लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०३६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ०३८ →

श्रीकृष्ण उवाच-
अथ दैत्यस्ततो राधे! दैत्यानाह महत्तमान् ।
पावदुर्गं मख्खनं च सैंहिकेयं च चोटिलम् ।। १ ।।
धारेयं च विश्वसनं योद्धृमुख्यान्महाबलान् ।
ऐरकं थूरकं नीम्बं चैरकं बर्बुरं तथा ।। २ ।।
शाल्मलिं झिम्पटं कूर्चिं कर्कशं गृञ्जकं तथा ।
तमलाकं च लशुनं पलाण्डुकं च भंगकीम् ।। ३ ।।
अहिफेनं महाजिह्मं वत्सनागमफेनकम् ।
हिरकं विषकन्दं च ह्येतान् दैत्यधुरन्धरान् ।। ४ ।।
सौराष्ट्रराज्यलब्ध्यर्थं युद्धार्थं समुवाच सः ।
कर्कं च कृकलासं च शिल्लकं गोधकं तथा ।। ५ ।।
घोरखादं वृकं द्वीपं शीतधारं च नायकान् ।
मन्त्राणार्थं च युद्धार्थं प्राह वराटको बली ।६ ।।
विप्रः कश्चित्तु मां प्राह तपः कष्टं महत्तरम् ।
निष्किञ्चनानां धर्मः स निर्बलानां विशेषतः ।। ७ ।।
सबलानां तु समरो धर्मो राज्यं यतो लभेत् ।
तस्मात् सौराष्ट्रदेशानां स्वायत्तीकरणं यथा ।। ८ ।।
अस्माकं दैत्यवर्याणां तथा स्यात् कुरुत द्रुतम् ।
विना रणं न वै भूमिर्विना यूथं न वै जयः ।। ९ ।।
विनोद्योगं न वै सम्पद् यूथोद्योगरणाः सुखाः ।
अस्माभिश्च प्रकर्तव्यं हरणं सम्पदां बलात् ।। 2.37.१ ०।।
सौराष्ट्रस्य तु देशस्य तथा राज्यमकण्टकम् ।
सर्वे प्राहुस्तदा मग्ना ओं बाढं विजयोऽस्तु ते ।। ११ ।।
अथ पश्चिमवार्धेस्तु समारभ्याऽसुरास्तु ते ।
ग्रामस्थान् पीडयामासुर्जह्रुश्च गृहसम्पदः ।। १२।।
ग्रामाणां तु सहस्रं वै पश्चिमोदधिसन्निधौ ।
प्रसह्य दैत्यैः स्वायत्तीकृतं भूश्च तथोत्तरा ।। १ ३।।
खाडिकासन्निधौ स्वायत्तीकृता प्रायशश्च तैः ।
शुश्राव राजा खट्वांगः सार्वभौमोऽसुरैः कृतम् ।। १४।।
प्रजानामर्दनं सम्पद्धरणं ब्राह्मणार्दनम् ।
राज्यसंस्थापनं चेति विज्ञाय नृपतीश्वरः ।। १५।।
व्योममार्गेण तु सैन्यं प्रेषयामास भूरि सः ।
परितो व्यूहमारच्य युयुधिरे च तद्भटाः ।। १६।।
दैत्या अपि तदा व्योम्नि युयुधिरे च तैः सह ।
अस्त्रैः शस्त्रैः शरैः कुन्तैर्भल्लैस्तोमरशक्तिभिः ।। १७।।
प्रासैर्बाणैः खड्गवर्यैरसिभिर्मुद्गरादिभिः ।
परिघैश्च गदाभिश्च वह्निगोलैः सुरंगकैः ।। १८।।
जलगोलैर्विषगोलैरश्रुबाष्पैर्विषाऽनिलैः ।
क्ष्वेडाऽनलैः शीतवृष्ट्या विद्युद्वृष्ट्या विहायसि ।। १ ९।।
झंझावातैर्धूमवातैः शिलावृष्ट्या च पांसुभिः ।
परस्परं सुबह्वीभिः कृतेन्द्रजालसृष्टिभिः ।।2.37.२ ०।।
मायाप्रयोगकैर्व्योमकृत्रिमपुत्तलैस्तथा ।
कृत्रिमयानगभटैः सैन्यानि युयुधुस्तदा ।।२१ ।।
नष्टास्तत्राऽसुराश्चाऽन्ये मानवा बहुदेहिनः ।
पराजिता असुरास्ते निराशा अभवन् यदा ।।२२।।
अब्धिं प्रविष्टुं चेच्छन्ति धावमाना इतस्ततः ।
किन्तु खट्वांगदसैन्यान्यभितः परितस्तथा ।।२३ ।।
भूमौ व्योम्नि जले कृत्वा प्राकाराणि समन्ततः ।
विद्यन्तेऽतो न निर्गन्तुं शेकुर्देशाद् बहिर्हि ते ।। २४।।
अथ मुग्धा हि ते दैत्या जीवनेच्छापरास्तदा ।
अश्वपट्टसरो दिव्यं विशालं चाप्यगाधकम् ।। २५।।
विचार्य सम्प्रधाव्यैव विविशुस्तज्जले तलम् ।
मनसा ते तु रक्षार्थं तुष्टुवुः परमेश्वरम् ।।२६।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
कम्भरानन्दनं श्रीमद्गोपालकृष्णबालकम् ।।२७।।
करुणाशेवधिं देवं शरण्यं श्रीपतिं प्रभुम् ।
उद्धारार्थं जगत्यस्मिन् प्रादुर्भावगतं हरिम् ।।२८।।
दिनाऽनाथ कृपासिन्धो दुःखोद्धारकर प्रभो ।
शरणागतरक्षाकृज्जीवदानं प्रदेहि नः ।।२९।।।
खट्वांगदस्य सैन्यानि नाशयन्त्यभितो हि नः ।
अपराधप्रकर्तॄंस्तन्नः प्रपन्नानव प्रभो ।।2.37.३ ०।।
युद्धधर्मं समाश्रित्य बलधर्मं तथाऽपराम् ।
दैत्यदानवरीतिं च राज्यमाप्तुं कृतोद्यमाः ।।३ १ ।।
तत्रैव यद्यपराद्धं तव केशव रक्षय ।
क्षमां कुरु कृपासिन्धो शाधि दण्डं विधेहि च ।।३ २।।
इत्येवं जलमध्यस्थाः स्तुतिं चक्रुर्यदाऽसुराः ।
बालकृष्णस्तदा शंखं दध्मौ स्वस्य रणाऽङ्गणे ।।३ ३ ।।
कोटिरूपोऽभवत्तत्र व्योम्नि भूमौ जलेऽपि च ।
वीक्ष्य सैन्यानि तत्रैव विगर्वा ह्यभवन् क्षणात् ।।३४।।
अथ सेनाधिपतयो व्योम्ना तं शरणं ययुः ।
हरिश्चाऽऽज्ञापयत् ताँश्च, मा घात्याः शरणागताः ।।३५।।।
जीवग्राहान् गृहीत्वैव दास्याम्येतानहं भटाः ।
यथापराधदण्डं वै करिष्यामि प्रयान्तु शम् ।।३६ ।।
स्वागतं चापि सत्कारं भोजनं पानमित्यपि ।
गृह्णन्तु लोमशात्त्वत्र गुरोर्योगिवराच्छुभाः ।।३७।।
इत्युक्तास्ते तु सैन्यानां परिहारं व्यधुर्द्रुतम् ।
लोमशेन यथाज्ञं च सत्कृता भोजनादिभिः ।।३८।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इति मन्त्रप्रदानेन वैष्णवास्ते भटाः कृताः ।। ३९ ।।
अथ तेषां सन्निधौ च लोमशस्याऽऽश्रमे शुभे ।
निशि दैत्यान् समाहूय बालकृष्णः स्वयं प्रभुः ।।2.37.४०।।
चक्रेऽपराधवद्दण्डं तेषां वै राधिके यथा ।
तत्र वराटकं दैत्यं दण्डं गिरिं व्यधाद्धरिः ।।४१ ।।
पश्चिमे त्वब्धितीरे स वराडो नाम पर्वतः ।
समभूच्छ्रीहर्षदेवीसेवितश्च बृहस्पतेः ।।४२।।
वरदानाद् भूभृदयं पर्वतः समजायत ।
पावदुर्गं हरिश्चापि पावादुर्गं तु पर्वतम् ।।४३ ।।
निर्ममे दण्डरूपं तत्सौराष्ट्रपूर्वतो दिशि ।
मख्खनं पर्वतं चापि निर्ममे मख्खनाभिधम् ।।४४।।
सैंहेयकं च सिंहाद्रिं चोटिलं चापि पर्वतम् ।
चोटीलकं निर्ममे च धारेयं धाररूपिणम् । ।४५। ।
विश्वसनं च वै विश्वामित्रं नाम तु पर्वतम् ।
चक्रे श्रीभगवाँस्तेषां तीर्थावासेन पुण्यता ।।४६। ।
श्रीनारायशरणागतेः प्राप्तं शुभं फलम् ।
यत्र वै मुनयः सन्तः सद्वा वसन्ति पावनाः । ।४७।।
अथ यास्यन्ति मुक्तिं ते कल्पान्ते ब्रह्मणा समम् ।
अथ येऽन्येऽपि दैत्या वै योद्धारस्तेभ्य इत्यपि । । ४८ ।।
ददौ दण्डं वदाम्यत्र राधिके तूद्भिदुद्भवम् ।
ऐरकं तु समुद्रे वै स्तम्बं पत्रान्वितं तदा । । ४९ ।।
कृत्वा ददौ वरं कुष्णप्राप्तिः क्वचिद्भविष्यति ।
चैरकाचापि ३ वार्धौ वासं स्तम्बात्मकं ददौ । ।2.37.५० ।।
थूटकं कण्टकं हस्तान्वितं प्राकारवद् भुवि ।
रक्षाकरं चकारापि चिरजीवित्वमिप्यपि । । ५१ ।।
निम्बं कटुं कृतं वृक्षं तं ररक्ष नृपांगणे ।
बर्बुरं कण्टकव्याप्तं दन्तधावनपादपम् । । ५२ ।।
नदीशैलादितीर्थेषु न्यवासयच्छुभाश्रयम् ।
शाल्मलिं पर्वतेऽरण्ये मृदुरुफलभूषितम् ।।५३ । ।
वृक्षं कृत्वा ददावस्मै रुफलं चौपधानिकम् ।
तूलैर्भवति सर्वत्र सुखदं श्रेष्ठिनां हि तत् ।।५४।।
अथ वै झिम्पटं स्तम्बं शलाकाढ्यं चकार सः ।
दीर्घा मार्जनिका येषां भवन्ति ह्युपकारिकाः । ।५५।।
कूर्चिं खर्जनिकावल्लीं चकार भगवान् वने ।
कर्कटं चातिकटुकं वल्लीरूपं व्यधात्प्रभुः ।।।५६।।
गृञ्जकं च तमालं च धूम्रपानार्थकं व्यधात् ।
लशुनं च पलाण्डुं च कन्दरूपे व्यधात्प्रभुः ।।५७ । ।
अहिफेनं महाजिह्मं भंगां च वत्सनागकम् ।
विषरूपान् व्यधात् कृष्णोऽफेनकं क्षारकं व्यधात् । ।५८ ।।
हीरकं खनिजन्यं तु विषाक्तं कंकरं व्यधात् ।
विषकन्दं भूमिगर्भं व्यधात्कन्दं विनाशकम् ।। '९९।।
कृकलासं शिल्लकं गोधकं कर्कं सरीसृपान् ।
घोरखादं वृकं द्वीपं शितधारं पशून् व्यधात् ।। 2.37.६० ।।
तान्सर्वानसुरान् कृषानारायणः पृथक् पृथक् ।
आवासयद् वने भूमौ जले वृक्षे च भित्तिषु ।।६ १ ।।
एते सर्वे ह्यसुराश्च वंशविस्तारवर्धिताः ।
तीर्थयोगेन तु मुक्तियोग्याः कृता हि शार्ङ्गिणा । ।६२ । ।
ततः प्रजानां क्षेमं च कुशलं च व्यजायत ।
बृहस्पतिर्महेन्द्रं च ययौ प्राह वराटकः । ।६ ३ । ।
तापसा च्यावितो युद्धबुद्धिमारोपितस्तदा ।
युद्धं चकार राज्यार्थं प्रापितः शैलतां स हि ।।६४।।
अन्येऽपि च तथा दैत्या दण्डेन यमिता दृढम् ।
श्रुत्वा शान्तिं जगामाऽथ सौराष्ट्रमभवत् सुखम् ।।६५।।
एवं प्रभोः शुभैश्वर्यं राधिके! कथितं तव ।
सतां तीर्थप्रसंगेन ते वै यास्यन्ति मोक्षणम् ।।६६। ।
अथाऽन्यत्ते कथयामि चरित्रं पापिशोधकम् ।
अनादिश्रीकृष्णनारायणस्य राधिके शृणु ।।६७। ।
म्लेच्छा डफ्फरजातीया अटवीमनुसृत्य च ।
समुद्रयानमार्गैश्च न्यूषुर्गत्वा सुराष्ट्रके ।।६८।।
पापाः पापसमाचाराः पशुमांसादनास्तथा ।
पक्षिमत्स्याशनाः पत्नीपतिधर्मविवर्जिताः ।।६९।।
पाशवीं वृत्तिमारूढाः परसम्पत्प्रजीवनाः ।
चौर्यकर्मकराः शश्वत् दानधर्मादिवर्जिताः ।।2.37.७०।।
यत्र क्वापि निवासाश्च परक्षेत्रान्नहारकाः ।
अस्त्रशस्त्रधराः श्वादिक्रूरप्राणिप्रपोषकाः ।।७१ ।।
व्याधधर्मपराः शश्वदटव्यां वासिनः खलाः ।
लुण्टका मारकाः सर्वहारकाः क्रूरचारिणः ।।७२।।
शकटोष्ट्रखरवाहाः परभाग्योदरंभराः ।
सस्यविनाशकाः कृषिकर्मकारप्रपीडकाः ।।७३।।
सहस्रमानवाः साक्षाद् यमदूतभयंकराः ।
मद्यपानकराः क्वापि मनुष्यज्ञातिनाशिकाः ।।७४।।
निर्दया धूर्ततायुक्ता देवधर्मादिनिन्दकाः ।
सौराष्ट्रवासिनः सर्वान् पीडयन्ति स्म सर्वतः ।।७५।।
हाहाकारोऽभवद् देशे दिक्षु विदिक्षु तत्कृतः ।
जनास्तु पीडितास्तैश्च स्वश्वपट्टसरोवरम् ।।७६ ।।
आययुर्निजरक्षायाः प्रार्थनार्थं हरिं प्रति ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।७७।।
न्यवेदयन् स्वकां पीडां तज्जातां सर्वघातिनीम् ।
श्रुत्वा श्रीभगवानाह करोमि तस्य चौषधम् ।।७८।।
इत्युक्त्वा स प्रसस्मार चक्रं स्वस्य सुदर्शनम् ।
तथा तत्क्षेत्रपालाँश्च कालीं म्लेच्छविनाशिनीम् ।।७९।।
अर्धनारीश्वरसैन्यं सर्वशस्त्रास्त्रमण्डितम् ।
गरुडं च गजं दिव्यं प्रसस्मार हरिस्तदा ।।2.37.८०।।
आययुः शीघ्रमेवैते नेमुश्च पादयोर्हरेः ।
ज्ञापयामासुराज्ञार्थं श्रीहरिस्तानुवाच ह ।।८ १ ।।
म्लेच्छा दफ्फरजातीयाः पीडयन्ति सुराष्ट्रकम् ।
चोरयन्ति धनान्नानि कृषिवस्तूनि सर्वथा ।।८२।।
कृषेश्चाऽप्युपकरणान्यटवीस्थानि यानि तु ।
छेदयन्ति सुवल्ल्यादि वृक्षान् स्तम्बान् लतादिकाः ।।८३ ।।
गुल्मान् पुष्पफलाढ्याँश्च शाककन्दान् हरन्ति च ।
पत्रसस्यादिधान्यानि चारयन्ति पशून् निजान् ।।८४।।
पक्वकणिशशूकाँश्च हरन्ति क्षेत्रसस्यतः ।
घ्नन्ति क्वचिन्मनुष्याँश्च हरन्ति वृषगोधनम् ।।८५।।
हरिणाँश्च शशादीँश्च मारयन्ति हि पापिनः ।
प्रजाजनान् प्रसह्याऽपि बध्वा नयन्ति वै क्वचित् ।।८६।।
नरान् नारीर्बालकाँश्च पीडयन्ति प्रजाजनान् ।
सहस्रशोऽत्र वर्तन्ते ह्यटव्यामित उत्तराम् ।।८७।।
दिशं यान्त्वपराधिभ्यो दण्डं ददतु तान् यथा ।
यथा नैवं पुनः कुर्युर्यद्वा घ्नन्तु समन्ततः ।।८८।।
इत्युक्ता मूर्तिमत् चक्रं सुदर्शनं च कालिका ।
अर्धनारीश्वरं सैन्यं गरुडश्चेति सेवकाः ।।८९।।
मिलित्वा प्रययुः शीघ्रं दिक्फरान् शासितुं तदा ।
दिक्फरास्ते विलोक्यैतान् शिक्षकान् हन्तुमुद्यताः ।।2.37.९०।।
प्रासतोमरभल्लैश्च गदामुद्गरखड्गकैः ।
बन्धूकीभिः शरैश्चापि चक्रादिभिर्व्यधुर्मृधम् ।।९१ ।।
तदा सैन्यं त्वर्धनारीश्वरस्यैतान् जघान ह ।
प्रासैस्तोमरभल्लाद्यैर्गदादण्डाऽसिमुद्गरैः ।।।९ २।।
शरैर्बाणैः क्षेपणैश्च प्रस्तरैर्गोलिकादिभिः ।
शक्तिभिः पाशभेदैश्च युयुधे दफ्फरैः सह ।।९ ३ ।।
प्राणग्लहं समभवद् युद्धं परमदारुणम् ।
उभयोः पक्षयोर्विरा निद्रां गच्छन्ति शाश्वतीम् ।।।९४ ।।
विलोक्यैवं तदा चक्रं सुदर्शनं स्वयंप्रभम् ।
वह्निचक्रं स्वयं भूत्वा डफ्फराऽनीकमापतत् ।।९५।।
कबन्धेभ्यो मस्तकानि निकृन्तति स्म वेगतः ।
यस्य यस्य गले लग्नं द्वेधा कृत्वा प्रगच्छति ।।९ ६ ।।
डफ्फरास्ते बहवो वै हतास्त्वन्ये विदुद्रुवुः ।
अनादिश्रीकृष्णनारायणं ते शरणं ययुः ।।९ ७ ।।
शरणागतरक्षा संकर्तव्या प्रभुणा यतः ।
जीवतो न हताः शेषा देशपारं निवासिताः ।। ९८।।
शतानि पञ्च जीवन्तो ययुर्नत्वाऽन्यतः स्थलम् ।
किन्तु स्वकृतपापैस्ते समुद्रे नौप्रभञ्जनात् ।।९ ९ ।।
जले मग्ना ययुर्मृत्युं दपफना म्लेच्छजातयः ।
सौराष्ट्रः सुखवानास्ते श्रीकृष्णस्य प्रतापतः ।। 2.37.१०० ।।
पीडाः सर्वा गता लोपं प्रजाः सौख्यं समाश्रिताः ।
सुदर्शनाद्यास्तत्कार्यं कृत्वा श्रीहरिसन्निधौ ।। १० १।।
सजीवनाः स्वयं भूत्वा दिव्या ये युद्धमर्दिताः ।
तेऽप्यागत्य नमश्चक्रुस्ततो मूर्तौ लयं गताः ।। १०२।
अर्धनारीश्वरसैन्यं सरस्तीरे तिरोऽभवत् ।
जयकारोऽभवत् पृथ्व्यामायुधानां हरेरपि ।। १०३ ।।
इत्येतद् राधिके बालकृष्णस्य चरितं तव ।
कथितं श्रावपाठाभ्यां स्वर्गमोक्षप्रदं शुभम् ।। १०४ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वराटकाख्याऽऽसुरसैन्यादिपराजयदण्डादिका डफ्फरजातीयम्लेच्छनाशनं चेत्यादिनिरूपणनामा
सप्तत्रिंशोऽध्यायः ।। ३७ ।।