कौषीतकिब्राह्मणम्/अध्यायः ३०

विकिस्रोतः तः
← अध्यायः २९ कौषीतकिब्राह्मणम्
अध्यायः ३०
[[लेखकः :|]]
सोमयागः (होत्रकशस्त्राणि)


३०.१ प्रारम्भिककृत्यानि
वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानां तृतीयसवनं तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तद्देवतया प्रतिपद्यते अथो अधीतरसं वा एतत्सवनं यत्तृतीयसवनमथैव सरसो ग्रहो यदादित्यग्रहस्तेनैव तत्तृतीयसवनं सरसं करोति त्रिष्टुभम् आदित्य ग्रहस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् । अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम् ब्राह्मणम् । अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् । वामदेव्यास् तृतीय सवन उन्नीयमानेभ्यो अन्वाह । वामदेवो ह तृतीय सनव इन्द्राय सोमम् प्रोवाच । ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या रूपेण । ता वा ऐन्द्रार्भव्यस् त्रिष्टुभो भवन्ति । इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति । ता वै नव अन्वाह । नव ह्य् अत्र चमसान् उन्नयन्ति । यथा तु प्रायणम् तथा उदयनम् । अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् । अन्धस्वत्यो मद्वत्यः पीतवत्यो जगत्यो याज्याः । जागतम् हि तृतीय सवनम् । अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् । औपासनांस् तृतीय सवन उपास्यन्ति तेषाम् उक्तम् ब्राह्मणम् । त्रिष्टुभम् सावित्र ग्रहस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् । अथ यद् उक्थ अन्तरेण अग्नीन् पत्नीवतस्य यजति । तेन तौ होतारम् अनुसमश्नुवाते ।

३०.२ उक्थोक्थानि
ऐन्द्राग्नान्य् उक्थ्य उक्थानि भवन्त् तेषाम् उक्तम् ब्राह्मणम् । अथ एतान्य् ऐन्द्राणि जागतानि सूक्तानि शंसन्ति । पशवो वै जगती । जागताः पशवः पशूनाम् एव आप्त्यै । तान्य् अच्युतानि स्युर् इति ह एक आहुः सवन धरणानि इति वदन्तः । अन्यान्य् अन्यानि इति त्व् एव स्थितम् । अन्यद् अन्यद्द् ह्य् अहर् उपयन्ति । अथ वारुणम् बार्हस्पत्यम् वैष्णवम् इति शंसन्ति । जगती वा एतेषाम् छन्दस् त्रिष्टुब् इन्द्रस्य । तद् यत् छन्दसी विपरीते द्विदेवत्यायै । ऐन्द्रावरुणम् ऐन्द्रा बार्हस्पत्यम् ऐन्द्रावैष्णवम् इति शंसन्ति । ग्रहान् एव एतैर् अनुशंसन्ति । एवम् हि ग्रहा गृहीता भवन्ति ।

३०.३ तृतीयसवने याज्यापुरोनुवाक्याः
चर्षणी धृतम् मघवानम् उक्थ्यम् इति मैत्रावरुणस् तस्य उक्तम् ब्राह्मणम् । वासिष्ठो अहर् अहः पर्यासो भवति । वसिष्ठो ह एतन् मैत्रावरुणीयायै तृतीय सवनम् ददर्श । तस्माद् वासिष्ठो अहर् अहः पर्यासो भवति । ककुप्सु मैत्रावरुणाय प्रणयन्ति तृतीये अहन् । तेनो स ब्राह्मणाच्छंसिनो वशम् एति । अथ चतुर्थे अहन्त् स्वे स्वे छन्दसि प्रणयन्ति । स्वे स्व एव तच् छन्दसि प्रतितिष्ठन्तो यन्ति । गायत्रीषु मैत्रावरुणाय प्रणयन्त्य् उष्णिक्षु ब्राह्मणाच्छंसिने अनुष्टुप्स्व् अच्छावाकाय उत्तर उत्तरितायै । तथा एषाम् चतुर्भिश् चतुर्भिर् अक्षरैश् छन्दांस्य् अभ्युद्यन्ति । पङ्क्तिषु मैत्रावरुणाय प्रणयन्ति पञ्चमे अहन् । पाङ्क्तम् हि पञ्चमम् अहः । द्विपदासु षष्ठे अहन् प्रणयन्ति सर्वेषाम् । द्वैपदम् हि षष्ठम् अहः । अथो गूर्दम् भद्रम् उद्वंश पुत्रम् इति सामानि कुर्वन्ति । अथो द्विपदा सहचराणि वै शिल्पानि भवन्ति । तस्मात् शिल्पानि शस्यन्ते । न इत् शिल्पेभ्यो अगाम इति ।

३०.४ नाभानेदिष्ठनाराशंसवालखिल्याश्च
नाभानेदिष्ठेन अत्र होता रेतः सिचति । तन् मैत्रावरुणाअय प्रयच्छति । तत् स वालखिल्याभिर् विकरोति । अथ एता वालखिल्या विहृताः शंसति । पच्छः प्र्थमे सूक्ते विहरति । पर्वश एव एनम् त्त् सम्भरति । अर्धर्चशो द्वितीये । द्वे वै पुरुषः कपले । ते एव तत् संदधाति । ऋचम् ऋचम् तृतीये । कृत्स्नम् एव एनम् तत् सम्भरति । विपर्यस्येन् नाराशंसे । तस्माद् विपर्यस्ता गर्भा जायन्ते ।   

३०.५ मैत्रावरुणस्य तार्क्ष्यं दुरोहणञ्च, ब्राह्मणाच्छंसिनः सुकीर्तिकुन्तापवृषाकपिसूक्तानि,ऐतशप्रलापश्च
तार्क्ष्ये दूरोहणम् रोहति । वायुर् वै तार्क्ष्यः । प्राणो वै वायुः । प्राणम् एव तद् यजमाना रोहन्ति । तम् ब्राह्मणाच्छंसिने प्रयच्छति । तम् स सुकीर्तिना योनिना प्रतिगृह्णाति जातम् । अथ एतम् वृषाकपिम् पङ्क्ति शंसम् शंसति । पञ्चपदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य अवाप्त्यै । न्यूङ्खयति । अन्नम् वै न्यूङ्खः । जात एव अस्मिंस् तद् अन्नाद्यम् प्रतिदधाति । अथ एतत् कुन्तापम् यथा छन्दसम् शंसति । सर्वेषाम् एव छन्दसाम् आप्त्यै । नाराशंसी रैभीः कारव्या इन्द्र गाथा भूतेच्छदः पारिक्षितीर् एतश प्रलापम् इति । एतशो ह वै मुनिर् यज्ञस्य आयुर् ददर्श । स ह पुत्रान् उवाच । पुत्रका यज्ञस्य आयुर् अदर्शम् तद् अभिलप्ष्यामि । मामाम् दृप्तम् मन्ध्वम् इति । ते ह तथा इत्य् ऊचुः । तद्द् ह अभिललाप । तस्य ह ज्येष्ठः पुत्रो अभिसृप्य मुखम् अपिजग्राह । अदृपद् वै नः पिता इति । तम् ह उवाच । अपनश्य धिक् त्वा जाल्मास्तु ( जाल्म अस्तु ?) । पापिष्ठाम् ते प्रजाम् करिष्यामि । यद् वै मे जाल्म मुखम् न अप्य् अग्रहीष्यः । शत आयुषम् गाम् अकरिष्यम् सहस्र आयुषम् पुरुषम् इति । तस्माद् ऐतशायना आजानेयाः सन्तो भृगूणाम् पापिष्ठाः पित्रा अभिशप्ताः स्वया देवतया स्वेन प्रजापतिना ।

३०.६ कुन्तापसूक्तम्
आदित्य आङ्गिरसीर् उपसंशंसति । आदित्याश् च ह वा अङ्गिरसश् च अस्पर्धन्त । वयम् पूर्वे स्वर्गम् लोकम् एष्याम इत्य् आदित्याः । वयम् इत्य् अङ्गिरसः । ते अङ्गिरस आदित्यान् प्रजिघ्युः । श्वः सुत्या नो याजयत न इति । तेषाम् ह अग्निर् दूत आस । त आदित्या ऊचुः । अथ अस्माकम् अद्य सुत्या । तेषाम् नस् त्वम् एव होता असि । बृहस्पतिर्ब्रह्माऽयास्य उद्गाता घोर आङ्गिरसो अध्वर्युर् इति । तान् न प्रत्याचचक्षिरे । तम् एताभिः शिशिक्षुः । तद् एता अभिवदन्ति । ते अश्वम् श्वेतम् दक्षिणाम् निण्युर् एतम् एव य एष तपति । तत उ ह आदित्याः स्वर् ईयुः । स्वर् एति य एवम् वेद ।  

३०.७ कुन्तापसूक्तम्
दिशाम् क्लृप्तीः शंसति । दिशो ह अस्मै कल्पन्ते । जन कल्पाः शंसति । जना ह अस्मै कल्पन्ते । प्रवल्हिकाः प्रतीराधान् अतिवादाम् आहनस्याः सर्वा वाचो वदति । तस्मात् पुरुषः सर्वा वाचो वदति । (सोम होत्रक शस्त्राणि(तृतीय सवनम्))ण्ण्ण् एकैकाम् इतरे पशवः । ता वा अष्टौ भवन्ति । एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत । तथो एव एतद् यजमाना एताभिर् एव सर्वा अष्टीर् अश्नुवते । कपृन्नरः कपृथम् उद्दधातन यद्द् ह प्राचीर् अजगन्ता इति द्वे एक पातिन्यौ । ता दश संपद्यन्ते । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

३०.८ दधिक्रा-एवयामरुत-वालखिल्यसूक्तानि
दाधिक्रीम् शंसति । वाग् वै दाधिक्री । वाचम् एव अस्मिंस् तद् दधाति । पावमानम् शंसति । पवित्रम् वै पावमान्यः । पुनात्य् एव एनत् तत् । तम् अच्छावाकाय प्रयच्छति । तम् स एवयामरुता चारयति जातम् । न्यूङ्खयति । न्यूङ्ख मानक इव वै प्रथमम् चिचर्षंश् चरति । तद् एनम् अमृताच् छन्दसो अमृतत्वाय प्रजनयन्ति । ते अमृतत्वम् आप्नुवन्ति य षष्ठम् अहर् उपयन्ति । स्तोत्रिया अनुरूपौ शस्त्वा वालखिल्याः शंसति । आत्मा वै स्तोत्रिया अनुरूपौ । प्राणा वालखिल्याः । अनन्तर्हिता उ हेमे आत्मनः प्राणाः । तद् आहुः कस्माद् वालखिल्या इति । यद् वा उर्वरयोर् असम्भिन्नम् भवति । खिल इति वै तम् आचक्षते । वाल मात्रा उ हि इमे प्राणा असम्भिन्नाः । तद् यद् असम्भिनाः । तस्माद् वालखिल्याः ।  

३०.९ विशेषदिनेषु याज्यापुरोनुवाक्याः
तार्क्ष्ये दूरोहणम् रोहति इति तद् उक्तम् । गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति द्वितीये अहन् । तेनो स मैत्रावरुणस्य वशम् एति । प्र मंहिष्ठाय बृहते बृहद् रय इति जागतम् षडृचम् तस्य उक्तम् ब्राह्मणम् । द्विस् तावद् यावन् मैत्रावरुणस्य । कार्ष्णो अहर् अहः पर्यासो भवति । कृष्णो ह एतद् आङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीय सवनम् ददर्श । तस्माद् कार्ष्णो अहर् अहः पर्यासो भवति । उष्णिक्ष्व् अच्छावाकाय प्रणयन्ति प्रथमे अहन् । तेनो स ब्राह्मणाच्छंसिनो वशम् एति । ऋतुर् जनित्रीयम् त्रयोदशर्चम् तस्य उक्तम् ब्राह्मणम् । द्विस् तावद् यावद् ब्राह्मणाच्छंसिन एका च उप । भारद्वाजो अहर् अहः पर्यासो भवति । भरद्वाजो ह एतद् अच्छावाकीयायै तृतीय सवनम् ददर्श । तस्माद् भारद्वाजो अहर् अहः पर्यासो भवति । वैष्णवे विपर्यस्यत्य् अच्छावाकः । पर्यासाव् इतरौ । द्विपर्यासुअ मैत्रावरुणश् च ब्राह्मणाच्छंसी च । एक पर्यासो अच्छावाकः । तद् यद् अच्युत पर्यासो अच्छावाकः । प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव ।

३०.१० छन्दोमेषु वैशिष्ट्यम्
षट्त्रिंशतम् मैत्रावरुणश् चतुर्विंशे शंसति । चत्वारिंशतम् ब्राह्मणाच्छंसी । चतुश् चत्वारिंशतम् अच्छावाकः । तद् विंशति शतम् । विंशति शतम् वा ऋतोर् अहानि । तद् ऋतुम् आप्नुवन्ति । ऋतुना संवत्सरम् । ये च संवत्सरे कामाः । पञ्च पञ्च सूक्तानि तृतीय सवने मैत्रावरुणः शंसति सर्वेषु छन्दोमेषु । पशवो वै छन्दोमाः । पाङ्क्ताः पशवः । पशूनाम् एव आप्त्यै । चत्वारि सूक्तानि ब्राह्मणाच्छंसी शंसति प्रथमे छन्दोमे । पशवो वै छन्दोमाः । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । पञ्च पञ्च सूक्तान्य् उत्तरयोश् छन्दोमयोः । पशवो वै छन्दोमाः । पाङ्क्ताः पशवः । पशूनाम् एव आप्त्यै । पञ्च सूक्तान्य् अच्छावाकः शंसति प्रथमे छन्दोमे । पशवो वै छन्दोमाः । पाङ्क्ताः ऋतवः संवत्सरः । संवत्सरस्य एव आप्त्यै । चतुर् आहावानि शस्त्राणि । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । षष्ठ एव अहन् मैत्रावरुणस्य पञ्च आहावम् भवति । पशवो वा उक्थानि । पाङ्क्ताः पशवः । पशूनाम् एव आप्त्यै । ऐकाहिका उक्थ्य याज्याः । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । अनुवषट् क्र्वन्त्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै ।

३०.११ अतिरात्र - वाजपेयाप्तोर्यामादिषु वैशिष्ट्यम्
पञ्च छन्दांसि रात्रौ शंसन्ति । अनुष्टुभम् गायत्रीम् उष्णिहम् त्रिष्टुभम् जगतीम् इति । एतानि वै रात्रिच् छन्दसानि । पञ्च आहावा रात्रिः । वाजपेयस्य च अतिरिक्त उक्थम् । उक्थस्य अतिग्रहो रात्रिः । छन्दसे छन्दस एव तद् आह्वयन्त इति ह स्म आह कौषीतकिर् अजामितायै । अथ यत् तिरो अह्न्यवतीम् त्रिष्टुभम् आश्विन इक्थ ग्रहस्य पुरोनुवाक्याम् अन्वाह । तिरो अह्न्यवान् प्रैषः । तिरो अह्न्या हि सोमा भवन्ति । अथो बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । चतुर् आहावान्य् अप्तोर्यामस्य अतिरिक्त उक्थानि । पशवो वा उक्थानि । चतुष्टया वै पशवः । अथो चतुष्पादाः पशूनाम् एव आप्त्यै । क्षैत्रपत्यः परिधानीयाः कुर्वते । इयम् वै क्षेत्रम् पृथिवी । अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्याम इति । अस्याम् एव तद् अदीनायाम् अन्ततः प्रतितिष्ठन्ति । अथ यत् तिरो अह्न्यवत्यस् त्रिष्टुभो याज्या भवन्ति । तिरो अह्न्या हि सोमा भवन्ति । अथो बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यई । अथ हारियोजनेन चरन्ति तस्य उक्तम् ब्राह्मणम् । त्रिष्टुभम् हारियोजनस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् । अथ यद् अतिप्रैषस्य पुरोनुवाक्याम् अन्वाह । अवीर्यो ह वा उ स प्रैषो यो अपुरोनुवाख्यः । अथो द्विदेवत्येषु वै पुरोनुवाक्या भवन्ति । सर्वेषु च प्रस्थितेषु । तस्माद् अस्य पुरोनुवाक्याम् अन्वाह । अथ यद् अतिप्रैषम् आह । परम् एव एतद् अहर् अभिवदति । परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।  


३०.१ प्रारम्भिककृत्यानि
वसूनां वै प्रातःसवनं रुद्राणां माध्यंदिनं सवनमादित्यानां तृतीयसवनं
तद्यदादित्यग्रहेण तृतीयसवनं प्रतिपद्यते स्वयैव तद्देवतया प्रतिपद्यते
अथो अधीतरसं वा एतत्सवनं यत्तृतीयसवनमथैव सरसो ग्रहो यदादित्यग्रहस्तेनैव तत्तृतीयसवनं सरसं करोति
त्रिष्टुभम् आदित्य ग्रहस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् ।
अथ स्तुते पवमाने पशुना चरन्ति तस्य उक्तम् ब्राह्मणम् ।
अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् ।
वामदेव्यास् तृतीय सवन उन्नीयमानेभ्यो अन्वाह ।
वामदेवो ह तृतीय सनव इन्द्राय सोमम् प्रोवाच ।
ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या रूपेण ।
ता वा ऐन्द्रार्भव्यस् त्रिष्टुभो भवन्ति ।
इन्द्रम् एव तद् अर्ध भाजम् सवनस्य करोति ।
ता वै नव अन्वाह ।
नव ह्य् अत्र चमसान् उन्नयन्ति ।
यथा तु प्रायणम् तथा उदयनम् ।
अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् ।
अन्धस्वत्यो मद्वत्यः पीतवत्यो जगत्यो याज्याः ।
जागतम् हि तृतीय सवनम् ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् ।
औपासनांस् तृतीय सवन उपास्यन्ति तेषाम् उक्तम् ब्राह्मणम् ।
त्रिष्टुभम् सावित्र ग्रहस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् ।
अथ यद् उक्थ अन्तरेण अग्नीन् पत्नीवतस्य यजति ।
तेन तौ होतारम् अनुसमश्नुवाते ।

३०.२ उक्थोक्थानि
ऐन्द्राग्नान्य् उक्थ्य उक्थानि भवन्त् तेषाम् उक्तम् ब्राह्मणम् ।
अथ एतान्य् ऐन्द्राणि जागतानि सूक्तानि शंसन्ति ।
पशवो वै जगती ।
जागताः पशवः पशूनाम् एव आप्त्यै ।
तान्य् अच्युतानि स्युर् इति ह एक आहुः सवन धरणानि इति वदन्तः ।
अन्यान्य् अन्यानि इति त्व् एव स्थितम् ।
अन्यद् अन्यद्द् ह्य् अहर् उपयन्ति ।
अथ वारुणम् बार्हस्पत्यम् वैष्णवम् इति शंसन्ति ।
जगती वा एतेषाम् छन्दस् त्रिष्टुब् इन्द्रस्य ।
तद् यत् छन्दसी विपरीते द्विदेवत्यायै ।
ऐन्द्रावरुणम् ऐन्द्रा बार्हस्पत्यम् ऐन्द्रावैष्णवम् इति शंसन्ति ।
ग्रहान् एव एतैर् अनुशंसन्ति ।
एवम् हि ग्रहा गृहीता भवन्ति ।

३०.३ तृतीयसवने याज्यापुरोनुवाक्याः
चर्षणी धृतम् मघवानम् उक्थ्यम् इति मैत्रावरुणस् तस्य उक्तम् ब्राह्मणम् ।
वासिष्ठो अहर् अहः पर्यासो भवति ।
वसिष्ठो ह एतन् मैत्रावरुणीयायै तृतीय सवनम् ददर्श ।
तस्माद् वासिष्ठो अहर् अहः पर्यासो भवति ।
ककुप्सु मैत्रावरुणाय प्रणयन्ति तृतीये अहन् ।
तेनो स ब्राह्मणाच्छंसिनो वशम् एति ।
अथ चतुर्थे अहन्त् स्वे स्वे छन्दसि प्रणयन्ति ।
स्वे स्व एव तच् छन्दसि प्रतितिष्ठन्तो यन्ति ।
गायत्रीषु मैत्रावरुणाय प्रणयन्त्य् उष्णिक्षु ब्राह्मणाच्छंसिने अनुष्टुप्स्व् अच्छावाकाय उत्तर उत्तरितायै ।
तथा एषाम् चतुर्भिश् चतुर्भिर् अक्षरैश् छन्दांस्य् अभ्युद्यन्ति ।
पङ्क्तिषु मैत्रावरुणाय प्रणयन्ति पञ्चमे अहन् ।
पाङ्क्तम् हि पञ्चमम् अहः ।
द्विपदासु षष्ठे अहन् प्रणयन्ति सर्वेषाम् ।
द्वैपदम् हि षष्ठम् अहः ।
अथो गूर्दम् भद्रम् उद्वंश पुत्रम् इति सामानि कुर्वन्ति ।
अथो द्विपदा सहचराणि वै शिल्पानि भवन्ति ।
तस्मात् शिल्पानि शस्यन्ते ।
न इत् शिल्पेभ्यो अगाम इति ।

३०.४ नाभानेदिष्ठनाराशंसवालखिल्याश्च
नाभानेदिष्ठेन अत्र होता रेतः सिचति ।
तन् मैत्रावरुणाअय प्रयच्छति ।
तत् स वालखिल्याभिर् विकरोति ।
अथ एता वालखिल्या विहृताः शंसति ।
पच्छः प्र्थमे सूक्ते विहरति ।
पर्वश एव एनम् त्त् सम्भरति ।
अर्धर्चशो द्वितीये ।
द्वे वै पुरुषः कपले ।
ते एव तत् संदधाति ।
ऋचम् ऋचम् तृतीये ।
कृत्स्नम् एव एनम् तत् सम्भरति ।
विपर्यस्येन् नाराशंसे ।
तस्माद् विपर्यस्ता गर्भा जायन्ते ।

३०.५ मैत्रावरुणस्य तार्क्ष्यं दुरोहणञ्च, ब्राह्मणाच्छंसिनः सुकीर्तिकुन्तापवृषाकपिसूक्तानि,ऐतशप्रलापश्च
तार्क्ष्ये दूरोहणम् रोहति ।
वायुर् वै तार्क्ष्यः ।
प्राणो वै वायुः ।
प्राणम् एव तद् यजमाना रोहन्ति ।
तम् ब्राह्मणाच्छंसिने प्रयच्छति ।
तम् स सुकीर्तिना योनिना प्रगिगृह्णाति जातम् ।
अथ एतम् वृषाकपिम् पङ्क्ति शंसम् शंसति ।
पञ्चपदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य अवाप्त्यै ।
न्यूङ्खयति ।
अन्नम् वै न्यूङ्खः ।
जात एव अस्मिंस् तद् अन्नाद्यम् प्रतिदधाति ।
अथ एतत् कुन्तापम् यथा छन्दसम् शंसति ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
नाराशंसी रैभीः कारव्या इन्द्र गाथा भूतेच्छदः पारिक्षितीर् एतश प्रलापम् इति ।
एतशो ह वै मुनिर् यज्ञस्य आयुर् ददर्श ।
स ह पुत्रान् उवाच ।
पुत्रका यज्ञस्य आयुर् अदर्शम् तद् अभिलप्ष्यामि ।
मामाम् दृप्तम् मन्ध्वम् इति ।
ते ह तथा इत्य् ऊचुः ।
तद्द् ह अभिललाप ।
तस्य ह ज्येष्ठः पुत्रो अभिसृप्य मुखम् अपिजग्राह ।
अदृपद् वै नः पिता इति ।
तम् ह उवाच ।
अपनश्य धिक् त्वा जाल्मास्तु ( जाल्म अस्तु ?) ।
पापिष्ठाम् ते प्रजाम् करिष्यामि ।
यद् वै मे जाल्म मुखम् न अप्य् अग्रहीष्यः ।
शत आयुषम् गाम् अकरिष्यम् सहस्र आयुषम् पुरुषम् इति ।
तस्माद् ऐतशायना आजानेयाः सन्तो भृगूणाम् पापिष्ठाः पित्रा अभिशप्ताः स्वया देवतया स्वेन प्रजापतिना ।

श्येनचितेः परिक्रमणम्

३०.६ कुन्तापसूक्तम्
आदित्य आङ्गिरसीर् उपसंशंसति ।
आदित्याश् च ह वा अङ्गिरसश् च अस्पर्धन्त ।
वयम् पूर्वे स्वर्गम् लोकम् एष्याम इत्य् आदित्याः ।
वयम् इत्य् अङ्गिरसः ।
ते अङ्गिरस आदित्यान् प्रजिघ्युः ।
श्वः सुत्या नो याजयत न इति ।
तेषाम् ह अग्निर् दूत आस ।
त आदित्या ऊचुः ।
अथ अस्माकम् अद्य सुत्या ।
तेषाम् नस् त्वम् एव होता असि ।
बृहस्पतिर्ब्रह्माऽयास्य उद्गाता घोर आङ्गिरसो अध्वर्युर् इति ।
तान् न प्रत्याचचक्षिरे ।
तम् एताभिः शिशिक्षुः ।
तद् एता अभिवदन्ति ।
ते अश्वम् श्वेतम् दक्षिणाम् निण्युर् एतम् एव य एष तपति ।
तत उ ह आदित्याः स्वर् ईयुः ।
स्वर् एति य एवम् वेद ।

३०.७ कुन्तापसूक्तम्
दिशाम् क्लृप्तीः शंसति ।
दिशो ह अस्मै कल्पन्ते ।
जन कल्पाः शंसति ।
जना ह अस्मै कल्पन्ते ।
प्रवल्हिकाः प्रतीराधान् अतिवादाम् आहनस्याः सर्वा वाचो वदति ।
तस्मात् पुरुषः सर्वा वाचो वदति । (सोम होत्रक शस्त्राणि(तृतीय सवनम्))ण्ण्ण्
एकैकाम् इतरे पशवः ।
ता वा अष्टौ भवन्ति ।
एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमाना एताभिर् एव सर्वा अष्टीर् अश्नुवते ।
कपृन्नरः कपृथम् उद्दधातन यद्द् ह प्राचीर् अजगन्ता इति द्वे एक पातिन्यौ ।
ता दश संपद्यन्ते ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।

३०.८ दधिक्रा-एवयामरुत-वालखिल्यसूक्तानि
दाधिक्रीम् शंसति ।
वाग् वै दाधिक्री ।
वाचम् एव अस्मिंस् तद् दधाति ।
पावमानम् शंसति ।
पवित्रम् वै पावमान्यः ।
पुनात्य् एव एनत् तत् ।
तम् अच्छावाकाय प्रयच्छति ।
तम् स एवयामरुता चारयति जातम् ।
न्यूङ्खयति ।
न्यूङ्ख मानक इव वै प्रथमम् चिचर्षंश् चरति ।
तद् एनम् अमृताच् छन्दसो अमृतत्वाय प्रजनयन्ति ।
ते अमृतत्वम् आप्नुवन्ति य षष्ठम् अहर् उपयन्ति ।
स्तोत्रिया अनुरूपौ शस्त्वा वालखिल्याः शंसति ।
आत्मा वै स्तोत्रिया अनुरूपौ ।
प्राणा वालखिल्याः ।
अनन्तर्हिता उ हेमे आत्मनः प्राणाः ।
तद् आहुः कस्माद् वालखिल्या इति ।
यद् वा उर्वरयोर् असम्भिन्नम् भवति ।
खिल इति वै तम् आचक्षते ।
वाल मात्रा उ हि इमे प्राणा असम्भिन्नाः ।
तद् यद् असम्भिनाः ।
तस्माद् वालखिल्याः ।

३०.९ विशेषदिनेषु याज्यापुरोनुवाक्याः
तार्क्ष्ये दूरोहणम् रोहति इति तद् उक्तम् ।
गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति द्वितीये अहन् ।
तेनो स मैत्रावरुणस्य वशम् एति ।
प्र मंहिष्ठाय बृहते बृहद् रय इति जागतम् षडृचम् तस्य उक्तम् ब्राह्मणम् ।
द्विस् तावद् यावन् मैत्रावरुणस्य ।
कार्ष्णो अहर् अहः पर्यासो भवति ।
कृष्णो ह एतद् आङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीय सवनम् ददर्श ।
तस्माद् कार्ष्णो अहर् अहः पर्यासो भवति ।
उष्णिक्ष्व् अच्छावाकाय प्रणयन्ति प्रथमे अहन् ।
तेनो स ब्राह्मणाच्छंसिनो वशम् एति ।
ऋतुर् जनित्रीयम् त्रयोदशर्चम् तस्य उक्तम् ब्राह्मणम् ।
द्विस् तावद् यावद् ब्राह्मणाच्छंसिन एका च उप ।
भारद्वाजो अहर् अहः पर्यासो भवति ।
भरद्वाजो ह एतद् अच्छावाकीयायै तृतीय सवनम् ददर्श ।
तस्माद् भारद्वाजो अहर् अहः पर्यासो भवति ।
वैष्णवे विपर्यस्यत्य् अच्छावाकः ।
पर्यासाव् इतरौ ।
द्विपर्यासुअ मैत्रावरुणश् च ब्राह्मणाच्छंसी च ।
एक पर्यासो अच्छावाकः ।
तद् यद् अच्युत पर्यासो अच्छावाकः ।
प्रतिष्ठा वा अच्छावाकः प्रतिष्ठित्या एव ।

३०.१० छन्दोमेषु वैशिष्ट्यम्
षट्त्रिंशतम् मैत्रावरुणश् चतुर्विंशे शंसति ।
चत्वारिंशतम् ब्राह्मणाच्छंसी ।
चतुश् चत्वारिंशतम् अच्छावाकः ।
तद् विंशति शतम् ।
विंशति शतम् वा ऋतोर् अहानि ।
तद् ऋतुम् आप्नुवन्ति ।
ऋतुना संवत्सरम् ।
ये च संवत्सरे कामाः ।
पञ्च पञ्च सूक्तानि तृतीय सवने मैत्रावरुणः शंसति सर्वेषु छन्दोमेषु ।
पशवो वै छन्दोमाः ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
चत्वारि सूक्तानि ब्राह्मणाच्छंसी शंसति प्रथमे छन्दोमे ।
पशवो वै छन्दोमाः ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
पञ्च पञ्च सूक्तान्य् उत्तरयोश् छन्दोमयोः ।
पशवो वै छन्दोमाः ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
पञ्च सूक्तान्य् अच्छावाकः शंसति प्रथमे छन्दोमे ।
पशवो वै छन्दोमाः ।
पाङ्क्ताः ऋतवः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
चतुर् आहावानि शस्त्राणि ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
षष्ठ एव अहन् मैत्रावरुणस्य पञ्च आहावम् भवति ।
पशवो वा उक्थानि ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
ऐकाहिका उक्थ्य याज्याः ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
अनुवषट् क्र्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।

३०.११ अतिरात्र - वाजपेयाप्तोर्यामादिषु वैशिष्ट्यम्
पञ्च छन्दांसि रात्रौ शंसन्ति ।
अनुष्टुभम् गायत्रीम् उष्णिहम् त्रिष्टुभम् जगतीम् इति ।
एतानि वै रात्रिच् छन्दसानि ।
पञ्च आहावा रात्रिः ।
वाजपेयस्य च अतिरिक्त उक्थम् ।
उक्थस्य अतिग्रहो रात्रिः ।
छन्दसे छन्दस एव तद् आह्वयन्त इति ह स्म आह कौषीतकिर् अजामितायै ।
अथ यत् तिरो अह्न्यवतीम् त्रिष्टुभम् आश्विन इक्थ ग्रहस्य पुरोनुवाक्याम् अन्वाह ।
तिरो अह्न्यवान् प्रैषः ।
तिरो अह्न्या हि सोमा भवन्ति ।
अथो बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
चतुर् आहावान्य् अप्तोर्यामस्य अतिरिक्त उक्थानि ।
पशवो वा उक्थानि ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
क्षैत्रपत्यः परिधानीयाः कुर्वते ।
इयम् वै क्षेत्रम् पृथिवी ।
अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्याम इति ।
अस्याम् एव तद् अदीनायाम् अन्ततः प्रतितिष्ठन्ति ।
अथ यत् तिरो अह्न्यवत्यस् त्रिष्टुभो याज्या भवन्ति ।
तिरो अह्न्या हि सोमा भवन्ति ।
अथो बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यई ।
अथ हारियोजनेन चरन्ति तस्य उक्तम् ब्राह्मणम् ।
त्रिष्टुभम् हारियोजनस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् ।
अथ यद् अतिप्रैषस्य पुरोनुवाक्याम् अन्वाह ।
अवीर्यो ह वा उ स प्रैषो यो अपुरोनुवाख्यः ।
अथो द्विदेवत्येषु वै पुरोनुवाक्या भवन्ति ।
सर्वेषु च प्रस्थितेषु ।
तस्माद् अस्य पुरोनुवाक्याम् अन्वाह ।
अथ यद् अतिप्रैषम् आह ।
परम् एव एतद् अहर् अभिवदति ।
परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।

इति शाङ्खायनब्राह्मणे त्रिंशो ध्यायः।।३०।।


ब्राह्मणम्

अस्मिन् वै लोक उभये देव मनुष्या आसुः ।
ते देवाः स्वर्गंल् लोकम् यन्तो अग्निम् अचुः ।
त्वम् नो अस्य लोकस्य अध्यक्ष एधि इति । (अग्न्याधान)
तान् अगिर् उवाच ।
अथ यद् वो अहम् घोर संस्पर्शतमो अस्मि ।
अनपचायितारो मनुष्याः । (अग्न्याधान)
कथम् वस् तद् भविष्यति यन् मनुष्येष्व् इति ।
ते देवा ऊचुः ।
तस्य वै ते वयम् घोरास् तनूर् विनिधास्यामः । (अग्न्याधान)
अथ या एव ते शिवा शग्मा यज्ञिया तनूः ।
तया इह मनुष्येभ्यो भविष्यसि इति । (अग्न्याधान)
तस्य अप्सु पवमानाम् अदधुः ।
वायौ पावकाम् ।
आदित्ये शुचिम् । (अग्न्याधान)
अथ या एव अस्य शिवा शग्मा यज्ञिया तनूर् आसीत् ।
तया इह मनुष्येभ्यो अतपत् । (अग्न्याधान)
एता वा अग्नेस् तन्वः ।
तद् यद् एता देवता यजति ।
अत्र अग्निः साङ्गः सतनूः प्रीतो भवति । (अग्न्याधान)
ता वै तिस्रो भवन्ति ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नोति । (अग्न्याधान)

पौर्णमासम् प्रथमायै तन्त्रम् भवति ।
आमावास्यम् द्वितीयायै ।
तेन ह अस्य दर्श पूर्ण मासाव् अन्वारब्धौ भवतः । (अग्न्याधान)
ईडितवत्यौ हव्यवाड्वत्यौ प्रथमायै सम्याज्ये ।
तत् सम्याज्या रूपम् ।
द्व्य् अग्नी द्वितीयायै । (अग्न्याधान)
द्वौ हि अग्नी यजति ।
सप्तसस सामिधेनीका तृतीया ।
सप्तदश सामिधेनीका वा इष्टि पशु बन्धाः । (अग्न्याधान)
तद् इष्टि पौश् बन्धान् आप्नोति ।
सद्वन्ताव् आज्य भागौ भवतः ।
असानि इति वा अग्नीन् आधत्ते । (अग्न्याधान)
स्याम् इति कामयते ।
स यदि ह वा अपि स्वैषावीर इव सन्न् अग्नीन् आधत्ते ।
क्षिप्र एव सम्भवति । (अग्न्याधान)
क्षिप्रे भोग्यताम् अश्नुते ।
यः सद्वन्तौ कुरुते ।
विराजौ सम्याज्ये ।
श्रीर् विराड् अन्नाद्यम् । (अग्न्याधान)
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
ता वै गायत्र्यो भवन्ति ।
गायत्रो वा अग्निर् गायत्रच् छन्दाः । (अग्न्याधान)
स्वेन एव तच् छन्दसा अग्नीन् आधत्ते ।
ता वा उपांशु भवन्ति ।
रेतः सिक्तिर् वा अग्न्य् आध्येयम् । (अग्न्याधान)
उपांशु वै रेतः सिच्यते ।
अभिरूपा भवन्ति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । (अग्न्याधान)
द्वादश दद्यात् ।
द्वादश वै मासाः संवत्सरः ।
संवत्सरस्य एव आप्त्यै । (अग्न्याधान)
अश्वम् त्रयोदशम् ददाति ।
यस् त्रयोदशो मासस् तस्य आप्यै । (अग्न्याधान)

देव असुरा वा एषु लोकेषु सम्यत्ता आसुः ।
तेभ्यो अग्निर् अपाक्रामत् ।
स ऋतून् प्राविशत् ।
ते देवा हत्वा असुरान् विजित्य अग्निम् अन्वैच्छन् । (अग्न्याधान)
तम् यमश् च वरुणश् च अन्वपश्यताम् ।
तम् उपामन्त्रयन्त ।
तम् अज्ञपयन् ।
तस्मै वरम् अददुः । (अग्न्याधान)
स ह एतम् वरम् वव्रे ।
प्रयाजान् मे अनुयाजांश् च केवलान् घृतम् च अपाम् पुरुषम् च ओषधीनाम् इति । (अग्न्याधान)
तस्माद् आहुर् आग्नेयाः प्रयाज अनुयाजा आग्नेयम् आज्यम् इति ।
ततो वै देवा अभवन् । (अग्न्याधान)
परा असुराः ।
भवत्य् आत्मना ।
परा अस्य द्वेष्यो य एवम् वेद ।
तद् आहुः कस्मिन्न् ऋतौ पुनर् आदधीत इति । (अग्न्याधान)
वर्षास्व् इति ह एक आहुः ।
वर्षासु वै सर्वे कामाः ।
सर्वेषाम् एव कामानाम् आप्त्यै । (अग्न्याधान)
मध्या वर्षे पुनर् वसू नक्षत्रम् उदीक्ष्य पुनर् आदधीत ।
पुनर् मा वसु वित्तम् उपनमत्व् इति । (अग्न्याधान)
अथो पुनः कामस्य उपाप्त्यै ।
तद् वै न तस्मिन् काले पूर्व पक्षे पुनर् वसुभ्याम् सम्पद्यते । (अग्न्याधान)
या एव एषा आषाढ्या उपरिष्टाद् अमावास्या भवति ।
तस्याम् पुनर् आदधीत ।
सा पुनर् वसुभ्याम् सम्पद्यते । (अग्न्याधान)
उपाप्तो अमावास्यायाम् कामो भवति ।
उपाप्तो वर्षासु ।
उपाप्तः पुनर् वस्वोः । (अग्न्याधान)
तस्मात् तस्याम् पुनर् आदधीत ।
पञ्च कपालः पुरोडाशो भवति ।
पञ्च पदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । (अग्न्याधान)

विभक्तिभिः प्रयाज अनुयाजान् यजति ।
ऋतवो वै प्रयाज अनुयाजाः ।