लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ०३९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णनारायणो हि पञ्चमे ।
वर्षे वैशाखमासे च धवले पूर्णिमातिथौ ।। १ ।।
सायं ब्रह्मवाटिकायां पूर्वस्यां दिशि संययौ ।
कुन्दकुसुमसौगन्ध्याऽनिलोद्याने वयस्ययुक् ।। २ । ।
इतस्ततो विहरति रमते याति बालकैः ।
प्रायः सायं समयस्य सन्निधौ परमेश्वरः ।। ३ । ।
वाटिकायां समुद्भूतां मकायीं जारिकां तथा ।
पश्यन् हरिद्रसपत्रां डोडिकाकणशोभनाम् ।। ४ ।।
गृह्णन तड्डोडिकास्तासां वह्नौ सेकं विधाय च ।
बालकैः सह संभुक्ते डोडिकानां कणाँस्तदा ।। ५ । ।
अथ पार्श्वे पवनैश्च पक्वान्याम्रफलान्यपि ।
पतितानि समादाय भुङ्क्ते वयस्यकैः सह ।। ६ ।।
नारङ्गिसन्तरामिष्टमुसम्बिखर्जुरादकान् ।
भुंजते बालकाः सर्वे वाटिकायां मुदाऽन्विता ।। ७ ।।
अथाऽऽययुस्तदा तत्र त्रयो वे राक्षसाः खलाः ।
बालरूपा बभूवुस्ते सहचोष्यं प्रचक्रिरे ।। ८ ।।
रेमिरे बुभुजुस्तत्र वहन्ते वाहयन्त्यपि ।
धावन्ति चापि कूर्दन्ति हसन्ति हासयन्ति च ।। ९ । ।
ध्येनादिश्रीकृष्णनारायणं हन्तुं समिच्छुकः ।
एको वै राक्षसस्तत्राऽभवच्छकटरूपधृक् ।। 2.38.१० ।।
वाटिकायां प्लक्षवृक्षस्याऽधो वासं विधाय सः ।
बालकृष्णं नाशयितुं समीक्षतेऽतिरागतः ।। ११ ।।
द्वितीयो राक्षसस्तत्र वाराहं रूपमास्थितः ।
बालका यत्र वै क्षेत्रे क्रीडां कुर्वन्ति तत्पुरः ।। १ २।।
गत्वा दन्तं विनिष्कास्य घूणं क्रूरं प्रदर्शयन् ।
पुच्छं विधुन्वन् नैजां स गर्जनां सम्प्रवर्तयन् ।। १ ३।।
धावँस्ततश्चातिवेगान्मारयितुं समाययौ ।
बालास्ते विकरालं वै दृष्ट्वा गन्त्रीं विलोक्य च ।। १४।।
प्लक्षं प्रत्येव शीघ्रं तु धावन्ति स्म भयान्विताः ।
चक्रुशुः शीघ्रमेवैताः शकटं प्राप्य वै द्रुतम् ।। १५।।
चक्राद् धुराद् यथामार्ग गन्त्री त्वारुरुहुस्तदा ।
कृष्णस्तत्र प्रसस्मार कालीकेसरिणं द्रुतम् ।। १६।।
काल्याः श्रीक्षेत्रपालिन्या वाहनं सिंह एव सः ।
तूर्णं तत्राऽऽययौ दिव्यो दिशो निनादयन् दृढः ।। १७।।
गर्जनां परितः कृत्वा शकटस्थान् प्रणम्य च ।
उत्प्लुत्य सूकर तं च राक्षसं धृतवान् बलात् ।। १८।।
सूकरोऽपि तु सिंहेन युयुधे बलतस्तदा ।
सिंहरूपं दधाराऽथ क्षणेन गर्जयन् मुहुः ।। १९।।
निनादयन् दिशः सर्वाः पूरयन् युयुधे भृशम् ।
कृत्रिमस्याऽस्य सिंहस्य किं बलं कृत्रिमं मृषा ।। 2.38.२० ।।
कालीसिंहेन सहसा लीलया विधृतो गले ।
कट्यां च नखरैस्तीक्ष्णैरुदरे भेदितस्तदा ।। २१।।
व्यापादितः समन्ताच्चाऽऽक्रोशन्मृतः क्षणादनु ।
तदात्मा श्रीकालिकायाः सिंहे चाभिन्नतां गतः ।। २२।।
अथाऽत्रावसरे ज्ञात्वा शकटं च निराश्रयान् ।
स्वाधीनान् बालकान् सर्वानम्बरे चोच्छ्रितं ह्यभूत् ।। २२ ।।
आकाशपथमाश्रित्य बालान्नाशयितुं तदा ।
प्रक्षिप्तुं भूतले व्योमचरं भूत्वा ययौ द्रुतम् ।।२४।।
तावच्छ्रीबालकृष्णेन गुरुत्वं स्वस्य वर्धितम् ।
अतिभारेण शकटं भूतलं प्रत्यवातरत्। ।। २५।।
यथा बाला न नश्येयुः कृष्णस्तथाऽवतारयत्। ।
बालकाश्चाऽवतीर्यैव प्लक्षमूलं समाश्रिताः ।। २६।।।
बालकृष्णस्ततो गन्त्र्यास्त्रिवेणीमूलतः क्षितौ ।
पादं वामं प्रलम्बं च कृत्वाऽथ दक्षिणं पदम् ।। २७।।
त्रिवेण्युपरि संस्थाप्य कराभ्यामवलम्ब्य ताम् ।
यावत् समावतरितुं यतते तावदेव तु ।। २८।।।
शकटाख्याऽसुरेणाऽधस्त्रिवेण्याः कीलको महान् ।
शंकुवद् वर्धितः कृष्णं प्रहन्तुं तूदरान्तरे ।। २९।।
त्रिशंकुकीलकश्चातितीक्ष्णो दीर्घो हरिं प्रति ।
लम्बमानस्तीक्ष्णधारो दृष्टो वै बालकैस्तदा ।।2.38.३ ० ।।
हरिं प्राहुस्तु ते बाला बालकृष्णोऽपि लीलया ।
नाऽवातरद् यतो यावदुदरं स्वं ररक्ष वै ।। ३१ ।।
लम्बमाने वामपदे सक्थिनी मूलसन्निधौ ।
शंकुस्तीक्ष्णः शकटेन प्रसह्य सम्प्रवेशितः ।।३२।।
सक्थिमध्यात्तदा रक्तधारा सुस्राव राधिके ।
बालकृष्णस्तदा शीघ्रं समुत्प्लुत्य तु गन्त्रिकाम् ।। ३३ ।।
पुनश्चावाऽऽरुरोहाऽथ ज्ञात्वा दुष्टं महासुरम् ।
हन्तुं पुनर्गुरुत्वं च शैलतुल्यं दधार ह ।। ३४।।
तेन भारेण नमितं शकटं भग्नमेव च ।
पतितं चोन्धिका चेषा चोष्ट्रश्चक्रे धरोऽर्दिताः ।।३५।।
अदृश्यशैलभारेण शकटश्चूर्णतां गतः ।
विसिस्मिरेऽर्भकाः सर्वेऽसुरश्च जीवतो हतः ।। ३६।।
तत्तेजो निःसृतं गन्त्र्या बालकृष्णे तिरोऽभवत् ।
अथैवं शकटं नष्टं वीक्ष्य नष्टं च सूकरम् ।। ३७।।
तृतीयो राक्षसो बालस्वरूपस्त्रासमावहत् ।
मरणं त्वन्तिकं ज्ञात्वाऽविचारयद्धरेर्मृतिम् ।।३८।।
कथं बालः प्रहन्तव्यश्चैवमेव मयाऽत्र वै ।
विना शैलस्वरूपं न बालस्याऽस्य विघातनम् ।। ३ ९।।
तस्माच्छैलो भवाम्येव निपतामि द्रुतं तथा ।
इत्यध्यवस्य सहसा व्योममार्गं गतोऽभवत् ।।2.38.४० ।।
तत्र शैलस्वरूपोऽभूद् यावत्पतितुमिच्छति ।
तावत् कृष्णो गरुडं स्वं प्रेरयामास वेगतः ।।४१ ।।
गरुडो दिव्यरूपश्च सप्रकाशं विहायसा ।
उड्ड्यमानः पद्भ्यां तं शैलं जग्राह यत्नतः ।।४२।।
तावद्धरिणा चक्रं स्वं सुदर्शनं बहूल्बणम् ।
ज्वालामालाभरं शैलदाहकं संविधाय च ।।४३।।
मुक्तं भूभृदधोभागे शैलस्तेन द्रुतं महान् ।
विद्युज्ज्वालानिभचक्रवह्निना दग्धतां गतः ।।४४।।
तद्भस्म भूतले वह्नियोगात् सहायिवायुना ।
उड्डीयोड्डीय पतितं विप्रकीर्णासु भूमिषु ।।४५।।
गौरमृद् सा बभूवाऽपि पाण्डुरा भूतलस्त्तरे ।
गरुडः सूक्ष्मतां प्राप्य चक्रं भूत्वा च शीतलम् ।।४६।।
स्वस्थानं तु समायाते कृष्णो बाला निरामयाः ।
निर्विघ्ना: सुखिनौ जाता बालकृष्णस्य सक्थिनि ।।४७। ।
रक्तं च निःसृतं यत्तु तत्र पृथ्व्यां स्वयं तदा ।
नीरुजीकरणायाश्चोषध्याः पत्ररसोऽर्पितः ।।४८।।
शीघ्रं शान्तिस्तदा जाता शंकुचिह्नं तु सर्वदा ।
ध्यानिनां ध्यानयोगार्थं क्षतरूपं प्ररक्षितम् ।। ४९।।
सर्वदा राधिके बालकृष्णसक्थ्नः शुभावहम् ।
चिह्नं तद् विद्यते मूर्तौ ध्यानाय नेत्रवन्महत् ।।।2.38.५०।।।
आर्धनारीश्वरभावव्यञ्जकं वामसक्थिजम् ।
चिह्नं वै शाश्वतं दृष्ट्वा कन्या देव्यस्तदर्चयत् ।।५ १।।
पृथ्वी पूजां चकाराऽस्य चिह्नस्य चन्दनादिभिः ।
लोमशाद्याः ऋषयश्च ध्याने चिह्नं दधुस्ततः ।।५२।।
बालाः सायं गृहं याताः काली सिंहादिसेविता ।
स्वस्थानं चोत्तरभूमौ सरसस्तत्र संययौ ।।५ ३ ।।
कालिकातश्च बालेभ्यः श्रुत्वा राक्षसघातनम् ।
पित्राद्या विस्मिताः सर्वे विघ्नशान्तिं व्यधुस्तदा ।। ५४।।
ददृशुः सूकरं गन्त्रीचूर्णं च गौरभस्म च ।
राक्षसास्ते मृता यत्र तत्र गत्वा हि मानवाः ।।५५।।
आश्चर्ये लेभिरे सर्वे क्रोशदेहं तु सूकरम् ।
गन्त्रीचूर्णं क्रोशलग्नं गौरभस्म द्वियोजनम् ।।२६ ।।
महासामर्थ्यवान् बालः कृष्णो येन महासुराः ।
विघातितास्त्रयस्त्वेते घातका बालघातिनः ।।५७।।
सम्यक्कृतं निहननं त्वेतेषां बालदेहिना ।
पुत्रास्तु रक्षिता नश्च वर्धन्तां बालकाः सदा ।।५८ ।।
एवमाशीर्वचः प्राहुः प्रसन्ना भेजुरीश्वरम् ।
राधिका प्राह भगवन् राक्षसाः के त्रयोऽपि ते ।।५९।।
आसन् यैरिह चागत्य हरेर्नाशो विचिन्तितः ।
श्रीकृष्णः प्राह राशेशि! शृणु तां पुण्यपावनीम् ।।2.38.६ ० ।।
कथां धर्मवती रम्यां देवद्रोहोत्थितां पराम् ।
पूर्वं चिन्तयतः सृष्टिं ब्रह्मणस्त्वण्डजन्मनः ।। ६१ । ।
वालखिल्याः समुत्पन्ना मानसाः शुद्धरूपिणः ।
अष्टाशीतिसहस्राणि बभूवुश्चोर्ध्वरेतसः ।।६२।।
तत्र वनस्पतिर्नाम सर्वश्रेष्ठोऽभवन्मुनिः ।
पुनश्चिन्तयतस्तस्य प्रजाकामस्य वेधसः ।।६३।।
सहस्रऋषयो जाता गृहस्थाः स्कन्नधर्मिणः ।
सदारा वनवासश्च रागद्वेषादिमानसाः । ।६४।।
तत्र नभस्पतिर्नाम गृहिश्रेष्ठोऽभवन्मुनिः ।
पुनश्चिन्तयतस्तस्य रजसा मोहितस्य तु ।।६५।।
वालखिल्याः पुनर्जाताः षष्टिसहस्रसंख्यकाः ।
सर्वे वै दारसहितास्तपःस्वाध्यायतत्पराः ।।६६ ।।
कामक्रोधादिहृदयाः स्नानपूजापरायणाः ।
महारण्यनिवासाश्च कैलासशैलसन्निधौ ।। ६७।।
आराधयन्ति त्रिनेत्रं कृशा धमनिसन्तताः ।
व्रतोपवासनिरताः सहस्रवर्षतापसाः ।।६८।
तेषु सरस्पतिर्नाम व्रतश्रेष्ठोऽभवन्मुनिः ।
गृहिधर्मपरश्चापि यज्ञस्वाध्यायतत्परः ।।६९।।
तान् समाराधयतोऽपि नैव तुष्यति शंकरः ।
तदा श्रीपार्वती देवी सदया प्राह शंकरम् ।।2.38.७ ० ।।
तेषां क्लेशक्षयं शंभो विधेहि कुरु मे दयाम् ।।७ १ ।।
कथं न दीयते सिद्धिर्गतेऽप्यब्दसहस्रके ।
शुष्कस्नाय्वस्थिदेहानां तपतां गृहधर्मिणाम् ।।।७२।
तच्छ्रुत्वा शंकरः प्राह धर्मस्य गहनां गतिम् ।
देवि त्वं नैव जानासि न ते कामविवर्जिताः ।।७३ ।।
न च क्रोधेन निर्मुक्ताः केवलं मूढतापसाः ।
नैते धर्मं विजानन्ति ततो न दीयते फलम् ।।७४। ।
सती प्राह कथं ह्येते कामक्रोधादिदूषिताः ।
मे प्रदर्शय तच्छंभो परं कौतूहलं हि मे ।।७५। ।
शंभुः प्राह सति! चात्र तिष्ठ पश्य कुतूहलम् ।
अहं गच्छामि तपतामाश्रमेषु कुचेष्टया ।।७६।।
इत्युक्त्वा वस्त्ररहितो नग्नो भूत्वा हि शंकरः ।
वनमालासुगन्धाढ्यो युवा सर्वांगसुन्दरः ।।७७। ।
भिक्षाकपालभृद् देहि भिक्षामुक्त्वाऽऽश्रमान् ययौ ।
तं विलोक्याऽऽश्रमप्राप्तं योषितो ब्रह्मवादिनाम् ।।७८ ।।
सुराजसस्वभावैस्तं नग्नं दृष्ट्वा प्रमोहिताः ।
नीत्वा मूलं फलं भिक्षां गृहाणेत्यन्तिकं ययुः ।।७९।।
शंभुर्भिक्षाकपालं तत्प्रसार्य बहुसादरम् ।
दत्त भिक्षां शिवं वोऽस्तु भवतीनां तपःप्रियाः ।।2.38.८ ० ।।
मुहुर्हसन् चेष्टमानः कुर्वाणो लिङ्गजाग्रतिम् ।
मनांसि प्रजहाराऽसौ बभूवुस्ताः स्मरातुराः ।।८ १ ।।
नार्यः प्राहुस्त्वया कोऽयं व्रतधर्मः प्रसेव्यते ।
नग्नेन भिक्षुवेषेण हृद्योऽसि त्व सुभिक्षुक ।।८२।।
एहि त्वस्मद्गृहान् कुर्मः सेवनं मर्दनं तव ।
इत्यूचुस्ताः शिवः प्राह रहस्यं मे व्रतं खलु ।।८३।।
न प्रकाश्यं व्रतं मेऽत्र यूयं यात गृहान्निजान् ।
नार्यः प्राहुर्गृहानस्माकमेहि रञ्जनोऽसि यत् ।।८४।।
इत्युक्त्वा तं जगृहुस्ताः सकामाः पाणिपल्लवैः ।
काचिद्धस्तेऽपरा कण्ठेऽन्या जान्वोरितरा हनौ ।।८५।।
परा केशेषु कट्यां च पादयोः पार्श्वपृष्ठयोः ।
एवं विचेष्टितं शंभुं तथा क्षोभं च योषिताम् ।।८६ ।।
ध्याने ते तापसा वीक्ष्य तपो विहाय दुद्रुवुः ।
हन्यतामिति संभाष्य काष्ठपाषाणयष्टयः ।।८७ ।।
निजघ्नुर्वर्ष्मणि शंभोस्तत्र त्रयस्तु मूर्धजाः ।
वनस्पतिर्महर्षिस्तु काष्ठमादाय सत्वरम् ।।८८।।
नभस्पतिस्तु पाषाणं समादाय तदा द्रुतम् ।
सरस्पतिस्तु संगृह्य लोष्ठस्य दात्रकं द्रुतम् ।।८९ ।।
लिङ्गं शंभोर्जाग्रतं तत्पातयामासुरीश्वराः ।
अन्ये दर्भैस्तथा यष्ट्या निजघ्नुः कटिपार्श्वतः ।। 2.38.९० ।।
लिङ्गे तु पतिते शंभुस्त्वन्तर्धानं जगाम ह ।
सतीं प्राप्य तदा तस्थावदृश्यः शंकरस्ततः ।। ९१ ।।
लिङ्गं तूत्पत्य तूत्पत्य जगत्क्षोभं चकार ह ।
ब्रह्माण्डं क्षोभमापन्नं श्रीशंभुर्दुःखितोऽभवत् ।। ९२।।
सती लिङ्गविहीनं संवीक्ष्य शशाप तान् द्विजान् ।
वनस्पतिः काष्ठभावं नभस्पतिः शिलात्मताम् ।। ९३ ।।
सरस्पतिर्दत्ररूपं प्राप्नुवन्तु हि निर्दयाः ।
मम पत्युस्त्वपराद्धं भवद्भिस्त्वतिनिष्ठुरम् ।। ९४।।
ततो यूयं राक्षसाः स्वलिङ्गहीना भवन्त्वपि ।
इति शप्तास्त्रयस्ते हि प्रधानाः ऋषयो द्रुतम् ।। ९५।।
वनस्पतिः सर्जवृक्षोऽभवत्तत्र वनान्तरे ।
कामरूपधरः काष्ठरूपवान् राक्षसोऽपि सः ।। ९६।।
नभस्पतिर्बभूवापि शैलो दारुवने तदा ।
कामरूपधरः कृष्णशिलारूपोऽपि राक्षसः ।। ९७।।
सरस्पतिस्तदा जातो दत्रयुक्तो हि सूकरः ।
लिङ्गहीनो राक्षसः सः कामरूपधरोऽपि हि ।। ९८।।
त्रयस्ते राक्षसा जाता दारुद्रुमवनान्तरे ।
अन्ये शप्ता वालखिल्याः स्तबकास्ते जलोपरि ।। ९९।।
समूला अपि निर्ग्रन्थाः पत्रमात्रसमृद्धयः ।
अलिङ्गा जलवासास्ते बभूवुर्जलमस्तके । । 2.38.१०० ।।
अपृथ्वीभोजनाः सर्वे ब्रह्मपुत्रनदादिषु ।
वालखिल्याः स्तबकास्ते जलमात्रप्रजीविनः ।। १०१ ।।
शापकाले दुःखमग्ना मनसा तुष्टुवुः सतीम् ।
समुद्धारो यथाऽस्माकं भवेत्तत् संविधीयताम् ।। १०२ ।।
न वयं विद्मः सद्भावं शंकरस्य महात्मनः ।
अपराद्धं ततोऽस्माभिः शापान्तो नो विधीयताम् । । १०३ ।।
ऋषिपत्न्यस्तु रुरुदुस्तुष्टुवुर्मातरं सतीम् ।
तदा प्राह सती कृष्णनारायणपरेश्वरः ।। १ ०४।।
सौराष्ट्रे पश्चिमेदेशे कम्भराश्रीसुतः प्रभुः ।
अनादिश्रीकृष्णनारायणः श्रीभगवान् हरिः ।। १ ०५।।
वर्तते तस्य योगेन व उद्धारो भविष्यति ।
ऋषीणां प्रसमुद्धारं स प्रभुः संकरिष्यति ।। १०६ । ।
इत्युक्त्वाऽदृश्यभावं सा गता सुदुःखिता सती ।
अथ ये ऋषिपुत्राद्या अपराधविवर्जिताः ।। १ ०७। ।
अन्येऽपि चर्षयस्तत्र दर्शका ब्राह्मणादयः ।
ते तु दृष्ट्वा महाक्षोभं ब्रह्माण्डस्य लयप्रदम् ।। १ ०८। ।
ब्रह्माणं सस्मरुस्तत्र ब्रह्माणं शरणं ययुः ।
देवाद्याः प्रार्थयामासुर्लिंगवह्निप्रशान्तये ।। १ ०९।।
ब्रह्मणा बोधितास्ते च ब्रह्मधर्मैः पृथग्विधैः ।
तेजस्विनं ब्रह्मनिष्ठं ब्रह्मरूपं सनातनम् ।। 2.38.११० ।।
कामधर्मैरबद्धं ते विज्ञाय ग्राम्यधर्मिणम् ।
अपराद्धं कृतवन्तस्ततः क्षोभो महानयम् ।। १११ ।।
लिंगपूजनधर्मेण शान्तिमेष्यति नान्यथा ।
अहो मुग्धाः ऋषयस्ते क्रोधस्य वशतां गताः ।। ११२।।
देहे चात्मनि यद्ब्रह्म नियतं निर्मलं च तत् ।
तपसा कर्मणा वापि शुद्धहृदोऽपि चीयते । । ११३ ।।
कामक्रोधादिभावानां निष्कासनं हि शुद्धता ।
तन्मनः शोधयेद्धीमान् ज्ञानयोगमुपक्रमैः । । १ १४।।
शुद्धिमाप्नोति पुरुषः संशुद्धे यस्य वै मनः ।
ऋषयः क्रोधकामाभ्यामभिभूताऽऽश्रमे स्थिताः ।। ११५ ।।
कामक्रोधाभिभूतानां यज्ञो दानं वृषस्तपः ।
व्रतं कृच्छ्र धृतिर्ध्यानं सर्वं निष्फलतां व्रजेत् । । ११६ ।।
तस्मात् प्रयान्तु तत्स्थानं कामक्रोधौ विहाय च ।
आराधयन्तु तं देवं शंकरं कामभासिनम् ।। १ १७।।
लिंगं प्रपूजयन्त्वेव ततः शान्तिर्भविष्यति ।
इत्युक्ताः प्रययुः सर्वे लिङ्गं पुपूजुरादरात् ।। १ १८।।
यथास्थानं च तल्लग्नं सलिंगः शंकरोऽभवत् ।
यत्रैतत् पतितं तत्र ज्योतिर्लिंगानि जज्ञिरे ।। ११ ९।।
द्वादशधा तु तद्भिन्नं दिव्यं मोक्षप्रदं हि तत् ।
इत्येव शान्तिमापेदे जगत् सर्वं हि राधिके ।। 2.38.१२ ०। ।
अथ तेऽपि त्रिमुनयः शापजा राक्षसाः खलु ।
जातिस्मराः स्वमोक्षोर्थे सौराष्ट्रं त्वाययुस्ततः ।। १२१ ।।
वनस्पतिः काष्ठरूपः शकटात्मा व्यजायत ।
नभस्पतिः शिलारूपः पर्वतः समजायत ।। १२२ ।।
सरस्पतिर्दन्तमाँश्च सूकरः समजायत ।
हरेः कृष्णस्य योगेन मुक्ताः शापात्तदाऽभवन् ।। १२३ ।।
अस्तुवँस्ते हरिं दिव्याः ऋषयो वै तपोधनाः ।
शेषर्षीणां तु सर्वेषामुद्धारार्थं पुनः पुनः ।। १ २४।।
तदा श्रीभगवानाह यान्तु तत्राऽप्यहं शुभम् ।
दारुवनं समागत्योद्धारयिष्यामि शापतः ।। १२५।।
गरुडं तु समारुह्य भगवान् बालकृष्णकः ।
वालखिल्यस्तम्बरूपानुद्दधार हरिः स्वयम् ।। १ २६।।
सर्वे ते दारुवनजास्तपः कुर्वन्ति राधिके ।
ततः शान्तारयः सर्वेऽभवन् ऋषिस्वरूपिणः ।। १ २७।।
तद्वंशा वालखिल्याश्च स्तम्बा भवन्ति वारिषु ।
हरिरुद्धारयित्वा तान् प्राप्य पूजनमादरात् ।। १ २८।।
आययौ कुंकुमवापीक्षेत्रं स्वं गरुडान्वितः ।
पठनाच्छ्रवणाद् राधे शापपापं प्रशाम्यति ।। १२९ ।।
आश्चर्यं भक्तियुक्तेषु राक्षसत्वे ह्युपस्थिते ।
द्वेषभावेन मुक्तिर्वै देवमाया हि तादृशी ।। 2.38.१३ ०।।

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वनस्पतिनभस्पतिसरस्पतिमहर्षीणां सतीशापाद् राक्षसभावमापन्नानां वाटिकायामुपद्रवः, प्रभुणा शापमोक्षणं, नग्नशंकरस्य तापसाश्रमेषु भ्रमणं ऋषिकृतापराधः लिंगपातनं शापकारणं चेत्यादिनिरूपणनामाऽष्टत्रिंशोऽध्यायः ।। ३८ ।।