गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ६

विकिस्रोतः तः

2.6.1
ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [१] <यन् न इन्द्रो जुजुषे यच् च वष्टि [२] <कथा महाम् अवृधत् कस्य होतुः [३]इति तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत <सद्यो ह जातो वृषभः कनीनः [४]<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [५]<अभि तष्टेव दीधया मनीषाम् [६] इति विश्वमित्रः <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [७]<य एक इद् धव्यश् चर्षणीनाम् [८]<यस् तिग्मशृङ्गो वृषभो न भीमः [९]इति वसिष्ठः <इमाम् ऊ षु प्रभृतिं सातये धाः [१०]<इच्छन्ति त्वा सोम्यासः सखायः [११] <शासद् वह्निर् दुहितुर् नप्त्यं गात् [१२]इति भरद्वाजः एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन् तद् यत् समपतंस् तस्मात् संपातास् तत् संपातानां संपातत्वम् ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [१३]इति प्रथमे ऽहनि <यन् न इन्द्रो जुजुषे यच् च वष्टि [१४]इति द्वितीये <कथा महाम् अवृधत् कस्य होतुः [१५]इति तृतीये त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [१६]इति प्रथमे ऽहनि <य एक इद् धव्यश् चर्षणीनाम् [१७] इति द्वितीये <यस् तिग्मशृङ्गो वृषभो न भीमः [१८]इति तृतीये त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति<इमाम् ऊ षु प्रभृतिं सातये धाः [१९]इति प्रथमे ऽहनि <इच्छन्ति त्वा सोम्यासः सखायः [२०]इति द्वितीये <शासद् वह्निर् दुहितुर् नप्त्यं गात् [२१]इति तृतीये तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि तानि द्वादश भवन्ति द्वादश ह वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर् यज्ञस् तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. ড়त्यल्] इदं सर्वम् अनु प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद तान्य् अन्तरेणावापम् आवपेरन् अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन् ॥ १ ॥

2.6.2 <को अद्य नर्यो देवकामः [२२]इति मैत्रावरुणः <वने न वा यो न्य् अधायि चाकन् [२३]इति ब्राह्मणाच्छंसी <आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः [२४]इत्य् अच्छावाकः एतानि वा आवपनानि एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं आयन् तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति <सद्यो ह जातो वृषभः कनीनः [२५]इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति तद् एतत् सूक्तं स्वर्ग्यम् एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन् तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति तद् ऋषभवत् पशुमद् भवति पशूनाम् आप्त्यै तत् पञ्चर्चं भवति अन्नं वै पङ्क्तिः अन्नाद्यस्यावरुद्ध्यै <अरिष्टैर् नः पथिभिः पारयन्ता [२६]इति स्वर्गताया एवैतद् अहरहः शंसति <उद् उ ब्रह्माण्य् ऐरत श्रवस्या [२७]इति ब्राह्मणाच्छंसी ब्रह्मण्वद् एतत् सूक्तं समृद्धम् एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन् तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति तद् उ वै षडृचम् षड् वा ऋतवः ऋतूनाम् आप्त्यै तद् उपरिष्टात् संपातानाम् अहरहः शंसति <अभि तष्टेव दीधया मनीषाम् [२८] इत्य् अच्छावाकः [एद्. अच्छावको] अहरहः शंसत्य् अभिवदति तत्यै रूपम् <अभि प्रियाणि मर्मृशत् पराणि [२९]इति यान्य् एव पराण्य् अहानि तानि प्रियाणि तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः परो वा अस्माल् लोकात् स्वर्गो लोकः स्वर्गम् एव तल् लोकम् अभिमृशन्ति <कवींर् इच्छामि संदृशे सुमेधाः [३०]इति ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति यद् उ वै दशर्चं दश वै प्राणाः प्राणेन तद् आप्नोति प्राणानां संतत्यै यद् उ वै दशर्चम् दश वै पुरुषे प्राणाः दश स्वर्गा लोकाः प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति यद् उ वै दशर्चम् दशाक्षरा विराट् इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति सकृद् इन्द्रं निराह तेनैन्द्राद् रूपान् न प्रच्यवते तद् उपरिष्टात् संपातानाम् अहरहः शंसति ॥ २ ॥

2.6.3 <कस् तम् इन्द्र त्वावसुम् [३१]<कन् नव्यो अतसीनाम् [३२]<कद् ऊ न्व् अस्याकृतम् [३३] इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते को वै प्रजापतिः प्रजापतेर् आप्त्यै यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम् यद् व् एव कद्वन्तः अथो अन्नं वै कम् अथो अन्नस्यावरुद्ध्यै यद् व् एव कद्वन्तः अथो सुखं वै कम् अथो अन्नस्यावरुद्ध्यै यद् व् एव कद्वन्तः अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति तानि कद्वद्भिः प्रगाथैः शमयन्ति तान्य् एभ्यः शान्तानि कं भवन्ति तान्य् एताञ् छान्तानि स्वर्गं लोकम् अभिवहन्ति त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस् ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस् तद् उ तथा न कुर्यात् क्षत्रं वै होता विशो होत्राशंसिनः क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम् त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात् यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते वीर्यवत्तमं हि ताभ्यो न व्याह्वयीत समानं हि छन्दः अथो नेद् धाय्याः करवाणीति यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम् यद् व् एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥

2.6.4 <अपेन्द्र प्राचो मघवन्न् अमित्रान् [३४] इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति [एद्. अपेन्द] <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [३५]इति अभयस्य रूपम् अभयम् इव ह्य् अन्विच्छति <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [३६]इति ब्राह्मणाच्छंसी एताम् अहरहः शंसति युक्तवतीम् युक्त इव ह्य् अहीनः अहीनस्य रूपम् <उरुं नो लोकम् अनु नेषि [३७]इत्य् अच्छावाको ऽहरहः शंसति अनुनेषीत्य् एत इव ह्य् अहीनः अहीनस्य रूपम् नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति न शुनंहूययाहीनस्य परिदध्यात् क्षत्रियो ह राष्ट्राच् च्यवते यो हैव परो भवति तम् अभिह्वयति ॥ ४ ॥

2.6.5 अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च <व्य् अन्तरिक्षम् अतिरत् [३८]इत्य् अहीनं युङ्क्ते <एवेद् इन्द्रम् [३९] इति विमुञ्चति <नूनं सा ते [४०]इत्य् अहीनं युङ्क्ते <नू ष्टुतः [४१]इति विमुञ्चति एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद तस्य हैषैव युक्तिर् एषा विमुक्तिस् तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् नाहीनकर्म कुर्युः अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत् समानीभिः परिदध्युस् तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत् दीर्घारण्यानि भवन्ति यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत् समानीभिः परिदध्युः संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति संततम् ऋचा वषट्कृत्यम् संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥

2.6.6 तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति? असौ वै होता यो ऽसौ तपति। स वा एक एव तस्माद् एकसूक्तः स यद् विध्यातो द्वाव् इवाभवति तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम्, तस्माद् द्व्युक्थः ।रश्मयो वाव होत्रास् ते वा एकैकम् तस्माद् एकोक्थास् तद् यद् एकैकस्य रश्मेर् द्वौ द्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः संवत्सरो वाव होता स वा एक एव तस्माद् एकसूक्तस् तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः। ऋतवो वाव होत्रास् ते वा एकैकम् तस्माद् एकोक्थास् तद् यद् एकैकस्यर्तौ द्वौ द्वौ मासौ भवतस् तस्माद् द्विसूक्ताः। पुरुषो वाव होता स वा एक एव। तस्माद् एकसूक्तः स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः। अङ्गानि वाव होत्रास् तानि वा एकैकम् तस्माद् एकोक्थास् तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास्। तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ताः कथं तत् समं भवति? यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति? यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति? गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्। देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति। तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः प्रतनुमेषां यज्ञं हनिष्याम इति। ते वरुणं दक्षिणतो ऽयोजयन् मध्यतो बृहस्पतिम् उत्तरतो विष्णुम्। ते ऽब्रुवन्न् एकैकाः स्मः नेदम् उत्सहामह इति। स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति। तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति। ते सर्व इन्द्रद्वितीयास्। तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते। द्वितीयवन्तो ह वा एतेन स्वा भवन्ति। द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥

2.6.7 आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति वीर्यं वा अग्निः वीर्येणैवास्मै तत् प्रणयन्ति ऐन्द्रावारुणम् अनुशस्यते वीर्यं वा इन्द्रः क्षत्रं वरुणः पशव उक्थानि वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति स्थित्यै अनपक्रान्त्यै ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति वीर्यं वा इन्द्रः वीर्येणैवास्मै तत् प्रणयन्ति ऐन्द्राबार्हस्पत्यम् अनुशस्यते वीर्यं वा इन्द्रः ब्रह्म बृहस्पतिः पशव उक्थानि वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति स्थित्यै अनपक्रान्त्यै ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति वीर्यं वा इन्द्रः वीर्येणैवास्मै तत् प्रणयन्ति ऐन्द्रावैष्णवम् अनुशस्यते वीर्यं वा इन्द्रः यज्ञो विष्णुः पशव उक्थानि वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. ড়त्यल्] याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास् तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम् धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् तस्मात् तानि सार्धम् एवोपेयुः सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत् तस्मात् तानि सार्धम् एवोपेयुः सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति शिल्पानि शंसति देवशिल्पानि एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम् शिल्पं हास्य समधिगम्यते य एवं वेद यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम् यद् व् एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि आत्मानम् एवास्य तत् संस्कुर्वन्ति ॥ ७ ॥

2.6.8 नाभानेदिष्ठं शंसति रेतो वै नाभानेदिष्ठः रेत एवास्य तत् कल्पयति तद् रेतोमिश्रं भवति <क्ष्मया रेतः संजग्मानो नि षिञ्चत् [४२]इति रेतसः समृद्ध्या एव तं सनारशंसं शंसति प्रजा वै नरः वाक् शंसः प्रजासु तद् वाचं दधाति तस्माद् इमाः प्रजा वदन्त्यो जायन्ते तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः मध्य एव शंसेत् मध्यायतना वा इयं वाक् उपरिष्टान् नेदीयसीव तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति एतस्य त्वं प्राणान् कल्पयेति वालखिल्याः शंसति प्राणा वै वालखिल्याः प्राणान् एवास्य तत् कल्पयति ता विहृताः शंसति विहृता वै प्राणाः प्राणेनापानः अपानेन व्यानः स पच्छः प्रथमे सूक्ते विहरति अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. ড়त्यल्] ऋक्शः तृतीये स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति तद् उपाप्तो विहरेत् कामः नेतुर् वै प्रगाथाः कल्पन्ते अतिमर्शम् एव विहरेत् तथा वै प्रगाथाः कल्पन्ते यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम् यद् व् एवातिमर्शम् आत्मा वै बृहती प्राणाः सतोबृहती स बृहतीम् अशंसीत् स आत्मा अथ सतोबृहतीम् ते प्राणाः अथ बृहतीम् अथ सतोबृहतीम् तद् आत्मानं प्राणैः परिवृहन्न् एति यद् व् एवातिमर्शम् आत्मा वै बृहती प्रजाः सतोबृहती स बृहतीम् अशंसीत् स आत्मा अथ सतोबृहतीम् ते प्रजाः अथ बृहतीम् अथ सतोबृहतीम् तद् आत्मानं प्रजया परिवृहन्न् एति यद् व् एवातिमर्शम् आत्मा वै बृहती पशवः सतोबृहती स बृहतीम् अशंसीत् स आत्मा अथ सतोबृहतीम् ते पशवः अथ बृहतीम् अथ सतोबृहतीम् तद् आत्मानं पशुभिः परिवृहन्न् एति तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति एतस्य त्वं प्रजनयेति सुकीर्तिं शंसति देवयोनिर् वै सुकीर्तिस् तद् यज्ञियायां देवयोन्यां यजमानं प्रजनयति वृषाकपिं शंसति आत्मा वै वृषाकपिः आत्मानम् एवास्य तत् कल्पयति तं न्यूङ्खयति अन्नं वै न्यूङ्खः अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम् स पाङ्क्तो भवति पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः लोमानि त्वग् अस्थि मज्जा मस्तिष्कम् स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति एतस्य त्वं प्रतिष्ठा कल्पयेति एवयामरुतं शंसति प्रतिष्ठा वा एवयामरुत् प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति याज्यया यजति अन्नं वै याज्या अन्नाद्यम् एवास्मै तत् संप्रयच्छति ॥ ८ ॥

2.6.9 तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् तानि सह वा शंसेत् सह वा न शंसेत् यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात् यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात् यदि वालखिल्याः प्राणान् अस्यान्तरीयात् यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात् यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च तानि सह वा शंसेत् सह वा न शंसेत् स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते हन्ताहम् इत्थम् एवायापरुतं शंसयानीति तद् ध तथा शंसयां चक्रे तद् ध तथा शस्यमाने गोश्ल आजगम स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति किं ह्य् अभूद् इति एवयामरुद् अयम् उत्तरतः शस्यत इति स होवाचैन्द्रो वै माध्यंदिनः कथेन्द्रं माध्यंदिनान् निनीषसीति नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच छन्दस् त्व् इदम् अमाध्यंदिनंसाचि जागतं वातिजागतं वा स उ मारुतः मैवं संमृष्टेति स होवाचारमाच्छावाकेति अथास्मिन्न् अनुशासनम् ईषे स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति तथेति तद् अप्य् एतर्हि तथैव शस्यते यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति रेतो वा अग्रे ऽथ प्राणाः एवं ब्राह्मणाच्छंसी अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात् यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते न ह वै सकृद् एवाग्रे सर्वं संभवति एकैकं वा अङ्गं संभवतः संभवति सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः अथ हैवैवयामरुतं होता शंसेत् तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. ড়त्यल्] तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥ [एद्. प्रतिस्थापयति २x, चोर्र्. ড়त्यल्]

2.6.10 देवक्षेत्रं वै षष्ठम् अहः देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस् तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम् तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः वाग् वा ऋतुप्रैषाः आप्यते वै वाक् षष्ठे ऽहनीति यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. ড়त्यल्] अच्युताद् यज्ञस्य च्यवेरन् यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. ড়त्यल्] तस्माद् ऋग्मेभ्य एव प्रेषितव्यम् ऋग्मेभ्यो ऽधि वषट्कृत्यम् तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति नाच्युताद् यज्ञस्य च्यवेरन् न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम् एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत् आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम् तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥

2.6.11 देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत तद् एवैतत् पदं पुनःपदम् स एवाङ्कुश आकुञ्चनाय आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद द्यौर् वै देवता षष्ठम् अहर् वहति त्रयस्त्रिंश स्तोमः रैवतं साम अतिच्छन्दश् छन्दः यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम् यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस् तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम् एतानि वै षष्ठस्याह्नो रूपाणि छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत् तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या] एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि छनदसाम् एव तत् सरसताया अयातयामतायै सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद ॥ ११ ॥

2.6.12 अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [४३]इति द्विपाद् वै पुरुषः द्विप्रतिष्ठः पुरुषः पुरुषो वै यज्ञस् तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [४४] इति देवयोनिर् वै सुकीर्तिः स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद अथ वृषाकपिं शंसति <वि हि सोतोर् असृक्षत [४५]इति आदित्यो वै वृषाकपिस् तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस् तद् वृषाकपेर् वृषाकपित्वम् वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. ড়त्यल्] बलं निनर्दः अन्नाद्यम् एवास्मै तद् बले निदधाति अथ कुन्तापं शंसति कुयं ह वै नाम कुत्सितं भवति तद् यत् तपति तस्मात् कुन्तापास् तत् कुन्तापानां कुन्तापत्वम् तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति ताः प्रग्राहं शंसति यथा वृषाकपिम् वार्षरूपं हि वृषाकपेस् तन् न्यायम् एत्य् एव अथ रैभीः शंसति <वच्यस्व रेभ वच्यस्व [४६]इति रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् आयन् तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति ताः प्रग्राहम् एत्य् एव अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति संवत्सरो वै परिक्षित् संवत्सरो हीदं सर्वं परिक्षियतीति अथो खल्व् आहुर् अग्निर् वै परिक्षित् अग्निर् हीदं सर्वं परिक्षियतीति अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात् गाथा एवैताः शस्ता भवन्ति यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात् यद्य् उ वै मन्त्रो ऽग्निर् एव मन्त्रः संवत्सरस्य वेति ब्रूयात् ताः प्रग्राहम् एत्य् एव अथ कारव्याः शंसति<इन्द्रः कारुम् अबूबुधत् [४७]इति यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन् तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति ताः प्रग्राहम् इत्य् एव अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [४८]इति जनकल्पा उत्तराः शंसति <यो ऽनाक्ताक्षो अनभ्यक्तः [४९]इति ऋतवो वै दिशः प्रजननस् तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [५०]इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति ऋतुषु प्रतिष्ठापयति प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ता अर्धर्चशः शंसति प्रतिष्ठित्या एव अथेन्द्रगाथाः शंसति <यद् इन्द्रादो दाशराज्ञे [५१]इति इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन् तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठित्या एव ॥ १२ ॥

2.6.13 अथैतशप्रलापं शंसत्य् <एता अश्वा आ प्लवन्ते [५२]इति ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम् तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति तथेति तद् अभिललाप तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम् यद् व् एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः [एद्. ऐतशैतशप्रलापो] अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं] तासाम् उत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. ড়त्यल्] अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [५३]इति प्रतिराधान् उत्तरान् शंसति <भुग् इत्य् अभिगतः [५४]इति [एद्. प्रतिराधानुत्तरान्ः] प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास् तत् प्रवल्हिकानां प्रवल्हिकात्वम् ता वै प्रतिराधैः प्रत्यराध्नुवन् तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास् तत् प्रतिराधानां प्रतिराधत्वम् प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास् ता वै प्रतिराधैः प्रतिराध्नुवन्ति ताः प्रग्राहम् इत्य् एव अथाजिज्ञासेन्याः शंसति<इहेत्थ प्राग् अपाग् उदग् अधराक् [५५]इति [एद्. उदाग्, चोर्रेच्तेद् प्. ३०३] आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन् तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति ता अर्धर्चशः शंसति प्रतिष्ठित्या एव अथातिवादं शंसति <वीमे देवा अक्रंसत [५६]इति श्रीर् वा अतिवादस् तम् एकर्चं शंसति एकस् ता वै श्रीस् तां वै विरेभं शंसति विरेभैः श्रियं पुरुषो वहतीति ताम् अर्धर्चशः शंसति प्रतिष्ठित्या एव ॥ १३ ॥

2.6.14 अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [५७]इति तद् देवनीथम् इत्य् आचक्षते आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति ते हाङ्गिरसः श्वःसुत्यां ददृशुस् ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति अथादित्या अद्यसुत्यां ददृशुस् ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम् तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति तान् हादित्यान् अङ्गिरसो याजयां चक्रुस् तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस् तां ह न प्रतिजगृहुः सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत् नेद् दक्षिणां प्रमृणजानीति तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात् तन् न पराची दक्षिणा विवृणक्ति द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [५८]इति न हीमां पृथिवीं प्रत्यायन् <ताम् उ ह जरितः प्रत्यायन् [५९]इति प्रति हि ते ऽमुम् आयन् <तां ह जरितर् नः प्रत्य् अगृभ्णन् [६०]इति न हीमां पृथिवीं प्रत्यगृभ्णन् <ताम् उ ह जरितर् नः प्रत्यगृभ्ण [६१]इति प्रगृह्यादित्यम् अगृभ्णन् <अहानेतरसं न विचेतनानि [६२]इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति स वै शंसति <यज्ञानेतरसं न पुरोगवासः [६३]इति एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता <उत श्वेत आशुपत्वा उत पद्याभिर् यविष्ठ उतेम् आशु मानं पिपर्ति [६४]इति एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः <उतेम् आशु मानं पिपर्ति [६५]इति <आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [६६]इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया एवैतत् [एद्. यस्ंां, चोर्र्. ড়त्यल्] अहरहः शंसति यथा निविदः अथ भूतेछदः शंसति <त्वम् इन्द्र शर्म रिणा [६७]इति इमे वै लोका भूतेछदः असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास् तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन् तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस् तद् भूतेछदां भूतेछदत्वम् छादयन्ति ह वापरम् इमे लोकाः सर्वेभ्यो भूतेभ्यो निरघ्नन् सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥

2.6.15 अथाहनस्याः शंसति <यद् अस्या अंहुभेद्याः [६८]इति आहनस्याद् वा इदं सर्वं प्रजातम् आहनस्याद् वा एतद् अधिप्रजायते अस्यैव सर्वस्याप्त्यै प्रजात्यै ता वै षट् शंसेत् षड् वा ऋतवः ऋतवः पितरः पितरः प्रजापतिः प्रजापतिर् आहनस्यास् ता दश शंसेद् इति शाम्भव्यस्य वचः दशाक्षरा विराट् वैराजो यज्ञस् तं गर्भा उपजीवन्ति श्रीर् वै विराट् यशो ऽन्नाद्यम् श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद तिस्रः शंसेद् इति वात्स्यस् त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम् अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत् सर्वा एव षोडश शंसेद् इति हैके कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. ড়त्यल्] रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद ॥ १५ ॥

2.6.16 अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [६९] इति तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [७०]इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. ড়त्यल्] पवित्रं पावमान्यस् तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस् तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत् तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. ড়त्यल्] सा वा अनुष्टुब् भवति वाग् वा अनुष्टुप् तत् स्वेनैव छन्दसा वाचं पुनीते ताम् अर्धर्चशः शंसति प्रतिष्ठित्या एव अथ पावमानीः शंसति पवित्रं वै पावमान्यः इयं वाग् आहनस्यां वाचम् अवादीत् तत् पावमानीभिर् एव वाचं पुनीते ताः सर्वा अनुष्टुभो भवन्ति वाग् वा अनुष्टुप् तत् स्वेनैव छन्दसा वाचं पुनीते ता अर्धर्चशः शंसति प्रतिष्ठित्या एव <अव द्रप्सो अंशुमतीम् अतिष्ठत् [७१]इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति अथ हैतद् उत्सृष्टम् तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस् तद् उ तथा न कुर्यात् त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः कामं नित्यम् एव परिदध्यात् कामं तृचस्योत्तमया तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत् कथम् अन्येष्व् अहःसु संशंसति कथम् अत्र न संशंसतीति अथो खल्व् आहुर् नैव संशंसेत् स्वर्गौ वै लोकः षष्ठम् अहः असमायी वै स्वर्गो लोकः कश् चिद् वै स्वर्गे लोके शमयतीति तस्मान् न संशंसति यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम् यद् व् एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति ऐन्द्रो वृषाकपिः सर्वाणि छन्दांस्य् ऐतशप्रलापः उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् इति अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ १६ ॥ इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥  



2.6.1
ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत्
<एवा त्वाम् इन्द्र वज्रिन्न् अत्र [७२] <यन् न इन्द्रो जुजुषे यच् च वष्टि [७३] <कथा महाम् अवृधत् कस्य होतुः [७४]इति
तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत
स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत
कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति
स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत
<सद्यो ह जातो वृषभः कनीनः [७५]<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [७६]<अभि तष्टेव दीधया मनीषाम् [७७] इति विश्वमित्रः
<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [७८]<य एक इद् धव्यश् चर्षणीनाम् [७९]<यस् तिग्मशृङ्गो वृषभो न भीमः [८०]इति वसिष्ठः
<इमाम् ऊ षु प्रभृतिं सातये धाः [८१]<इच्छन्ति त्वा सोम्यासः सखायः [८२] <शासद् वह्निर् दुहितुर् नप्त्यं गात् [८३]इति भरद्वाजः
एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन्
तद् यत् समपतंस् तस्मात् संपातास्
तत् संपातानां संपातत्वम्
ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [८४]इति प्रथमे ऽहनि
<यन् न इन्द्रो जुजुषे यच् च वष्टि [८५]इति द्वितीये
<कथा महाम् अवृधत् कस्य होतुः [८६]इति तृतीये
त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [८७]इति प्रथमे ऽहनि
<य एक इद् धव्यश् चर्षणीनाम् [८८] इति द्वितीये
<यस् तिग्मशृङ्गो वृषभो न भीमः [८९]इति तृतीये
त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति<इमाम् ऊ षु प्रभृतिं सातये धाः [९०]इति प्रथमे ऽहनि
<इच्छन्ति त्वा सोम्यासः सखायः [९१]इति द्वितीये
<शासद् वह्निर् दुहितुर् नप्त्यं गात् [९२]इति तृतीये
तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि
तानि द्वादश भवन्ति
द्वादश ह वै मासाः संवत्सरः
संवत्सरः प्रजापतिः
प्रजापतिर् यज्ञस्
तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति
तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति
प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. ড়त्यल्]
इदं सर्वम् अनु प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तान्य् अन्तरेणावापम् आवपेरन्
अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे
अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन् ॥ १ ॥
2.6.2
<को अद्य नर्यो देवकामः [९३]इति मैत्रावरुणः
<वने न वा यो न्य् अधायि चाकन् [९४]इति ब्राह्मणाच्छंसी
<आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः [९५]इत्य् अच्छावाकः
एतानि वा आवपनानि
एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं आयन्
तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति
<सद्यो ह जातो वृषभः कनीनः [९६]इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति
तद् एतत् सूक्तं स्वर्ग्यम्
एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
तद् ऋषभवत् पशुमद् भवति
पशूनाम् आप्त्यै
तत् पञ्चर्चं भवति
अन्नं वै पङ्क्तिः
अन्नाद्यस्यावरुद्ध्यै
<अरिष्टैर् नः पथिभिः पारयन्ता [९७]इति स्वर्गताया एवैतद् अहरहः शंसति
<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [९८]इति ब्राह्मणाच्छंसी
ब्रह्मण्वद् एतत् सूक्तं समृद्धम्
एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
तद् उ वै षडृचम्
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
तद् उपरिष्टात् संपातानाम् अहरहः शंसति
<अभि तष्टेव दीधया मनीषाम् [९९] इत्य् अच्छावाकः [एद्. अच्छावको]
अहरहः शंसत्य् अभिवदति तत्यै रूपम्
<अभि प्रियाणि मर्मृशत् पराणि [१००]इति
यान्य् एव पराण्य् अहानि तानि प्रियाणि
तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः
परो वा अस्माल् लोकात् स्वर्गो लोकः
स्वर्गम् एव तल् लोकम् अभिमृशन्ति
<कवींर् इच्छामि संदृशे सुमेधाः [१०१]इति
ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति
यद् उ वै दशर्चं दश वै प्राणाः
प्राणेन तद् आप्नोति
प्राणानां संतत्यै
यद् उ वै दशर्चम्
दश वै पुरुषे प्राणाः
दश स्वर्गा लोकाः
प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति
प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
यद् उ वै दशर्चम्
दशाक्षरा विराट्
इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा
तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति
सकृद् इन्द्रं निराह
तेनैन्द्राद् रूपान् न प्रच्यवते
तद् उपरिष्टात् संपातानाम् अहरहः शंसति ॥ २ ॥
2.6.3
<कस् तम् इन्द्र त्वावसुम् [१०२]<कन् नव्यो अतसीनाम् [१०३]<कद् ऊ न्व् अस्याकृतम् [१०४] इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते
को वै प्रजापतिः
प्रजापतेर् आप्त्यै
यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव कद्वन्तः
अथो अन्नं वै कम्
अथो अन्नस्यावरुद्ध्यै
यद् व् एव कद्वन्तः
अथो सुखं वै कम्
अथो अन्नस्यावरुद्ध्यै
यद् व् एव कद्वन्तः
अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति
तानि कद्वद्भिः प्रगाथैः शमयन्ति
तान्य् एभ्यः शान्तानि कं भवन्ति
तान्य् एताञ् छान्तानि स्वर्गं लोकम् अभिवहन्ति
त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्
ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस्
तद् उ तथा न कुर्यात्
क्षत्रं वै होता विशो होत्राशंसिनः
क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः
पापवस्यसम्
त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात्
यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते
तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति
न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते
वीर्यवत्तमं हि
ताभ्यो न व्याह्वयीत
समानं हि छन्दः
अथो नेद् धाय्याः करवाणीति
यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥
2.6.4
<अपेन्द्र प्राचो मघवन्न् अमित्रान् [पै.सं. १९.१६.८अ, शौ.सं. २०.१२५.१अ</ref> इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति [एद्. अपेन्द]
<अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [पै.सं. १९.१६.८ब्च्द्, शौ.सं. २०.१२५.१ब्च्द्</ref>इति
अभयस्य रूपम्
अभयम् इव ह्य् अन्विच्छति
<ब्रह्मणा ते ब्रह्मयुजा युनज्मि [१०५]इति ब्राह्मणाच्छंसी
एताम् अहरहः शंसति युक्तवतीम्
युक्त इव ह्य् अहीनः
अहीनस्य रूपम्
<उरुं नो लोकम् अनु नेषि [१०६]इत्य् अच्छावाको ऽहरहः शंसति
अनुनेषीत्य् एत इव ह्य् अहीनः
अहीनस्य रूपम्
नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति
यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति
न शुनंहूययाहीनस्य परिदध्यात्
क्षत्रियो ह राष्ट्राच् च्यवते
यो हैव परो भवति तम् अभिह्वयति ॥ ४ ॥
2.6.5
अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च
<व्य् अन्तरिक्षम् अतिरत् [१०७]इत्य् अहीनं युङ्क्ते
<एवेद् इन्द्रम् [१०८] इति विमुञ्चति
<नूनं सा ते [१०९]इत्य् अहीनं युङ्क्ते
<नू ष्टुतः [११०]इति विमुञ्चति
एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद
तस्य हैषैव युक्तिर् एषा विमुक्तिस्
तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः
अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्
नाहीनकर्म कुर्युः
अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत्
समानीभिः परिदध्युस्
तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत्
दीर्घारण्यानि भवन्ति
यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति
अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः
स्वर्गस्य लोकस्य समष्ट्यै
तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत्
समानीभिः परिदध्युः
संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति
संततम् ऋचा वषट्कृत्यम्
संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥
2.6.6
तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति
असौ वै होता यो ऽसौ तपति
स वा एक एव
तस्माद् एकसूक्तः
स यद् विध्यातो द्वाव् इवाभवति
तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम्
तस्माद् अ द्व्युक्थः
रश्मयो वाव होत्रास्
ते वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकस्य रश्मेर् द्वौद्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः
संवत्सरो वाव होता
स वा एक एव
तस्माद् एकसूक्तस्
तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः
ऋतवो वाव होत्रास्
ते वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकस्यर्तौ द्वौद्वौ मासौ भवतस् तस्माद् द्विसूक्ताः
पुरुषो वाव होता
स वा एक एव
तस्माद् एकसूक्तः
स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः
अङ्गानि वाव होत्रास्
तानि वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास्
तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत् समं भवति
यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति
यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति
अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति
गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्
देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति
तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः
प्रतनुमेषां यज्ञं हनिष्याम इति
ते वरुणं दक्षिणतो ऽयोजयन्
मध्यतो बृहस्पतिम्
उत्तरतो विष्णुम्
ते ऽब्रुवन्न् एकैकाः स्मः
नेदम् उत्सहामह इति
स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति
तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति
ते सर्व इन्द्रद्वितीयास्
तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते
द्वितीयवन्तो ह वा एतेन स्वा भवन्ति
द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥
2.6.7
आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति
वीर्यं वा अग्निः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्रावारुणम् अनुशस्यते
वीर्यं वा इन्द्रः
क्षत्रं वरुणः
पशव उक्थानि
वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति
स्थित्यै
अनपक्रान्त्यै
ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति
वीर्यं वा इन्द्रः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्राबार्हस्पत्यम् अनुशस्यते
वीर्यं वा इन्द्रः
ब्रह्म बृहस्पतिः
पशव उक्थानि
वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति
स्थित्यै
अनपक्रान्त्यै
ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति
वीर्यं वा इन्द्रः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्रावैष्णवम् अनुशस्यते
वीर्यं वा इन्द्रः
यज्ञो विष्णुः
पशव उक्थानि
वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति
तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. ড়त्यल्]
याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास्
तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति
अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम्
धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
तस्मात् तानि सार्धम् एवोपेयुः
सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत्
तस्मात् तानि सार्धम् एवोपेयुः
सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
शिल्पानि शंसति देवशिल्पानि
एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते
हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम्
शिल्पं हास्य समधिगम्यते य एवं वेद
यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि
आत्मानम् एवास्य तत् संस्कुर्वन्ति ॥ ७ ॥
2.6.8
नाभानेदिष्ठं शंसति
रेतो वै नाभानेदिष्ठः
रेत एवास्य तत् कल्पयति
तद् रेतोमिश्रं भवति
<क्ष्मया रेतः संजग्मानो नि षिञ्चत् [१११]इति
रेतसः समृद्ध्या एव
तं सनारशंसं शंसति
प्रजा वै नरः
वाक् शंसः
प्रजासु तद् वाचं दधाति
तस्माद् इमाः प्रजा वदन्त्यो जायन्ते
तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः
उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः
मध्य एव शंसेत्
मध्यायतना वा इयं वाक्
उपरिष्टान् नेदीयसीव
तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति
एतस्य त्वं प्राणान् कल्पयेति
वालखिल्याः शंसति
प्राणा वै वालखिल्याः
प्राणान् एवास्य तत् कल्पयति
ता विहृताः शंसति
विहृता वै प्राणाः
प्राणेनापानः
अपानेन व्यानः
स पच्छः प्रथमे सूक्ते विहरति
अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. ড়त्यल्]
ऋक्शः तृतीये
स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति
यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति
यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति
तद् उपाप्तो विहरेत् कामः
नेतुर् वै प्रगाथाः कल्पन्ते
अतिमर्शम् एव विहरेत्
तथा वै प्रगाथाः कल्पन्ते
यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवातिमर्शम् आत्मा वै बृहती
प्राणाः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते प्राणाः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं प्राणैः परिवृहन्न् एति
यद् व् एवातिमर्शम् आत्मा वै बृहती
प्रजाः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते प्रजाः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं प्रजया परिवृहन्न् एति
यद् व् एवातिमर्शम् आत्मा वै बृहती
पशवः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते पशवः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं पशुभिः परिवृहन्न् एति
तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति
एतस्य त्वं प्रजनयेति
सुकीर्तिं शंसति
देवयोनिर् वै सुकीर्तिस्
तद् यज्ञियायां देवयोन्यां यजमानं प्रजनयति
वृषाकपिं शंसति
आत्मा वै वृषाकपिः
आत्मानम् एवास्य तत् कल्पयति
तं न्यूङ्खयति
अन्नं वै न्यूङ्खः
अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम्
स पाङ्क्तो भवति
पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः
लोमानि त्वग् अस्थि मज्जा मस्तिष्कम्
स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति
एतस्य त्वं प्रतिष्ठा कल्पयेति
एवयामरुतं शंसति
प्रतिष्ठा वा एवयामरुत्
प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति
याज्यया यजति
अन्नं वै याज्या
अन्नाद्यम् एवास्मै तत् संप्रयच्छति ॥ ८ ॥
2.6.9
तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
तानि सह वा शंसेत् सह वा न शंसेत्
यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात्
यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात्
यदि वालखिल्याः प्राणान् अस्यान्तरीयात्
यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात्
यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च
तानि सह वा शंसेत् सह वा न शंसेत्
स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते
हन्ताहम् इत्थम् एवायापरुतं शंसयानीति
तद् ध तथा शंसयां चक्रे
तद् ध तथा शस्यमाने गोश्ल आजगम
स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति
किं ह्य् अभूद् इति
एवयामरुद् अयम् उत्तरतः शस्यत इति
स होवाचैन्द्रो वै माध्यंदिनः
कथेन्द्रं माध्यंदिनान् निनीषसीति
नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच
छन्दस् त्व् इदम् अमाध्यंदिनंसाचि
जागतं वातिजागतं वा
स उ मारुतः
मैवं संमृष्टेति
स होवाचारमाच्छावाकेति
अथास्मिन्न् अनुशासनम् ईषे
स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति
अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति
तथेति
तद् अप्य् एतर्हि तथैव शस्यते
यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति
रेतो वा अग्रे ऽथ प्राणाः
एवं ब्राह्मणाच्छंसी
अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति
रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति
यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति
स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात्
यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते
न ह वै सकृद् एवाग्रे सर्वं संभवति
एकैकं वा अङ्गं संभवतः संभवति
सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः
अथ हैवैवयामरुतं होता शंसेत्
तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. ড়त्यल्]
तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥ [एद्. प्रतिस्थापयति २x, चोर्र्. ড়त्यल्]
2.6.10
देवक्षेत्रं वै षष्ठम् अहः
देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति
न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस्
तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम्
तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता
तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः
वाग् वा ऋतुप्रैषाः
आप्यते वै वाक् षष्ठे ऽहनीति
यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. ড়त्यल्]
अच्युताद् यज्ञस्य च्यवेरन्
यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. ড়त्यल्]
तस्माद् ऋग्मेभ्य एव प्रेषितव्यम्
ऋग्मेभ्यो ऽधि वषट्कृत्यम्
तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति
नाच्युताद् यज्ञस्य च्यवेरन्
न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति
पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम्
रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम्
एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत्
आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद
तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति
षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम्
तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति
संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥
2.6.11
देवासुरा वा एषु लोकेषु समयतन्त
ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त
तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त
तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत
तद् एवैतत् पदं पुनःपदम्
स एवाङ्कुश आकुञ्चनाय
आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद
द्यौर् वै देवता षष्ठम् अहर् वहति
त्रयस्त्रिंश स्तोमः
रैवतं साम
अतिच्छन्दश् छन्दः
यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद
यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम्
यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस्
तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम्
एतानि वै षष्ठस्याह्नो रूपाणि
छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत्
तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या]
एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि
छनदसाम् एव तत् सरसताया अयातयामतायै
सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति
सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद ॥ ११ ॥
अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [११२]इति
द्विपाद् वै पुरुषः
द्विप्रतिष्ठः पुरुषः
पुरुषो वै यज्ञस्
तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः
अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [पै.सं. १९.१६.८अ, शौ.सं. २०.१२५.१अ, सकलपाठ अत् २.६.४</ref> इति
देवयोनिर् वै सुकीर्तिः
स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
अथ वृषाकपिं शंसति <वि हि सोतोर् असृक्षत [११३]इति
आदित्यो वै वृषाकपिस्
तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस्
तद् वृषाकपेर् वृषाकपित्वम्
वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद
तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति
अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. ড়त्यल्]
बलं निनर्दः
अन्नाद्यम् एवास्मै तद् बले निदधाति
अथ कुन्तापं शंसति
कुयं ह वै नाम कुत्सितं भवति
तद् यत् तपति तस्मात् कुन्तापास्
तत् कुन्तापानां कुन्तापत्वम्
तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति
ताः प्रग्राहं शंसति यथा वृषाकपिम्
वार्षरूपं हि
वृषाकपेस् तन् न्यायम् एत्य् एव
अथ रैभीः शंसति
<वच्यस्व रेभ वच्यस्व [११४]इति
रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति
ताः प्रग्राहम् एत्य् एव
अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति
संवत्सरो वै परिक्षित्
संवत्सरो हीदं सर्वं परिक्षियतीति
अथो खल्व् आहुर् अग्निर् वै परिक्षित्
अग्निर् हीदं सर्वं परिक्षियतीति
अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात्
गाथा एवैताः शस्ता भवन्ति
यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात्
यद्य् उ वै मन्त्रो ऽग्निर् एव मन्त्रः संवत्सरस्य वेति ब्रूयात्
ताः प्रग्राहम् एत्य् एव
अथ कारव्याः शंसति<इन्द्रः कारुम् अबूबुधत् [११५]इति
यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन्
तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति
ताः प्रग्राहम् इत्य् एव
अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [११६]इति जनकल्पा उत्तराः शंसति <यो ऽनाक्ताक्षो अनभ्यक्तः [११७]इति
ऋतवो वै दिशः प्रजननस्
तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [११८]इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति
ऋतुषु प्रतिष्ठापयति
प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथेन्द्रगाथाः शंसति <यद् इन्द्रादो दाशराज्ञे [११९]इति
इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन्
तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव ॥ १२ ॥
2.6.13
अथैतशप्रलापं शंसत्य् <एता अश्वा आ प्लवन्ते [१२०]इति
ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श
स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम्
तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति
तथेति
तद् अभिललाप
तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति
स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति
तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया
यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः [एद्. ऐतशैतशप्रलापो]
अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति
तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं]
तासाम् उत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. ড়त्यल्]
अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [१२१]इति प्रतिराधान् उत्तरान् शंसति <भुग् इत्य् अभिगतः [१२२]इति [एद्. प्रतिराधानुत्तरान्ः]
प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस्
तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास्
तत् प्रवल्हिकानां प्रवल्हिकात्वम्
ता वै प्रतिराधैः प्रत्यराध्नुवन्
तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास्
तत् प्रतिराधानां प्रतिराधत्वम्
प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास्
ता वै प्रतिराधैः प्रतिराध्नुवन्ति
ताः प्रग्राहम् इत्य् एव
अथाजिज्ञासेन्याः शंसति<इहेत्थ प्राग् अपाग् उदग् अधराक् [१२३]इति [एद्. उदाग्, चोर्रेच्तेद् प्. ३०३]
आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन्
तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथातिवादं शंसति <वीमे देवा अक्रंसत [१२४]इति
श्रीर् वा अतिवादस्
तम् एकर्चं शंसति
एकस् ता वै श्रीस्
तां वै विरेभं शंसति
विरेभैः श्रियं पुरुषो वहतीति
ताम् अर्धर्चशः शंसति
प्रतिष्ठित्या एव ॥ १३ ॥
2.6.14
अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [१२५]इति
तद् देवनीथम् इत्य् आचक्षते
आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
ते हाङ्गिरसः श्वःसुत्यां ददृशुस्
ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति
अथादित्या अद्यसुत्यां ददृशुस्
ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम्
तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति
स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति
ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति
नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते
किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव
किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
तान् हादित्यान् अङ्गिरसो याजयां चक्रुस्
तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस्
तां ह न प्रतिजगृहुः
सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति
तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते
तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत्
नेद् दक्षिणां प्रमृणजानीति
तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात्
तन् न पराची दक्षिणा विवृणक्ति
द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति
स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [१२६]इति
न हीमां पृथिवीं प्रत्यायन्
<ताम् उ ह जरितः प्रत्यायन् [१२७]इति प्रति हि ते ऽमुम् आयन्
<तां ह जरितर् नः प्रत्य् अगृभ्णन् [१२८]इति
न हीमां पृथिवीं प्रत्यगृभ्णन्
<ताम् उ ह जरितर् नः प्रत्यगृभ्ण [१२९]इति प्रगृह्यादित्यम् अगृभ्णन्
<अहानेतरसं न विचेतनानि [१३०]इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति
स वै शंसति <यज्ञानेतरसं न पुरोगवासः [१३१]इति
एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा
यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता
<उत श्वेत आशुपत्वा उत पद्याभिर् यविष्ठ उतेम् आशु मानं पिपर्ति [१३२]इति
एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः
<उतेम् आशु मानं पिपर्ति [१३३]इति
<आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [१३४]इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया एवैतत् [एद्. यस्ंां, चोर्र्. ড়त्यल्]
अहरहः शंसति यथा निविदः
अथ भूतेछदः शंसति <त्वम् इन्द्र शर्म रिणा [१३५]इति
इमे वै लोका भूतेछदः
असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास्
तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन्
तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस्
तद् भूतेछदां भूतेछदत्वम्
छादयन्ति ह वापरम् इमे लोकाः
सर्वेभ्यो भूतेभ्यो निरघ्नन्
सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥
2.6.15
अथाहनस्याः शंसति <यद् अस्या अंहुभेद्याः [१३६]इति
आहनस्याद् वा इदं सर्वं प्रजातम्
आहनस्याद् वा एतद् अधिप्रजायते
अस्यैव सर्वस्याप्त्यै प्रजात्यै
ता वै षट् शंसेत्
षड् वा ऋतवः
ऋतवः पितरः
पितरः प्रजापतिः
प्रजापतिर् आहनस्यास्
ता दश शंसेद् इति शाम्भव्यस्य वचः
दशाक्षरा विराट्
वैराजो यज्ञस्
तं गर्भा उपजीवन्ति
श्रीर् वै विराट्
यशो ऽन्नाद्यम्
श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति
प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तिस्रः शंसेद् इति वात्स्यस्
त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु
त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम्
अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत्
सर्वा एव षोडश शंसेद् इति हैके
कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. ড়त्यल्]
रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय
प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद ॥ १५ ॥
2.6.16
अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [१३७] इति
तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [१३८]इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. ড়त्यल्]
पवित्रं पावमान्यस्
तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस्
तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती
स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति
तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत्
तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. ড়त्यल्]
सा वा अनुष्टुब् भवति
वाग् वा अनुष्टुप्
तत् स्वेनैव छन्दसा वाचं पुनीते
ताम् अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथ पावमानीः शंसति
पवित्रं वै पावमान्यः
इयं वाग् आहनस्यां वाचम् अवादीत्
तत् पावमानीभिर् एव वाचं पुनीते
ताः सर्वा अनुष्टुभो भवन्ति
वाग् वा अनुष्टुप्
तत् स्वेनैव छन्दसा वाचं पुनीते
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
<अव द्रप्सो अंशुमतीम् अतिष्ठत् [१३९]इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति
अथ हैतद् उत्सृष्टम्
तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस्
तद् उ तथा न कुर्यात्
त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने
तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः
कामं नित्यम् एव परिदध्यात्
कामं तृचस्योत्तमया
तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत्
कथम् अन्येष्व् अहःसु संशंसति
कथम् अत्र न संशंसतीति
अथो खल्व् आहुर् नैव संशंसेत्
स्वर्गौ वै लोकः षष्ठम् अहः
असमायी वै स्वर्गो लोकः
कश् चिद् वै स्वर्गे लोके शमयतीति
तस्मान् न संशंसति
यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति
ऐन्द्रो वृषाकपिः
सर्वाणि छन्दांस्य् ऐतशप्रलापः
उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् इति
अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति
शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ १६ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥

  1. ऋ. ४.१९.१
  2. ऋ. ४.२२.१
  3. ऋ. ४.२३.१
  4. ऋ. ३.४८.१
  5. ऋ. ७.२३.१, शौ.सं. २०.१२.१
  6. ऋ. ३.३८.१
  7. ऋ. ३.३४.१, शौ.सं. २०.११.१
  8. ऋ. ६.२२.१, शौ.सं. २०.३६.१
  9. ऋ. ७.१९.१, शौ.सं. २०.३७.१
  10. ऋ. ३.३६.१
  11. ऋ. ३.३०.१
  12. ऋ. ३.३१.१
  13. ऋ. ४.१९.१
  14. ऋ. ४.२२.१
  15. ऋ. ४.२३.१
  16. ऋ. ३.३४.१, शौ.सं. २०.११.१
  17. ऋ. ६.२२.१, शौ.सं. २०.३६.१
  18. ऋ. ७.१९.१, शौ.सं. २०.३७.१
  19. ऋ. ३.३६.१
  20. ऋ. ३.३०.१
  21. ऋ. ३.३१.१
  22. ऋ. ४.२५.१
  23. ऋ. १०.२९.१, शौ.सं. २०.७६.१
  24. ऋ. ३.४३.१
  25. ऋ. ३.४८.१
  26. ऋ. ६.६९.१द्
  27. ऋ. ७.२३.१, शौ.सं. २०.१२.१
  28. ऋ. ३.३८.१अ
  29. ऋ. ३.३८.१च्
  30. ऋ. ३.३८.१द्
  31. ऋ. ७.३२.१४
  32. ऋ. ८.३.१३
  33. ऋ. ८.६६.९
  34. पै.सं. १९.१६.८अ, शौ.सं. २०.१२५.१अ
  35. पै.सं. १९.१६.८ब्च्द्, शौ.सं. २०.१२५.१ब्च्द्
  36. ऋ. ३.३५.५, शौ.सं. २०.८६.१
  37. ऋ. ६.४७.८, पै.सं. ३.३५.४, शौ.सं. १९.१५.४
  38. ऋ. ८.१४.७अ, शौ.सं. २०.२८.१अ, २०.३९.२अ
  39. ऋ. ७.२३.६अ, शौ.सं. २०.१२.६अ, लोन्गेर् पर्तीक अत् २.४.२
  40. ऋ. २.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९
  41. ऋ. ४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११
  42. ऋ. १०.६१.७ब्
  43. ऋ. १०.१५७.१, शौ.सं. २०.६३.१, २०.१२४.४
  44. पै.सं. १९.१६.८अ, शौ.सं. २०.१२५.१अ, सकलपाठ अत् २.६.४
  45. ऋ. १०.८६.१, शौ.सं. १०.१२६.१
  46. ऋ.खिल ५.९.१, शौ.सं. २०.१२७.४
  47. ऋ.खिल ५.११.१, शौ.सं. २०.१२७.११
  48. ऋ.खिल ५.१२.१, शौ.सं. २०.१२८.१
  49. ऋ.खिल ५.१३.१, शौ.सं. २०.१२८.६
  50. ऋ.खिल ५.१२.१, शौ.सं. २०.१२८.१
  51. ऋ.खिल ५.१४.१, शौ.सं. २०.१२८.१२
  52. ऋ.खिल ५.१५.१, शौ.सं. २०.१२९.१
  53. ऋ.खिल ५.१६.१, शौ.सं. २०.१३३.१
  54. ऋ.खिल ५.१८.१, शौ.सं. २०.१३५.१
  55. ऋ.खिल ५.१७.१, शौ.सं. २०.१३४.१
  56. ऋ.खिल ५.१९.१, शौ.सं. २०.१३५.४
  57. ऋ.खिल ५.२०.१, शौ.सं. २०.१३५.६
  58. ऋ.खिल ५.२०.१अब्च्, शौ.सं. २०.१३५.६अब्च्
  59. ऋ.खिल ५.२०.१द्, शौ.सं. २०.१३५.६द्
  60. ऋ.खिल ५.२०.२अ, शौ.सं. २०.१३५.७अ
  61. ऋ.खिल ५.२०.२ब्, शौ.सं. २०.१३५.७ब्
  62. ऋ.खिल ५.२०.२च्, शौ.सं. २०.१३५.७च्
  63. ऋ.खिल ५.२०.२द्, शौ.सं. २०.१३५.७द्
  64. ऋ.खिल ५.२०.३, शौ.सं. २०.१३५.८
  65. ऋ.खिल ५.२०.३च्, शौ.सं. २०.१३५.८च्
  66. ऋ.खिल ५.२०.४-५, शौ.सं. २०.१३५.९-१०
  67. ऋ.खिल ५.२१.१, शौ.सं. २०.१३५.११
  68. ऋ.खिल ५.२२.१, शौ.सं. २०.१३६.१
  69. ऋ. ४.३९.६, ऋ.खिल ५.२२.१३, शौ.सं. २०.१३७.३
  70. ऋ. ९.१०१.४, शौ.सं. २०.१३७.४
  71. ऋ. ८.९६.१३, शौ.सं. २०.१३७.७
  72. ऋ. ४.१९.१
  73. ऋ. ४.२२.१
  74. ऋ. ४.२३.१
  75. ऋ. ३.४८.१
  76. ऋ. ७.२३.१, शौ.सं. २०.१२.१
  77. ऋ. ३.३८.१
  78. ऋ. ३.३४.१, शौ.सं. २०.११.१
  79. ऋ. ६.२२.१, शौ.सं. २०.३६.१
  80. ऋ. ७.१९.१, शौ.सं. २०.३७.१
  81. ऋ. ३.३६.१
  82. ऋ. ३.३०.१
  83. ऋ. ३.३१.१
  84. ऋ. ४.१९.१
  85. ऋ. ४.२२.१
  86. ऋ. ४.२३.१
  87. ऋ. ३.३४.१, शौ.सं. २०.११.१
  88. ऋ. ६.२२.१, शौ.सं. २०.३६.१
  89. ऋ. ७.१९.१, शौ.सं. २०.३७.१
  90. ऋ. ३.३६.१
  91. ऋ. ३.३०.१
  92. ऋ. ३.३१.१
  93. ऋ. ४.२५.१
  94. ऋ. १०.२९.१, शौ.सं. २०.७६.१
  95. ऋ. ३.४३.१
  96. ऋ. ३.४८.१
  97. ऋ. ६.६९.१द्
  98. ऋ. ७.२३.१, शौ.सं. २०.१२.१
  99. ऋ. ३.३८.१अ
  100. ऋ. ३.३८.१च्
  101. ऋ. ३.३८.१द्
  102. ऋ. ७.३२.१४
  103. ऋ. ८.३.१३
  104. ऋ. ८.६६.९
  105. ऋ. ३.३५.५, शौ.सं. २०.८६.१
  106. ऋ. ६.४७.८, पै.सं. ३.३५.४, शौ.सं. १९.१५.४
  107. ऋ. ८.१४.७अ, शौ.सं. २०.२८.१अ, २०.३९.२अ
  108. ऋ. ७.२३.६अ, शौ.सं. २०.१२.६अ, लोन्गेर् पर्तीक अत् २.४.२
  109. ऋ. २.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९
  110. ऋ. ४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११
  111. ऋ. १०.६१.७ब्
  112. ऋ. १०.१५७.१, शौ.सं. २०.६३.१, २०.१२४.४
  113. ऋ. १०.८६.१, शौ.सं. १०.१२६.१
  114. ऋ.खिल ५.९.१, शौ.सं. २०.१२७.४
  115. ऋ.खिल ५.११.१, शौ.सं. २०.१२७.११
  116. ऋ.खिल ५.१२.१, शौ.सं. २०.१२८.१
  117. ऋ.खिल ५.१३.१, शौ.सं. २०.१२८.६
  118. ऋ.खिल ५.१२.१, शौ.सं. २०.१२८.१
  119. ऋ.खिल ५.१४.१, शौ.सं. २०.१२८.१२
  120. ऋ.खिल ५.१५.१, शौ.सं. २०.१२९.१
  121. ऋ.खिल ५.१६.१, शौ.सं. २०.१३३.१
  122. ऋ.खिल ५.१८.१, शौ.सं. २०.१३५.१
  123. ऋ.खिल ५.१७.१, शौ.सं. २०.१३४.१
  124. ऋ.खिल ५.१९.१, शौ.सं. २०.१३५.४
  125. ऋ.खिल ५.२०.१, शौ.सं. २०.१३५.६
  126. ऋ.खिल ५.२०.१अब्च्, शौ.सं. २०.१३५.६अब्च्
  127. ऋ.खिल ५.२०.१द्, शौ.सं. २०.१३५.६द्
  128. ऋ.खिल ५.२०.२अ, शौ.सं. २०.१३५.७अ
  129. ऋ.खिल ५.२०.२ब्, शौ.सं. २०.१३५.७ब्
  130. ऋ.खिल ५.२०.२च्, शौ.सं. २०.१३५.७च्
  131. ऋ.खिल ५.२०.२द्, शौ.सं. २०.१३५.७द्
  132. ऋ.खिल ५.२०.३, शौ.सं. २०.१३५.८
  133. ऋ.खिल ५.२०.३च्, शौ.सं. २०.१३५.८च्
  134. ऋ.खिल ५.२०.४-५, शौ.सं. २०.१३५.९-१०
  135. ऋ.खिल ५.२१.१, शौ.सं. २०.१३५.११
  136. ऋ.खिल ५.२२.१, शौ.सं. २०.१३६.१
  137. ऋ. ४.३९.६, ऋ.खिल ५.२२.१३, शौ.सं. २०.१३७.३
  138. ऋ. ९.१०१.४, शौ.सं. २०.१३७.४
  139. ऋ. ८.९६.१३, शौ.सं. २०.१३७.७