कौषीतकिब्राह्मणम्/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ कौषीतकिब्राह्मणम्
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
सोमयागः (होत्रकशस्त्राणि)


२९.१ माध्यन्दिनसवने ग्रावस्तुत्कर्म
अथ यत्र ह तत् सर्व चरौ देवा यज्ञम् अतन्वत ।
तान् ह अर्बुदः काद्रवेयो मध्यंदिन उपोदासृप्या (?) उवाच ।
एका वै व इयम् होत्रा न क्रियते ग्राव स्तोत्रिया ।
ताम् वो अहम् करवाण्य् उप मा ह्वयध्वम् इति ।
ते ह तथा इत्य् ऊचुः ।
तम् ह उपजुहुविरे ।
स एता ग्राव स्तोत्रिया अभिरूपा अपश्यत् ।
प्र एते वदन्तु प्र वयम् वदाम इति प्रवदत्सु ।
प्र हि ते वदन्ति प्रसवदति ।
अथ यत्र बृहद् बृहद् इति ।
बृहद् वदन्ति मदिरेण मन्दिना इति तत्र ।
वि षू मुञ्च इति विमुञ्चत्सु ।
ता वै चतुर्दश भवन्ति ।
दश वा अङ्गुलयश् चत्वारो ग्रावाणः ।
एतद् एव तद् अभिसम्पद्यन्ते ।
ता वै जगत्यो भवन्ति ।
जागता वै ग्रावाणः ।
अथ यत् त्रिष्टुभा परिदधाति ।
ता वै जगत्यो भवन्ति ।
जागता वै ग्रावाणः ।
अथ यत् त्रिष्टुभा परिदधाति ।
तेनो मध्यंदिने त्रिष्टुब् उपाप्ता ।
स वै तिष्ठन्न् अभिष्टौति ।
तिष्ठन्ति इव वै ग्रावाणः ।
स वा उष्णीष्य् अपिनद्ध अक्षो अभितुष्टाव ।
तस्माद् व् अप्य् एतर्ह्य् उष्णीष्य् एव ग्राव्णो अभिष्टौति ।
अथो खल्व् आहुः ।
चक्षुर् हा ह स सर्प आस ।
तद् ऋत्विजो विषम् अपीयाय ।
स एताः पावमानीर् विष अपमदनीर् अभितुष्टाव ।
तद् यत् पावमानीर् विष अपमदनीर् अभिष्टौति ।
यज्ञस्य एव शान्त्यै ।
यजमानस्य च भिषज्यायै ।

२९.२ प्रस्थितयाज्याः
अथ स्तुते पवमाने दधि घर्मेण चरन्ति तस्य उक्तम् ब्राह्मणम्।
अथ हविष् पङ्क्त्या चरन्ति तस्या उक्तम् ब्राह्मणम् ।
वासिष्ठीर् मध्यंदिन उन्नीयमानेभ्यो अन्वाह ।
वसिष्ठो ह मध्यंदिन इन्द्राय सोमम् प्रोवाच ।
ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या रूपेण ।
ता वा ऐन्द्र्यस् त्रिष्टुभो भवन्ति ।
ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् ।
ता वै दश अन्वाह ।
दश ह्य् अत्र चमसान् उन्नयन्ति ।
अथ होत्राः सम्यजन्ति तासाम् उक्तम् ब्राह्मणम् ।
ऐन्द्रीभिस् त्रिष्टुब्भिर् मध्यंदिने प्रस्थितानाम् यजन्ति ।
ऐन्द्रम् हि त्रैष्टुभम् माध्यंदिनम् सवनम् ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
अथ इडा अथ होतृ चमसस् तस्य उक्तम् ब्राह्मणम् ।
हुतेषु दाक्षिणेषु दक्षिणा नीयन्ते तासाम् उक्तम् ब्राह्मणम् ।
वैश्वामित्रीम् मरुत्वतीय ग्रहस्य पुरोनुवाक्याम् अन्वाह तस्या उक्तम् ब्राह्मणम् ।
     
२९.३ माध्यन्दिनसवने होत्रककर्म
वामदेव्यम् मैत्रावरुणस्य पृष्ठम् भवति ।
शान्तिर् वै भेषजम् वामदेव्यम् ।
शान्तिर् एव एषा भेषजम् यज्ञे क्रियते ।
नौधसम् ब्राह्मणाच्छंसिनः ।
तद् वै निधनवद् भवति ।
प्रतिष्ठा वै निधनम् प्रतिष्ठित्या एव ।
कालेयम् अच्छावाकस्य ।
तद् वा ऐडम् बृहतीषु कुर्वन्ति ।
पशवो वा इडा ।
पशवो बृहती ।
बार्हताः पशवः पशूनाम् एव आप्त्यै ।
अथ एतान्त् साम प्रगाथान् अनुशंसन्ति ।
तथा एषाम् होतुर् न्यायाद् अनितम् भवति ।
पञ्चर्चे मैत्रावरुणस्य च अच्छावाकस्य च उक्थ मुखे भवतः ।
एकादशर्चौ पर्यासौ ।
अन्ताव् एव एतत् सदृशौ कुर्वतः ।
विश्वामित्रस्य च वामदेवस्य च मैत्रावरुणः शंसति ।
वामदेव्यम् ह्य् अस्य पृष्ठम् भवति ।
विश्वामित्रस्य च वसिष्ठस्य च ब्राह्मणाच्छंसी ।
वासिष्ठो ह्य् अस्य पर्यासो भवति ।
भरद्वाजस्य च विश्वामित्रस्य च अच्छावाकः ।
वैश्वामित्रो ह्य् अस्य पर्यासो भवति ।
भरद्वाजस्य च विश्वामित्रस्य च अच्छावाकः ।
वैश्वामित्रो ह्य् अस्य पर्यासो भवति ।
ते वै चतुर्णाम् ऋषीणाम् शंसन्ति ।
आ चतुरम् वै द्वन्द्वम् मिथुनम् प्रजननम् प्रजात्यै ।
वैश्वामित्रे मैत्रावरुणस्य च ब्राह्मणाच्छंसिनश् च उक्थ मुखे भवतः ।
पर्यासो अच्छावाकस्य ।
वाग् वै विश्वामित्रः ।
वाचा एव तत् सर्वतो यज्ञम् तन्वत इत्य् एतद् ब्राह्मणम् ।
प्रायणीय उदयनीययोर् ऐकाह्यम् च भवति ।

२९.४ प्रगाथास्त्रिष्टुभश्च
वामदेव्यम् मैत्रावरुणस्य अहर् अहः पृष्ठम् भवति ।
शान्तिर् वै भेषजम् वामदेव्यम् ।
शान्तिर् एव एषा भेषजम् अहर् अहर् यज्ञे क्रियते ।
अथ एतान् कद्वतः प्रगाथान् अहर् अहः शंसन्ति ।
को वै प्रजापतिः ।
प्रजापताव् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
अथो अशान्तानि वा एते अहीन सूक्तान्य् अन्यान्य् अन्यान्य् उपयुञ्जाना यन्ति ।
तान्य् एव एतैः कद्वद्भिः प्रगाथैर् अहर् अहः शमयन्तो यन्ति ।
अथ एतास् तन्त्र्यास् त्रिष्टुभ उक्थ प्रतिपदो अहर् अहः शस्यन्ते ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बल एव तद् वीर्ये अहर् अहः प्रतितिष्ठन्तो यन्ति ।
अप प्रच (?) इन्द्र विश्वान् अमित्रान् इति सौकीर्तिम् मैत्रावरुणो अपनुत्तवतीम् पाप्मन एव अपनुत्त्यै ।
यद् आर्षेये सूक्ते तद् आर्षेये उक्थ मुखीये इतरयोः ।
ब्रह्मणा ते ब्रह्म युजा युनज्म्य् उरुम् नो लोकम् अनु नेषि विद्वान् इति ब्रह्मवत्य् उरुवत्यौ ।
ब्रह्मणि च एव तद् उरु गाये च अहर् अहः प्रतितिष्ठन्तो यन्ति ।
    
२९.५ चतुर्थपञ्चमषष्ठदिनेषु तृचः
अथ एतान् शिल्पानि मध्यमे त्र्यहे शस्यन्ते ।
शिल्पवान् ह्य् एष मध्यमस् त्र्यहो भवति ।
विराजश् च वैमद्यश् च चतुर्थे अहन् ।
वैराजम् हि चतुर्थम् अहः ।
पङ्क्तयश् च महा पङ्क्तयश् च पञ्चमे अहन् ।
पाङ्क्तम् हि पञ्चमम् अहः ।
अतिच्छन्दसः षष्ठे अहन् ।
आतिच्छन्दसम् हि षष्ठम् अहः ।
अथो अपृष्ठम् वा उ तद् यद् अन्यत्र बृहत्यै क्रियते ।
च्यवन्त उ वा अत्र बृहत्यै पृष्ठानि ।
शिल्पेष्व् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
अथो अन्तरिक्षम् वा एष मध्यमस् त्र्यहः ।
अनारम्भणम् वा इदम् अन्तरिक्षम् अप्रतिष्ठानम् ।
शिल्पेष्व् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
तानि वै तृचानि भवन्ति ।
त्रिवृद् वै शिल्पम् नृत्तम् गीतम् वादितम् इति ।
तेष्व् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
मा चिद् अन्यद् वि शंसत मा भेम मा श्रमिष्म इति मैथाथम् मैत्रावरुणस्य दशमे अहन् बृहतीषु पृष्ठम् भवति ।
न हि तस्य प्राग् दशमाद् अह्नो बृहतीषु पृष्ठम् भवति ।
एकस्था वै श्रीः ।
श्रीर् वै बृहती ।
श्रियाम् एव तद् अन्ततः प्रतितिष्ठन्ते यन्ति ।
द्विपदाः शस्त्वा ऐकाहिकानि शंसन्ति ।
प्रतिष्ठा वा एकाहः प्रतिष्ठा दशमम् अहः ।
प्रतिष्ठानीयम् वै छन्दो द्विपदाः प्रतिष्ठित्या एव ।

२९.६ ब्राह्मणाच्छंसिनो मन्त्राः
नौधसम् ब्राह्मणाच्छंसिनस् तस्य उक्तम् ब्राह्मणम् ।
पङ्क्तिषु ब्राह्मणाच्छंसिने च अच्छावाकाय च प्रणयन्ति पञ्चमे अहन् ।
पाङ्क्तम् हि पञ्चमम् अहः ।
गायत्रीषु ब्राह्मणाच्छंसिने प्रणयन्ति षष्ठे अहन् ।
रैवतस्य एव अह्नो रूपेण ।
अहीन सूक्तानि षष्ठे अहनि शंसन्ति ।
अहीन संतत्या अहीन रूपतायै ।
अहीनान्त् सर्वान् कामान् आप्नुम इति ।
न ह्य् अत्र किंचन हीयते ।
उद् उ ब्रह्माण्य् ऐरत श्रवस्य इत्य् अहर् अहः पर्यासः ।
ऋतवो वा उदुब्रह्मीयम् ।
ऋतुष्व् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
ता वै षड् भवन्ति ।
षड् वा ऋतवः ।
ऋतुष्व् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।

२९.७ अच्छावाकमन्त्राः
कालेयम् अच्छावाकस्य तस्य उक्तम् ब्राह्मणम् ।
षट्पदास्व् अच्छावाकाय प्रणयन्ति षष्ठे अहन् ।
षष्ठस्य एव अह्नो रूपेण ।
अभि तष्टा इव दीधया मनीषाम् इत्य् अहर् अहः पर्यासः ।
प्रजापतिर् वा अभितष्टीयम् ।
प्रजापताव् एव तद् अहर् अहः प्रतितिष्ठन्तो यन्ति ।
तद् वा अनिरुक्तम् भवति ।
अनिरुक्त उ वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
सा वा अत्र एका एव निरुक्ता ।
एक उ वै प्रजापतिः ।
तत् प्रजापत्यम् रूपम् ।

२९.८ होत्रकसूक्तानि
दशर्चम् भवति ।
दश इमे प्राणाः ।
प्राणान् एव तद् यज्ञेषु च यजमानेषु च दधाति ।
द्विषु उक्ता होत्राणाम् मध्यंदिनाः ।
द्व्युक्थस्य एव होतुः प्रत्युद्यमाय ।
अथो संवत्सरो वै होता ।
ऋतवो होत्राशंसिनः ।
तद् यद् द्वन्द्वम् समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति ।
तस्माद् द्विषु उक्ता होत्राणाम् मध्यंदिनाः ।
अथो आत्मा वै होता ।
अङ्गानि होत्राश्मसिनः ।
तद् यद् द्विगुणान्य् अङ्गानि भवन्ति ।
तस्माद् द्विषु उक्ता होत्राणाम् मध्यंदिनाः ।
स्तोम अतिशंसम् प्रातः सवनेषु शस्त्वा अहीन सूक्तानि मध्यंदिनेषु शंसन्ति चतुर्विंशे अभिजित् विषुवति बृहत् पृष्ठे विश्वजिति महाव्रतीये अहन् ।
अहीनो ह्य् एतान्य् अहानि ।
तद् यद् अहीन सूक्तानि मध्यंदिनेषु शंसन्ति ।
पराञ्चीनि वा एतान्य् अहान्य् अभ्यावर्तीनि ।
न इत् पाञ्चो अगाम इति ।
अहीन सूक्तानि शस्त्वा ऐकाहिकीभिः परिदधति ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
चत्वारि चत्वारि सूक्तानि ब्राह्मणाच्छंसी च अच्छावाकश् च शंसतः सर्वेषु छन्दोमेषु ।
पशवो वै छन्दोमाः ।
चतुष्टया वै पशवः ।
अथो चतुष्पादाः पशूनाम् एव आप्त्यै ।
पञ्च आहावानि शस्त्राणि ।
पशवो वा उक्थानि ।
पाङ्क्ताः पशवः ।
पशूनाम् एव आप्त्यै ।
ऐकाहिका उक्थ्य याज्याः ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव ।
अनुवषट् कुर्वन्त्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्या आहुतीनाम् प्रतिष्ठित्यै ।