातिथिम् एतन्नामकऋषिं प्रावः प्रकर्षेण रक्षितवानसि यथा येन च प्रकारेण नीपातिथिम् एतन्नामानमृषिं प्रावः एतावतः इयदेव ते तव स्वभूतं गोमतः गवाश्वाद्युपेतं सुम्नस्य सुखम् ईमहे याचामहे वयं कण्वाः । सर्वत्र कर्मणि षष्ठ्यः ।।


यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे ।

यथा॒ गोश॑र्ये॒ अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥१०

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । त्र॒सद॑स्यवि । यथा॑ । प॒क्थे । दश॑ऽव्रजे ।

यथा॑ । गोऽश॑र्ये । अस॑नोः । ऋ॒जिश्व॑नि । इन्द्र॑ । गोऽम॑त् । हिर॑ण्यऽवत् ॥१०

यथा । कण्वे । मघवन् । त्रसदस्यवि । यथा । पक्थे । दशऽव्रजे।

यथा । गोऽशर्ये । असनोः । ऋजिश्वनि । इन्द्र । गोऽमत् । हिरण्यऽवत् ॥ १० ॥ ॥१५॥

हे मघवन् धनवन्निन्द्र यथा येन प्रकारेण कण्वे एतन्नाम्नि मत्पितरि गोमत् गवोपेतं हिरण्यवत् काञ्चनोपेतं च सुम्नम् असनोः दत्तवानसि । यथा च त्रसदस्यवि एतन्नामके राज्ञि यथा च पक्थे एतत्संज्ञे राज्ञि यथा च दशव्रजे एतत्संज्ञके नृपे यथा च गोशर्ये एतन्नाम्नि क्षत्रिये यथा च ऋजिश्वनि एतत्संज्ञके राजनि गवाद्युपेतं सुम्नमसनोः एतावदीमहे इति पूर्वेण संबन्धः ॥ ॥ १५ ॥




टिप्पणी

८.४९.१ अभि प्र वः सुराधसम् इति

सान्नते द्वे - श्यैतम् (ग्रामगेयः)

श्यैतम्

वृषा

सूर्यस्य परितः पृथिव्याः भ्रमणम्


वालखिल्य
वालशब्दस्य प्रयोगं वृक्षमूलस्य परितः जलसिंचनहेतुनिर्मितस्य वृत्ताकारस्य स्थलाय भवति। अन्यथा, यत्र ऊर्जा विरला अस्ति, न सघना, तस्य हेतोरपि वालशब्दस्य प्रयोगं भवति। आधुनिक विज्ञाने, ऊर्जायाः संदर्भे अव्यवस्था, एण्ट्रांपी शब्दस्य प्रयोगं भवति। यदा ऊर्जायाः अव्यवस्था अधिकं भवति, तदा उच्च एण्ट्रांपी भवति। अयं प्रतीयते यत् वालखिल्यानां प्रसंगः संवत्सरनिर्माणतः सम्बद्धमस्ति। संवत्सरस्य निर्माणं सूर्य(प्राण), पृथिवी(आत्मा) एवं चन्द्रमा(मन), एतेषां त्रयाणां पिण्डानां आपेक्षिकाभिः गत्याभिः भवति। ऐतरेयब्राह्मणे ६.२६ कथनमस्ति यत् आत्मा वै स्तोत्रियः प्राणा वै वालखिल्याः। अस्मिन् कथने आत्मा, पृथिवी केन्द्रस्थानमस्ति, सूर्यरूपस्य प्राणस्य गतिः आत्मनः परितः भवति। एवमेव मनरूपस्य चन्द्रमसः गतिरपि पृथिव्याः परितः अपेक्षितमस्ति। कथनमस्ति यत् ये प्राणाः सन्ति, तेषां आकर्षणं आत्मा सह पर्याप्तं नास्ति। अतएव, तेषां प्राणानां संज्ञा वालखिल्याः अस्ति। कथनमस्ति यत् एते वालखिल्याः विभिन्नेषु स्तरेषु विभिन्नप्रकाराणां युग्माः भवन्ति – मन – वाक्, चक्षु –श्रोत्र, प्राण – अपान आदि। ऋग्वेदे सूक्त ८.४९ -८.५९ एकादशानां सूक्तानां संज्ञा वालखिल्याः सूक्ताः अस्ति। कर्मकाण्डे यत्र एतेषां सूक्तानां उच्चारणं कुर्वन्ति, तत्र एतेषां सूक्तानां परस्परं मिश्रणं कुर्वन्ति। मिश्रणस्य प्रकारं युग्मोपरि निर्भरमस्ति एवं मिश्रणस्य प्रक्रियायाः विवेचनं सायणाचार्येण ऐतरेय ब्राह्मण ६.२८ कण्डिकायाः विवेचने कृतमस्ति।
स्कन्द पुराणे ४.२.७५.८१ विलक्षणं संकेतमस्ति – ये प्राणाः वालखिल्याः सन्ति, ते यदा आत्मनः परितः केन्द्रीभूता भवन्ति, तदा वाल्मीकि ऋषेः स्थितिः उत्पत्स्यते।

कर्मकाण्डे, ये प्राणाः ब्रह्माण्डे क्षिप्ताः सन्ति, तेषां संग्रहणाय, व्यवस्थाकरणाय आरुणकेतुकेष्टिः भवति। स्कन्दपुराणे ६.७९ कथा अस्ति यत् यदा इन्द्रेण वालखिल्यानां उपहासं कृतमासीत्, तदा वालखिल्येभिः यागेन गरुडस्य सृष्टिः कृतमासीत्। कालान्तरे, यदा गरुडेन सोमस्याहरणं कृतमासीत्, तदा अयं कृत्यं इन्द्रस्य अपमानरूपेव आसीत्। कर्मकाण्डे, आरुकेतुकाग्नेः चयनस्य पश्चात् अग्निचयनम् भवति, यस्य चरम परिणतिः श्येनस्य आकाशगमने अस्ति। शिवपुराणे ७.१.१७.२९ कथनमस्ति यत् यदा सूर्यः स्वरथेन चारयति, तदा वालखिल्याः तस्य रथस्य अग्रे गतिं कुर्वन्ति। सूर्यस्य रथस्य सारथिः अनूरुः अथवा अरुणः भवति। अरुणस्य गतिः मन्दगतिः अस्ति, गरुडस्य शीघ्रगति।

पुराणेषु वालखिल्यानां क्रतोः पुत्रत्वम् –


पुराणेषु सार्वत्रिकरूपेण कथनमस्ति यत् वालखिल्याः क्रतोः एवं क्रियायाः पुत्राः सन्ति। तेषां संख्या षष्टिसहस्राणि अस्ति। पुराणेषु क्रतोः भार्यारूपेण सन्नति, सन्तति नामयोः अपि उल्लेखमस्ति। वैदिके साहित्ये एवंप्रकारस्य उल्लेखं प्रत्यक्षरूपेण न विद्यते। अपि च, वालखिल्यानां संख्या न षष्टिसहस्राणि, अपितु ७+७ = १४ अस्ति(सप्त वालखिल्याः पुरस्तादुपदधाति सप्त पश्चात्, सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ । तैसं ५,३, २,५)। वालखिल्यानां पितारूपेण क्रतोः निर्धारणस्य किं औचित्यमस्ति, अस्मिन् संदर्भे क्रतुशब्दस्य अर्थः विचारणीयमस्ति। सामान्यरूपेण, यः कर्तुं इच्छति, सः क्रतुः भवितुं शक्यते। वैदिकसाहित्ये कथनमस्ति यत् यो यज्ञः कामनापूर्तिहेतुः क्रियमाणमस्ति, तस्य संज्ञा क्रतुः अस्ति (स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो – श.ब्रा. ४.१.४.[१] )। गृहस्थाश्रमे सर्वाणि कृत्यानि कामनापूर्तिहेतुरेव भवन्ति, तदनुसारेण गृहस्थकृत्यानां वर्गीकरणं तर्पणं, आतिथ्यं आदि पञ्चक्रतुषु कृतमस्ति। कृत्यसम्पादनार्थं अपेक्षितं भवति यत् ज्ञान एवं भावनाशक्त्योः उपयोगं अधिकतमः भवतु, क्रियाशक्त्याः उपयोगं न्यूनतमः। तदैव कृत्यसम्पादने अव्यवस्थायाः जननं न्यूनतमः भविष्यति। अस्य चिन्तनस्य अनुकूलमेव, वायुपुराणे २९.२६ क्रतोः साम्यं विभु (भावनाशक्ति) तः अस्ति। ब्रह्माण्डपुराणे १.१.५.७९ क्रतोः साम्यं ऋभु (ज्ञानशक्ति)तः अस्ति। एते उल्लेखाः संयोगमात्रं न सन्ति। यदा कृत्यसम्पादने क्रियायाः उपयोगं भविष्यति, तदैव प्राणानां वालखिल्य रूपाणां, ये प्राणाः हृदयेन बद्धाः न सन्ति, जननं भविष्यति। पुराणेषु सार्वत्रिक रूपेण कथनमस्ति यत् वैवस्वत मन्वन्तरे क्रतोः सन्तति न भवति। तदा क्रतुः अगस्त्यस्य इध्मवाहं संज्ञकं पुत्रं दत्तकपुत्ररूपेण स्वीकरोति। डा. फतहसिंह अनुसारेण विवस्वान् अर्थात् वासनारहितः। शेषमर्थं स्पष्टमस्ति। इध्मवाहः संज्ञा ध्यातव्यमस्ति। यज्ञे वालखिल्यानां कृत्यमपि यज्ञार्थं इध्मस्य भरणं भवति, एष उल्लेखः अस्ति। इध्मस्य सम्यक् संज्ञा समित् अस्ति। समित् अर्थात् सममिति। वन धातु सम्मर्दे अर्थे अस्ति। वनस्पति अर्थात् यः वनस्य सम्मर्दस्य स्थित्याः निवारणं करोति, समित्याः जननं करोति। लक्ष्मीनारायणसंहितायां २.३८.६६ विलक्षणं उल्लेखमस्ति। तत्र वालखिल्यानां वर्गीकरणं वनस्पति(काष्ठ), नभस्पति (शिला) एवं सरस्पति (दन्त) रूपेषु अस्ति। वालखिल्याः स्वशक्त्याः उपयोगं अनुचितरूपेण कुर्वन्ति। कालान्तरेण तेषां रूपान्तरणं भवति।
पुराणेषु क्रतोः पुत्ररूपेण वालखिल्यानां उल्लेखमस्ति। वैदिकसाहित्ये क्रतोः युग्मं दक्षः अस्ति। अयं दक्षः वरुणः अस्ति। स्वयं क्रतुः मित्रः अस्ति। स्पष्टरूपेण, यत्र क्रिया अस्ति, तत्र दक्षतायाः आवश्यकता भवति। ( द्र. क्रतुशब्दोपरि वैदिकाः संदर्भाः)। पुराणेषु क्रतुः

१. प्रगाथा वै वालखिल्याः । ऐ ६,२८ ।।
२. स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात्तद्याः - - - --- प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम यद्वाऽ उर्वरयोरसम्भिन्नं भवति खिल इति वै तदाचक्षते वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालमात्रादसम्भिन्नास्तस्माद्वालखिल्याः । माश ८, ३,४,१ (तु. कौ ३०,८) ।
३. ये ( प्रजापतेः ) वालास्ते वालखिल्याः । तैआ १, २३, ३ ।।
४. सप्त वालखिल्याः पुरस्तादुपदधाति सप्त पश्चात्, सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ । तैसं ५,३, २,५
ऐन्द्र्यो वालखिल्याः (ऋचः) – ऐ. ६.२६
पशवो वालखिल्याः – तां २०.९.२
आत्मा वै स्तोत्रियः प्राणा वै वालखिल्याः – ऐ ६.२६, ६.२८, कौ ३०.८, गो २.६.८
यदि वालखिल्याः (ऋचः) प्राणानस्यांतरियात् – ऐ ५.१५

वालखिल्योपरि पौराणिकाः संदर्भाः

वालखिल्योपरि वैदिकाः संदर्भाः

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४९&oldid=330190" इत्यस्माद् प्रतिप्राप्तम्