लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०३८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ०४० →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके ज्ञानं तपो यस्मान्न शिष्यते ।
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।। १ ।।
बृहदण्डमभूदेकं प्रजानां बीजसंभृतम् ।
महाविष्णोः समुद्भूतं यस्मिन् विराड् विराजते ।। २ ।।
अण्डं विभिद्य भगवान् वैराजं बहिरानयत् ।
वैराजात् त्रिगुणा देवा ब्रह्मविष्णुमहेश्वराः ।। ३ ।।
सत्त्ववान् वै तदा ब्रह्मा शून्यं लोकमपश्यत ।
ततो राजसभावेन प्रवृत्तिं स्वीचकार ह ।। ४ ।।
सस्मार दर्शकं दिव्यं नारायणमतीन्द्रियम् ।
गुणातीतं भगवन्तं व्यापकं पुरुषं परम् ।। ५ ।।
येनेदं सकलं व्याप्तं स्थिरचेतनसंज्ञितम् ।
यस्तं वेद महात्मानं स सर्वं वेद् निश्चितम् ।। ६ ।।
गुणातीतं च पुरुषं परब्रह्म सनातनम् ।
यस्तं वेद परात्मानं स सर्वं वेद मोक्षवित् ।। ७ ।।
किं तेषां सकलैस्तीथैंराश्रमैर्वा प्रयोजनम् ।
येषां त्वनन्तकं चित्तमात्मन्येव व्यवस्थितम् ।। ८ ।।
आत्मा नदी शीलतीर्था सत्यजला शमान्विता ।
तत्स्नातः शुद्ध्यति पुण्यो वारिणाऽऽत्मा न शुद्ध्यति ।। ९ ।।
श्रेष्ठं जनस्य कर्तव्यं चात्मवोधसुखे स्थितिः ।
ज्ञेयं सतां तदेवाऽस्ति यत्प्राप्तौ कामनाक्षयः ।। 2.39.१ ०।।
नैतादृशं परं वित्तं ब्रह्मलग्नस्य विद्यते ।
समता सत्यता शीलं चार्जवं विरतिस्तथा ।। ११ ।।
तल्लाभे ब्रह्म परमं प्राप्नोत्येव न सशंयः ।
विदित्वा तं प्रभुं राधे! धर्मस्य फलमाप्नुयात् ।। १ २।।
योऽसावाप्मनि देहेऽस्मिन् विभुर्नित्यो व्यवस्थितः ।
सोऽनादिः श्रीपतिः कृष्णो नारायणः परात्परः ।। १२ ।।
कम्भराश्रीनन्दनः सः श्रीमद्गोपालबालकः ।
कुंकुमवापिकाक्षेत्रे वर्तते बालकृष्णकः ।। १४।।
पञ्चमे वत्सरे पूर्णे यावस्तं वीक्षितुं प्रिये ।
इत्युक्ता राधिका देवी सोत्साहा वेषमुज्ज्वलम् ।। १ ५।।
दधार सर्वशोभाढ्यं स्वर्णमाणिक्यसंभृतम् ।
मौक्तिकैर्हीरकैः रत्नैः खचितं शोभनं शुभम् ।। १ ६।।
शृंगारं विविधं धृत्वा सुगन्धसारमिश्रितम् ।
बिन्द्वीपत्रीरङ्गरेखाऽलक्तकज्जलबृंहितम् ।। १७।।
तन्तुतन्तीशृंखलोर्मिकाम्बराभूषणाऽन्वितम् ।
स्वर्णचूर्णपुष्पगुच्छकबरीभारशोभितम् ।। १८ ।।
सनक्तकार्चनवस्तुभतपात्रकरा पतिम् ।
कृष्णं शृंगारयामास सुशोभं संस्कृतं शुभम् ।। १ ९।।
विमानं वृषयानं च वाहयामास सत्वरम् ।
फलपुष्पैः स्वादुभोज्यैरमृतैर्भृतपात्रकम् ।। 2.39.२ ० ।।
स्वयं कृष्णः सारथिश्च श्रीराधा रथिनी स्वयम् ।
श्रीमद्गोलोकधाम्नस्तावीशलोकान् विलंघ्य च ।। २१ ।।
ब्रह्मादिस्तरमुल्लंघ्य भूतले तु सुराष्ट्रके ।
व्योम्नोऽवतरेत् राधाकृष्णौ कुंकुमवापिकाम् ।। २२।।
अश्वपट्टसरस्तीरे बालकृष्णाऽऽलयाऽऽङ्गणे ।
श्रीकृष्णस्य रथस्यादौ ब्रह्माण्डे व्याप तन्महः ।। २३ ।।
सूर्यचन्द्रौ न दृश्येते तेजसाऽभिभवंगतौ ।
राधायास्तेजसा पृथ्वी दिशश्चात्युपबृंहिताः ।। २४।।
लोमशस्याश्रमश्चापि चान्द्रलोक इवाऽभवत् ।
सर्वाश्च कन्यका राधारूपाऽतिरूपकान्विताः ।। २५ । ।
राजन्ते राधिकां दृष्ट्वा शतराधाऽधिकैकका ।
राधा दृष्ट्वा तु ताः कन्या गर्वहीना बभूव ह ।। २६।।
गलितं रूपसौन्दर्यमानं तस्यास्तदा क्षणात् ।
उत्थ कृष्णं प्रति प्राह बालकृष्णं विलोक्य सा ।। २७।।
अहो मे व्यक्तिसाफल्यं कारितं हि त्वया प्रभो ।
मयाऽस्य दर्शनं प्राप्तं कृष्णनारायणस्य यत् ।। २८ ।।
षष्ठवर्षसमारंभे प्रातरष्टमिकातिथौ ।
बालकृष्णं रा धिका संपूजयामास वस्तुभिः ।। २९ ।।
गोलोकपयसा बालं स्नापयामास राधिका ।
सर्वतीर्थादिसलिलैरभिषेकं चकार सा ।। 2.39.३० ।।
चन्दनाऽगुरुकस्तूरीरससारद्रवादिभिः ।
सम्पूज्याऽऽभरणैर्वस्त्रैरलंकारैरशोभयत् ।। ३१ ।।
आरार्त्रिकं चकाराऽथ मयूरपिच्छशोभनम् ।
मुकुटं धारयामास बालकृष्णस्य मस्तके ।। ३ २।।
मुरलीं सा ददौ हस्ते दक्षबाहुं ददौ गले ।
हासयित्वा सुतिलकं चन्द्रकं साक्षतं शुभम् ।। ३२ ।।
भाले दत्वा राधिका सा नीराजनविधिं व्यधात् ।
पुष्पाञ्जलिं प्रदत्वैव नमस्कारं चकार सा ।। ३४ ।।
आशीर्वादान् ददौ कान्तकान्त त्वं कान्तवद्भव ।
दुःसहां चाञ्जलिं राधा समुच्चार्य च मस्तकात् ।। ३५।।
ददौ भोज्यं च गोलोकादानीतं पायसादिकम् ।
दुग्धपिण्डान् बरफींश्च दुग्धसारस्य पूरिकाम् ।। ३६ ।।
मिष्टां दिव्यां दधि श्रेष्ठं ददौ नान्यत् तदिष्टकृत् ।।
भोजयित्वा ततो रम्यं ताम्बूलकं ददौ शुभम् ।। ३७ ।।
अथैवं सम्प्रपूज्यैव विरराम ततः स्वयम् ।
श्रीकृष्णस्तं कृष्णनारायणं पुपूज सादरम् ।। ३८ ।।
सुरवालं पीतपटं कञ्चुकं स्वर्णतारकम् ।
शिरस्त्राणं सकल्गिं चावतंसकौ कौसुमौ शुभौ ।। ३ ९।।
पुष्पहारान् पारिजातकृतान् ददौ गलेऽर्भकम् ।
उपानहौ स्वर्णसाध्यौ कोमलौ प्रददौ तथा ।।2.39.४० ।।
छत्रं सुचामरे रम्ये रशनां कुण्डले ददौ ।
मणिं कौस्तुभजातीयोत्तमं मालां च मौक्तिकीम् ।। ४१ ।।
ददौ श्रीबालकृष्णाय वंशी ददौ मृदुस्वराम् ।
यष्टिं सिद्धिमयीं चापि ददौ सिंहासनं वरम् ।।४२।।
एवं बालप्रभुं कृष्णः पूजयित्वा स्तुतिं व्यधात् ।
सर्वसाक्षिन्नमस्तेऽस्तु सर्वावतारकारण । । ४३ ।।
पुरुषोत्तम मुक्तेश परधामन् नमोऽस्तु ते ।
वर्तमानं च भूतं च भविष्यत्सर्वथा यतः ।।४४।।
अन्वितं राजते सौम्यं सुव्यवस्थं क्रमानुगम् ।
अनन्वितः प्रशास्ता त्वं तस्मै देवाय ते नमः ।।४५।।
अनन्ताः शक्तयस्तेऽत्र कुष्णनृसिंहरूपिषु ।
राधारमाश्रीस्वरूपास्तं नमामि परेश्वरम् ।।४६ ।।
अहं मे धाम गोलोकस्तथा नारायणो रमा ।
श्रीर्वैकुण्ठं चामृतं सत्पदं यस्मात्प्रवर्तते ।।४७ । ।
अक्षरं धाम यस्याऽग्रे समूर्तं सेवकं सदा ।
ईश्वरा अवताराश्च यदंशगुणभूषणम् ।।४८।।
व्यूहाश्चेश्वरपालाश्च लोकपाला महर्षयः ।
क्रतूच्छ्रयाः सुरा यस्य गुणैकैकांशमूर्तयः ।। ४९।।
भवन्तीह तु संसारे तं नमामि परेश्वरम् ।
अन्तरात्मन्ननन्तात्मन्मदात्मँस्ते नमो नमः ।।2.39.५०।।
त्वं परात्मन् लोकसाक्षिन्ननन्तेश नमोऽस्तु ते ।
सर्वज्ञ त्वं परमेष्ठिन् ज्ञानज्ञेय नमोऽस्तु ते ।।५ १ ।।
आदिदेव दुराराध्य परमेश्वर ते नमः ।
महायोगेश्वर साधो दयालो ते नमो नमः ।।५२।।
परज्योतिर्वषट्कार स्वाहाकार नमोऽस्तु ते ।
सर्वदर्शन सवर्ताऽग्निषोमात्मन्नमोऽस्तु ते ।।५३।।
महाराजिक सिद्धार्च्य हिरण्यवाह ते नमः ।
मञ्जुकेशिन् बालकेशिन् दयादेशिन्नमोऽस्तु ते ।।५४।।।
विभो याज्ञिक यज्ञेश भक्तानुकम्प ते नमः ।
प्रसीद श्रीकृष्णनारायण तुभ्यं नमोनमः ।।५५।।
इत्युक्त्वा श्रीकृष्णदेवो नत्वा राधा तथा प्रभुम् ।
ययतुः श्रीकम्भरायाः सन्निधौ भुवनान्तरे ।।५६।।
नत्वा तां च तथा नत्वा श्रीमद्रोपालकृष्णकम् ।
तत्कृतं स्वागतं प्राप्य पुत्रोत्सवं प्रशस्य च ।।५७।।
विमानेन ययतुश्च गोलोकं कृष्णराधिके ।
अथाऽऽययौ च वैकुण्ठान्नारायणो रमापतिः ।।५८।।
गरुडस्थः प्रभुर्बालकृष्णपूजार्थमित्यथ ।
वासुदेवस्तथा भूमा चाययतुर्मुदान्वितौ ।।५९।।
महाविष्णुस्तथा नारायणो नरः समाययुः ।
शेषनारायणश्चापि मत्स्यः कूर्मः समाययुः ।।2.39.६० ।।
वाराहश्च कपिलश्च हरिः पृथुः समाययुः ।
दत्तात्रेयस्तथा हंसो नृसिंहश्च समाययुः ।।६१।।
ऋषभश्च वामनश्च पर्शुरामः समाययुः ।
यज्ञो रामः कुमाराश्च हयग्रीवः समाययुः ।।६२।।
नारदो राजराजश्च परमेशाः समाययुः ।
अनादिश्रीकृष्णनारायण जयेति ते जगुः ।।६३।।।
पञ्चामृतैरमृतैश्च बालाऽङ्गुष्ठाऽभिषेचनम् ।
चक्रुः पश्चाद् दर्भजलैरमृतैः प्रोक्षणं व्यधुः ।।६४।।
चन्दनं साऽक्षतं भाले त्वर्चयामासुरादरात् ।
तिलकं कुकुमाढ्यं च चक्रुर्ददुः सुगन्धकम् ।। ६५।।
पुष्पहारान् ददुः कण्ठे मुकुटं पुष्पमालिकाः ।
ददुस्तुलसीपत्राणि विभूषणानि चामरे ।।६६।।
छत्रं चोपानहौ दिव्येऽम्बराणि विविधान्यपि ।
कर्पूराद्यैर्वर्तिकाभिर्नीराजनं प्रचक्रिरे ।।६७।।
धूपं दीपं सुनैवेद्यं चामृतान्नं फलानि च ।
ददुः सर्वेऽवताराश्च जलं ताम्बूलकानि च ।। ६८।।
अर्पयामासुरत्यर्थं स्वस्वलोकभवानि च।
इत्येवं पूजनार्थं तद्धामवासाः स्त्रियोऽपि च ।।६९।।
आययुर्बहुभिर्वस्तूत्तमैः पुपूजुरीश्वरम् ।
एवं समर्चयित्वा ताः प्रययुर्निजधाम ते ।।2.39.७० ।।
ततो देवाश्च पितरो मुनयः ऋषयस्तथा ।
मानवा ब्राह्मणाद्याश्चाऽऽययुः कृष्णार्चनाय वै ।।७१ ।।
दिव्यविमानमारुह्य चाश्वपट्टसरोवरम् ।
अभितो व्योममार्गेषु विश्रम्य कृष्णमन्दिरम् ।।७२।।
आययुः पूजयामासुर्विविधैश्चोपदादिभिः ।
रञ्जयामासुरत्यर्थं बालकृष्णं परेश्वरम् ।।७३ ।।
ततोऽन्ये भूमयः शैला नद्यः सरांसि सागराः ।
तीर्थानि देवतरवो वल्लिकाः स्तबकास्तथा ।।७४।।
वनदेव्यश्च गुल्माश्च तत्त्वानि विविधान्यपि ।
आययुः श्रीबालकृष्णपूजार्थं चार्हणां व्यधुः ।।।७५।।
ततो यक्षा गुह्यकाश्चारणा किंपुरुषास्तथा ।
भाटाश्च किन्नराश्चापि गन्धर्वा देवयोषितः ।।७६।।
मागधा बन्दिनः सूता विद्याध्राः पन्नगादयः ।
आययुः श्रीबालकृष्णोत्सवे पूजार्थमेव ते ।।७७।।
पूजनं ते प्रचक्रुश्च नर्तका नृत्यमाचरन् ।
अवाद्यन्त सुवाद्यानि गायकाः संजगुस्तदा ।।७८।।
कथकास्तत्कथां चक्रुर्नाट्यध्रा नाट्यमाचरन् ।
याज्ञिकाश्चाचरन् यज्ञं साधवो जपमाचरन् ।।७९।।
सत्यो नार्यो ददुश्चाशीर्वादान् वृद्धाः शुभाशिषः ।
श्रीमद्गोपालकृष्णश्च लोमशोऽपि मुनिस्तदा ।।2.39.८०।।
तथान्ये ऋषयस्तत्र स्थिताश्च ब्रह्मकन्यकाः ।
श्रीहरेः पूजनं चक्रुर्योजयामायुराशिषा ।।८ १ ।।
ततः पिता तु तान् सर्वान् महीमानान् समन्ततः ।
दुग्धपाकादिसद्भोज्यैस्तर्पयामास लड्डुकैः ।।८२।।
भोजयित्वा च तान् सर्वानागतान् तत्परं हरिः ।
दापयामास दानानि विप्रान् दासीश्च सेवकान् ।।८३ ।।
पात्रेभ्यश्च यथायोग्यं यथाभिक्षुकभिक्षितम् ।
रत्नं हिरण्यं रजतं मिष्टान्नं चाम्बराण्यपि ।।८४।।
मुद्रिकाश्च विभूषाश्च पात्राण्यपि धनानि च ।
ददौ यथेष्टं सर्वेभ्यश्चागतेभ्यः पुनः पुनः ।।८५ ।।
ततो गतेषु सर्वेषु स्वस्वधामगृहाणि च ।
लोमशः कन्यकायुक्तो यथा नैजाश्रमं मुदा ।।८६।।
अथाऽन्ये कुंकुमवापीक्षेत्रीया ब्राह्मणादयः ।
प्रेम्णा पुपूजुरागत्य परमेशं हरिं प्रभुम् ।।८७।।
ययुः स्वस्वगृहं पश्चान्महाश्चर्यं वभूव ह ।
शृणु त्वं राधिके तत्र युगलं चैकमागतम् ।।८८।।
नारी कज्जलवर्णीया नरः कुष्ठाढ्यविग्रहः ।
अनादिश्रीकृष्णनारायणं नत्वाऽऽह बालक ।।८९।।
पापोद्धारं कुरु कृष्ण पतितयोर्विवंशयोः ।
हरिर्जानन्नपि तौ तु पप्रच्छ दीनमानसौ ।।2.39.९० ।।
कौ युवां वदत पापं किं कृतं च कथं च रुक् ।
नरः प्राहाऽभवं विप्रो देवायनो हि नामतः ।। ९१ ।।
गौर्जरे श्रीपत्तने च तत्रेयं मम भामिनी ।
देवपूजापरौ चावां नित्यकर्मपरायणौ ।।९२।।
शैत्याभिपीडितौ स्नानं विना पूजनतत्परौ ।
समभूव ततो दोषादायुष्यं त्वन्ततां गतम् ।।९३ ।।
मृतौ ज्वरेण च शीघ्रं सहैव श्वपचगृहे ।
जातौ तत्रैव नगरे विवाहितौ पुनस्तथा ।। ९४।।
जातिस्मरौ कुष्ठिकृष्णौ दुःखितौ पापनाशक! ।
ज्ञात्वा स्वप्नप्रभावेण नारायणोऽसि माधवः ।। ९५ ।।
पापं विधूय नौ मोक्षं कुरु नारायणप्रभो ।
अद्य ते दिवसो नाथ बद्धमुक्तिप्रदापने ।। ९६ ।।
पापिनां पापहर्ता त्वं वर्तसे चेति लोकतः ।
समाकर्ण्य च वै पद्भिस्त्वायातौ शरणं तव ।।९७।।
अनादिश्रीकृष्णनारायणः श्रुत्वा दयापरः ।
तावुवाच कृपासिन्धू राधिके पापनाशनः ।।९८।।
अश्वपट्टसरस्येव स्नात्वा पीत्वा जलं च तत्। ।
प्रदक्षिणां ततः कृत्वा पिबतं चरणामृतम् ।।९ ९ ।।
शुद्धौ भूत्वा ब्रह्मलोकं व्रजिष्यथोऽतिमानवौ ।
एवं श्रुत्वा ततस्ताभ्यां यथोक्तं चानुवर्तितम् ।। 2.39.१० ०।।
द्राग् भूत्वा दिव्यदेहौ तौ दिव्ययाने स्थितौ पुनः ।
लक्षातिलक्षयज्ञानां फलं प्राप्य गतौ दिवम् ।। १०१ ।।
श्रीपत्तनात् समारभ्य कुंकुमवापिकावधिम् ।
यावन्ति चंक्रमणानि तावद् यज्ञफलं ह्यभूत् ।। १० २।।
एवं श्रीकान्तसाधूनामप्यभिगमने फलम् ।
जायते कि पुनः कृष्णनारायणस्य सन्निधौ ।। १ ०३।।
राधिके श्रीहरिः सेव्यः सेव्याश्च साधवोऽस्य च ।
तीर्थं क्षेत्रं व्रतं सेव्यं कोटियज्ञफलप्रदम् ।। १ ०४।।
पदे पदेऽश्वमेधस्याऽभिगमे जायते फलम् ।
इत्येवं तौ कृतौ मुक्तौ नारायणेन शार्ङ्गिणा ।। १ ०५।।
षष्ठवर्षसमारम्भाष्टमीदिने शुभोत्सवे ।
पठनाच्छ्रवणाच्चापि मोक्षो मुक्तिस्तथा भवेत् ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः षष्ठवत्सरस्याऽष्टम्यां श्रीराधाकृष्णाऽवतारव्यूहदेवमानवादिकृतमहोत्सवपूजनं देवायनद्विजस्य तत्पत्न्याश्च श्वपचजन्ममोक्षणं चेत्यादिनिरूपणनामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।