अथर्ववेदः/काण्डं २०/सूक्तम् ०५१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २०.०५० अथर्ववेदः - काण्डं २०
सूक्तं २०.०५१
१-२ प्रस्कण्वः, ३-४ पुष्टिगुः।
सूक्तं २०.०५२ →
दे. इन्द्रः। प्रगाथः (विषमा बृहती, समा सतोबृहती)

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥