पञ्चविंशब्राह्मणम्/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ पञ्चविंशब्राह्मणम् (ताण्ड्यब्राह्मणम्)
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
अहीनादि कल्पनं

20.1
त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेताभिक्रमो वा एष स्तोमानामभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोति
एषोऽग्निष्टोम एष उक्थ्य एषोऽतिरात्रोऽग्निष्टोमेन वै देवा इमं लोकमभ्यजयन्नुक्थ्यैरन्तरिक्षं रात्र्यामुं लोकमजयन्नहोरात्राभ्यामभ्यवर्तन्त
पराच्यो वा अन्या व्युच्छन्ति प्रतीच्योऽन्या एषा वाव प्रतीची व्युच्छति याश्विनेन व्युच्छति प्रतीचीरेवास्मा उषसो विवासयति
द्वे संस्तुतानां विराजमतिरिच्येते एषा वै स्तनवती विराट्यं कामं कामयते तमेतां दुग्धे
त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति
20.2
त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
यत् त्रिवृद्बहिष्पवमानं भवति तत् त्रिवृतं स्तोममाप्नोति गायत्रीं छन्दो यत् पञ्चदशान्याज्यानि तत् पञ्चदशं स्तोममाप्नोति त्रिष्टुभं छन्दो यत् सप्तदशो माध्यन्दिनः पवमानस्तत् सप्तदशं स्तोममाप्नोति जगतीं छन्दो यदेकविंशानि पृष्टानि तदेकविंशं स्तोममाप्नोत्यनुष्टुभं छन्दो यत् त्रिणव आर्भवस्तत् त्रिणवं स्तोममाप्नोति पङ्क्तिं छन्दो यत् त्रयस्त्रिंशोऽग्निष्टोमस्तत् त्रयस्त्रिंशं स्तोममाप्नोति विराजं छन्दो यदुष्णिक्ककुभौ क्रियेते तदुष्णिक्ककुभावाप्नोति यदाश्विनं शस्यते तत् सर्वमेवैतेनाप्नोति सर्वं जयति
प्राञ्चं वै त्रयस्त्रिंशो यज्ञं प्रभुजति तमध्वर्युरेकादशिन्या पुरस्तात् प्रत्युद्यच्छत्येकादश रशना एकादश पशव एकादश यूपा भवन्ति तत् त्रयस्त्रिंशे त्रयस्त्रिंशं प्रतिष्ठापयति
तया समुद्यतया रात्र्या यं यं कामं कामयते तं तमभ्यश्नुते यं यं कामं कामयते तं तमभ्यश्नुते य एवं वेद
20.3
त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं छन्दोमा इतराणि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथममथैकविंशमथ सप्तदशमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिस्त्रिवृत् प्रथममतिरिक्तस्तोत्रमथ पञ्चदशमथ सप्तदशमथैकविंशम्
प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानग्निष्टोमेन नाप्नोत् तानुक्थैर्नाप्नोत् तान् षोडशिना नाप्नोत् तान् रात्र्या नाप्नोत् तान् सन्धिना नाप्नोत् तानाश्विनेन नाप्नोत् तानग्निमब्रवीदिमान्म ईप्सेति तानग्निस्त्रिवृता स्तोमेन जराबोधीयेन साम्ना नाप्नोत् तानिन्द्रमब्रवीदिमान्म ईप्सेति तानिन्द्रः पञ्चदशेन स्तोमेन सत्त्रासाहीयेन साम्ना नाप्नोत् तान् विश्वान् देवानब्रवीदिमान्म इप्सतेति तान् विश्वे देवाः सप्तदशेन स्तोमेन मार्गींयवेण साम्ना नाप्नुवंस्तान् विष्णुमब्रवीदिमान्म ईप्सेति तान् विष्णुरेकविंशेन स्तोमेनाप्नोद्वारवन्तीयेनावारयतेदं विष्णुर्विचक्रम इति व्यक्रमत
यस्मात् प्र प्रेव पशवो भ्रंशेरन् स एतेन यजेत
एतेन वै देवा जैत्वानि जित्वा यं यं काममकामयन्त तं तमाप्नुवन् यं कामं कामयते तमेतेनाप्नोति
तदप्तोर्याम्नोऽप्तोर्यामत्वम्
20.4
त्रिवृद्बहिष्पवमानं पञ्चदशं होतुराज्यं नवसप्तदशानि स्तोत्राण्येकविंशोऽग्निष्टोमः सोक्थः पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
नवसप्तदशेनातिरात्रेण प्रजाकामो यजेत नव वै प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तदधि प्रजापतेः प्रजाः प्रजायन्ते
ककुभं प्राचीमुदूहति पुरुषो वै ककुप्गर्भो वा एष मध्यतो धीयते
तस्यां साकमश्वम्
प्रजापतिः प्रजा असृजत ता न प्राजायन्त स एतत् सामापश्यत् ता अश्वो भूत्वाभ्यजिघ्रत् ताः प्राजायन्त प्रजननं वा एतत् साम
प्रजायते बहुर्भवति य एवं वेद
द्विपदां ककुभो लोके करोति गर्भमेव तद्धितं मध्यतः प्रजनयति
अतिरात्रो भवत्यहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवानु प्रजया पशुभिः प्रजायते
20.5
त्रिवृत् बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सप्तदशान्युक्थानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
विषुवतातिरात्रेण ज्येष्ठं ज्यैष्ठिनेयं याजयेद्विषुवान् वा एष स्तोमानां विषुवानेव भवति यदेक एकविंशो भवत्येकविंशो वा इतोऽसावादित्य द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका
असावादित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
एष वा उदेति न वा एनमन्यत् ज्योतिषां ज्योतिः प्रत्युदेति
नैनमन्यः स्वेषु प्रत्युदेति य एवं वेद
20.6
पञ्चदशं बहिष्पवमानं त्रिवृन्त्याज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत् सन्धिर्गोष्टोमेनातिरात्रेण भ्रातृव्यवान् यजेत गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्त रात्र्यानपजय्यमजयन्नेभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य रात्र्यानपजय्यं जयति
20.7
त्रिवृत् बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत् सन्धिरायुष्टोमेनातिरात्रेण स्वर्गकामो यजेतोर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय यदतिरात्रो भवत्यहोरात्राभ्यामेव स्वर्गं लोकमेति
20.8
त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्य पञ्चदशं ब्राह्मणाच्छंसिनः सप्तदशमच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुः पृष्ठमेकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन एकविंशमच्छावकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिरभिजितातिरात्रेण भ्रातृव्यवान् यजेताभिजिता वै देवा असुरानिमान् लोकानभ्यजयत् रात्र्यानपजय्यमजयन्नभिजितैव भ्रातृव्यमिमान् लोकानभिजित्य रात्र्यानपजय्यं जयति
20.9
त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशमच्छावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवं मैत्रावरुणस्य
सप्तदशं ब्राह्मणाच्छंसिन एकविंशमच्छावाकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिः त्रिवृत् सन्धिर्विश्वजितातिरात्रेण पशुकामो यजेत
रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन्नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस्तत् पशवः प्रजायन्ते रूपाणि विकरोति यद्वार्षाकपमृतुषु प्रतितिष्ठति यदेवयामरुत्
20.10
त्रिवृत् आतिरात्रेण ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृत् ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसमवरुन्धे तेजसि ब्रह्मवर्चसे प्रतितिष्ठति पञ्चदशेनातिरात्रेण वीर्यकामो यजेतौजो वीर्यं पञ्चदश ओज एव वीर्यमवरुन्ध ओजसि वीर्ये प्रतितिष्ठति सप्तदशेनातिराच्रेणान्नाद्यकामो यजेतान्नं वै सप्तदशोऽन्नाद्यमेवावरुन्ध एकविंशेनातिरात्रेण प्रतिष्ठाकामो यजेत प्रतिष्ठा वा एकविंशो यदतिरात्रो भवत्यहोरात्रयोरेव प्रतितिष्ठति
20.11
ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहः सर्वस्तोमोऽतिरात्र उत्तरम्
तस्य चतुर्विंशं बहिष्पवमानं पञदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथममथैकविंशमथ सप्तदशमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
अङ्गिरसः स्वर्गं लोकमायंस्तेषां हविष्मांश्च हविष्कृच्चाङ्गिरसावहीयेता तावागच्छेतां यतोऽङ्गिरसः स्वर्गं लोकमायंस्तावतप्येतां तावेते सामनी अपश्यतां ताभ्यां द्विरात्रमतन्वातां तेन स्वर्गं लोकमैताम्
यः पौण्यो हीन इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहामाप्नुतां हि तावङ्गिरसः
प्रजाकामो यजेत द्वितीयं ह्येतद्यत् प्रजाः
स्वर्गकामो यजेत द्वितीयाद्धि लोकात् परो लोकोऽभिप्रक्रम्यो दुराधो द्विरात्र इत्याहुर्यदग्निष्टोमः पूर्वमहर्भवत्युक्थ्यमन्तर्यन्ति यद्युक्थ्योऽग्निष्टोमम्
यज्ज्योतिरुक्थ्यः पूर्वमहर्भवति नाग्निष्टोममन्तर्यन्ति नोक्थानि
तदाहुरेषा वाव यज्ञस्य मात्रा यदग्निष्टोमो यदग्निष्टोमः पूर्वमहर्भवति यज्ञस्य मात्रां नातिक्रामत्यथोत्तरस्याह्न उक्थेभ्योऽधि रात्रिमुपयन्ति तेनोक्थान्यनन्तरितानि
चतुर्विंशं बहिष्पवमानं भवत्युत्तरस्याह्नश्चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
20.12
अथ यस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरतिरात्र उत्तरम्
तिस्रः पूर्वस्याह्नो विराजमतिरिच्यन्ते द्वाभ्यामुत्तरमहर्विराज ऊनमूनातिरिक्तं वा अनुप्रजाः प्रजायन्ते
प्र प्रजया प्र पशुभिर्जायते य एवं वेद
एका संस्तुतानां विराजमतिरिच्यते एकाकिनमेवैनमन्नाद्यस्याध्यक्षं करोति
एतेन वै चित्ररथं कापेया अयाजयंस्तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वंस्तस्माच्चैत्ररथीनामेकः क्षत्रपतिर्जायतेऽनुलम्ब इव द्वितीयः
20.13
अथ यस्य त्रिवृत् पञ्चदशोऽग्निष्टोमः पूर्वमहर्भवत्यायुरतिरात्र उत्तरम्
मिथुनाभ्यां स्तोमाभ्यामुत्तरमहः प्रजनयन्ति तत् प्रजातं श्व आरभन्ते चक्रे वा एते साकंवृती यत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयते तमेतेनाभ्यश्नुते यत्र यत्र हि चक्रीवता कामयते तत् तदभ्यश्नुते
अथ यदायुरतिरात्रो भवति प्रतिष्ठित्यै
एतेन वै कपिवनो भौवायन इष्ट्वारूक्षतामगच्छत्
अरूक्षो भवति य एवं विद्वानेतेन यजते
20.14
त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातःसवनं सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थमेकविंशं प्रातःसवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंश आर्भवश्चतुस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि षोडशं प्रथमं रात्रिषाम पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
प्रजापतिर्वा इदमेक आसीत् तस्य वागेव स्वमासीद्वाग्द्वितीया स ऐक्षतेमामेव वाचं विसृजा इयं वा इदं सर्वं विभवन्त्येष्यतीति स वाचं व्यसृजत सेदं सर्वं विभवन्त्यैत् सोर्ध्वोदातनोद्यथापां धारा सन्ततैवं तस्या एति तृतीयमच्छिनत् तद्भूमिरभवदभूदिव वा इदमिति तद्भूमेर्भूमित्वं केति तृतीयमच्छिनत् तदन्तरिक्षमभवदन्तरेव वा इदमिति तदन्तरिक्षस्यान्तरिक्षत्वं हो इति तृतीयमूर्ध्वमुदास्यत् तत् द्यौरभवदद्युतदिव वा इति तद्दिवो दिवत्वम्
एषा वाव प्रत्यक्षं वाग्यज्जिह्वाग्रेणैतद्वाचो वदति यदेति मध्येनैतद्वाचो वदति यत् केति सर्वयैतद्वाचो रसोऽध्यूर्ध्व उद्वदति यद्धो इति
यदेतानि रूपाण्यन्वहं व्यज्यन्ते मुखत एव तद्वाचं विसृजन्ते मुखतो यज्ञियं कर्म
प्रजापतिर्वा इदमेकाक्षरां वाचं सतीं त्रेधा व्यकरोत् त इमे लोका अभवन् रूक्षा अनुपजीवनाः स ऐक्षत कथमिमे लोका लोम गृह्णीयुः कथमुपजीवनीयाः स्युरिति स एतं त्रिरात्रमपश्यत् तमाहरत् तेनेमान् लोकानन्वातनोत् ततो वा इमे लोका लोमागृह्णंस्तत उपजीवनीया अभवंस्त्रिरात्रस्य वा इदं पुष्टं त्रिरात्रस्योदरणं यदिदमेषु लोकेष्वधि
गच्छति पशूनां भूमानं द्विपदां चतुष्पदां य एवं वेद
प्रजापतिर्यद्वाचं व्यसृजत साक्षरदेवेति प्रथमं क्षेति द्वितीयं रेति तृतीयं येन येन वै रूपेण प्रजापतिर्वाचं व्यसृजत तेन तेन रूपेणाज्यानि चारभ्यन्तेऽहानि चाप्यन्ते
तदाहुर्ब्रह्मवादिनोऽक्षरेस्थो वै त्रिरात्र इत्येकाक्षरा वै वाक्त्र्यक्षरमक्षरं त्र्यक्षरः पुरुषः स वा एनं वेदेत्याहुर्य एनं पुरुषसम्मितं वेदेति
20.15
एतेन वै देवा एषु लोकेष्वार्ध्नुवन्नेतेन स्वर्गं लोकमायन्
वाग्वै त्रिरात्रो वाचो रूपेणाज्यानि चाहानि च विभज्यन्त एकाक्षरा वै वाक्त्र्यक्षरमक्षरमक्षरस्य रूपेण विभज्यन्ते त्रयो गन्धर्वास्तेषामेषा भक्तिरग्नेः पृथिवी वायोरन्तरिक्षमसावादित्यस्य द्यौस्त्रयो घर्मास उषसं सचन्ते
अग्निरुषसं सचते वायुरुषसं सचतेऽसावादित्य उषसं सचते
त्रीणि मिथुनानि तान्येषः
मिथुनं द्वे सम्भवतो मिथुनाद्यत् प्रजायते तत् तृतीयम्
इन्द्रो वृत्राय वज्रमुदयच्छत् सोऽब्रवीन्मा मे प्रहर्षीरस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तदस्मै प्रायच्छत् तद्विष्णुः प्रत्यगृह्णात् स द्वितीयं स तृतीयमुदयच्छत् स एवाब्रवीन्मा मे प्रहार्षीरस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तदस्मै प्रायच्छत् तद्विष्णुः प्रत्यगृह्णादेतद्वाच तदभ्यनूच्यते
उभौ जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्च नैनोः इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वितद्(?) ऐरयेथामिति
एतद्वा आभ्यां तत् सहस्रं प्रायच्छत्
तस्यैषा भक्तिर्य आर्षेयो विद्वांस्तस्मै प्रथमेऽहनि देयं यथा वा इयं एवं स प्रतिष्ठितेयं प्रतिष्ठितः सः
योऽनार्षेयो विद्वांस्तस्मै द्वितीयेऽहनि देयं यथा वा अन्तरिक्षमेवं सोऽन्तरिक्षमित्यन्तरिक्षं विदुर्वेदं तस्य विदुः
य आर्षेयो विद्वांस्तस्मै तृतीयेऽहनि देयं यथा वै द्यौरेवं स द्यौरिति दिवं विदुर्बन्धु तस्य विदुः
शतान्यन्वहं दीयन्ते एषा वाव यज्ञस्य मात्रा यच्छतं सैव साविच्छिन्ना दीयते दशतोऽन्वहं दीयन्ते दशाक्षरा विराड्वैराजो यज्ञः सैव सा विच्छिन्ना दीयते
त्रयस्त्रिंशच्च त्रीणि च शतानि प्रथमेऽहनि देयास्तथा द्वितीये तथा तृतीये
अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयमग्नीधः
काम्यासि प्रियासि हव्यासीडे रन्ते सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूतात्
20.16
इदं वाव प्रथमेनाह्ना व्यकरोद्यदिदमस्यामध्यायत् त मूलमिदं द्वितीयेन यदिदं प्राणादेजत्यदस्तृतीयेन यद्वर्षति यन्नक्षत्राणि यदमुं लोकं भेजे
तदाहुर्ब्रह्मवादिनो महाव्रतं वा एतद्यदेष त्रिरात्र इति तस्यै तदेव मुखं यदेतेषामह्वां बहिष्पवमानं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्माग्निष्टोमसामानि पुच्छम्
यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्माग्निः पुच्छम्
यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्मा यदस्तमेति तत् पुच्छम्
एतावान् वाव त्रिरात्रो गायत्रः प्राणस्त्रैष्टुभं चक्षुर्जागतं श्रोत्रं सर्वमायुरेति य एवं वेद
तदाहुर्ब्रह्मवादिनः कियांस्त्रिरात्र इतीयानिति ब्रूयादियद्धयेतदभ्यथो इयानिति ब्रूयादियद्धयेवैतदभिपरा३ङर्वा३ङित्याहुः पराङिति ब्रूयात् पराङ्हि वदति पराङ्पश्यति पराङ्प्राणित्येका३ द्वा३ उ त्रया३ इत्याहुरेक इति ब्रूयात् समानो ह्येष यत् प्राणोऽपानो व्यानस्तद्यथा वा अदो मणौ सूत्रमोतमेवमेषु लोकेषु त्रिरात्र ओतः शोभतेऽस्य मुखं य एवं वेद
यद्वै त्रिरात्रस्य सलोम तदस्य विलोम यदस्य विलोम तदस्य सलोम तद्यदेतत् परं सदहरवरं क्रियते यजमानायैव तत् पशून् परिगृह्णाति प्रजननाय न ह्यमुष्मिन् लोके पशवः प्रजायन्ते
एते वाव छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप्च यदेते अभितो भवतो मध्ये जगती वीर्यवतीभ्यामेव तच्छन्दोभ्यां पशून् परिगृह्णाति प्रजननाय न ह्यमुष्मिन् लोके पशवः प्रजायन्ते
असौ वाव त्रिरात्रो यथोदेत्येवं प्रथममहर्यथा मध्यन्दिन एवं द्वितीयं यथास्तमेत्येवं तृतीयं गच्छत्यमुष्यसायुज्यं गच्छति सावेश्यं य एवं वेद

२०.१.१ अतिरात्रस्तोम क्लृप्तिः

त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.१.२ अतिरात्र विधानं

ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेताभिक्रमो वा एष स्तोमानां अभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोति

२०.१.३ प्रकार त्रय कथनं

एषोऽग्निष्टोम एष उक्थ्य एषोऽतिरात्रोऽग्निष्टोमेन वै देवा इमं लोकं अभ्यजयन्नुक्थ्यैरन्तरिक्षं रात्र्यामुं लोकं अजयन्नहोरात्राभ्यां अभ्यवर्तन्त

२०.१.४ सन्धिस्तोत्रं

पराच्यो वा अन्या व्युच्छन्ति प्रतीच्योऽन्या एषा वाव प्रतीची व्युच्छति याश्विनेन व्युच्छति प्रतीचीरेवास्मा उषसो विवासयति

२०.१.५ स्तोत्रीया संख्या

द्वे संस्तुतानां विराजं अतिरिच्येते एषा वै स्तनवती विराट्यं कामं कामयते तं एतां दुग्धे

२०.१.६ सन्धिस्तोत्रगत स्तोमः

त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत्प्राणेनैव प्रैति प्राणं अभ्युदेति

२०.२.१ सर्व्वस्तोमातिरात्रः

त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.२.२ अधिकारि निरूपणं

सर्वस्तोमेनातिरात्रेण बुभूषन्यजेत सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं एवैतेनाप्नोति सर्वं जयति

२०.२.३ स्तोमच्छन्दोमौ

यत्त्रिवृद्बहिष्पवमानं भवति तत्त्रिवृतं स्तोमं आप्नोति गायत्रीं छन्दो यत्पञ्चदशान्याज्यानि तत्पञ्चदशं स्तोमं आप्नोति त्रिष्टुभं छन्दो यत्सप्तदशो माध्यन्दिनः पवमानस्तत्सप्तदशं स्तोमं आप्नोति जगतीं छन्दो यदेकविंशानि पृष्टानि तदेकविंशं स्तोमं आप्नोत्यनुष्टुभं छन्दो यत्त्रिणव आर्भवस्तत्त्रिणवं स्तोमं आप्नोति पङ्क्तिं छन्दो यत्त्रयस्त्रिंशोऽग्निष्टोमस्तत्त्रयस्त्रिंशं स्तोमं आप्नोति विराजं छन्दो यदुष्णिक्ककुभौ क्रियेते तदुष्णिक्ककुभावाप्नोति यदाश्विनं शस्यते तत्सर्वं एवैतेनाप्नोति सर्वं जयति

२०.२.४ पश्वैकादशिनी

प्राञ्चं वै त्रयस्त्रिंशो यज्ञं प्रभुजति तं अध्वर्युरेकादशिन्या पुरस्तात्प्रत्युद्यच्छत्येकादश रशना एकादश पशव एकादश यूपा भवन्ति तत्त्रयस्त्रिंशे त्रयस्त्रिंशं प्रतिष्ठापयति

२०.२.५ अनुष्ठायि वेदिनोः फलं

तया समुद्यतया रात्र्या यं यं कामं कामयते तं तं अभ्यश्नुते यं यं कामं कामयते तं तं अभ्यश्नुते य एवं वेद

२०.३.१ आप्तोर्यामक्रतुस्तोमः

त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं छन्दोमा इतराणि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं अथैकविंशं अथ सप्तदशं एकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिस्त्रिवृत्प्रथमं अतिरिक्तस्तोत्रं अथ पञ्चदशं अथ सप्तदशं अथैकविंशम्

२०.३.२ आप्तोर्याम नाम निर्व्वचनं

प्रजापतिः पशूनसृजत तेऽस्मात्सृष्टा अपाक्रामंस्तानग्निष्टोमेन नाप्नोत्तानुक्थैर्नाप्नोत्तान्षोडशिना नाप्नोत्तान्रात्र्या नाप्नोत्तान्सन्धिना नाप्नोत्तानाश्विनेन नाप्नोत्तानग्निं अब्रवीदिमान्म ईप्सेति तानग्निस्त्रिवृता स्तोमेन जराबोधीयेन साम्ना नाप्नोत्तानिन्द्रं अब्रवीदिमान्म ईप्सेति तानिन्द्रः पञ्चदशेन स्तोमेन सत्त्रासाहीयेन साम्ना नाप्नोत्तान्विश्वान्देवानब्रवीदिमान्म इप्सतेति तान्विश्वे देवाः सप्तदशेन स्तोमेन मार्गींयवेण साम्ना नाप्नुवंस्तान्विष्णुं अब्रवीदिमान्म ईप्सेति तान्विष्णुरेकविंशेन स्तोमेनाप्नोद्वारवन्तीयेनावारयतेदं विष्णुर्विचक्रम इति व्यक्रमत

२०.३.३ अधिकारि निरूपणं

यस्मात्प्र प्रेव पशवो भ्रंशेरन्स एतेन यजेत

२०.३.४ सर्व्वकाम प्राप्ति हेतुता

एतेन वै देवा जैत्वानि जित्वा यं यं कामं अकामयन्त तं तं आप्नुवन्यं कामं कामयते तं एतेनाप्नोति

२०.३.५ क्रतुनाम निर्व्वचनं

तदप्तोर्याम्नोऽप्तोर्यामत्वम्

२०.४.१ नवसप्तदशातिरात्रः

त्रिवृद्बहिष्पवमानं पञ्चदशं होतुराज्यं नवसप्तदशानि स्तोत्राण्येकविंशोऽग्निष्टोमः सोक्थः पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.४.२ अधिकारि निर्णयः

नवसप्तदशेनातिरात्रेण प्रजाकामो यजेत नव वै प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तदधि प्रजापतेः प्रजाः प्रजायन्ते

२०.४.३ स्तोत्रीया विशेषः

ककुभं प्राचीं उदूहति पुरुषो वै ककुप्गर्भो वा एष मध्यतो धीयते

२०.४.४ साकमश्व सामविशेषः

तस्यां साकमश्वम्

२०.४.५ साकमश्व सामविशेषः

प्रजापतिः प्रजा असृजत ता न प्राजायन्त स एतत्सामापश्यत्ता अश्वो भूत्वाभ्यजिघ्रत्ताः प्राजायन्त प्रजननं वा एतत्साम

२०.४.६ वेदन प्रशंसा

प्रजायते बहुर्भवति य एवं वेद

२०.४.७ द्विपदाऋच विधानं

द्विपदां ककुभो लोके करोति गर्भं एव तद्धितं मध्यतः प्रजनयति

२०.४.८ अतिरात्रत्व प्रशंसा

अतिरात्रो भवत्यहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवानु प्रजया पशुभिः प्रजायते

२०.५.१ विषुवदतिरात्र क्रतुः

त्रिवृत्बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सप्तदशान्युक्थानि पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.५.२ अधिकारि निर्णयः

विषुवतातिरात्रेण ज्येष्ठं ज्यैष्ठिनेयं याजयेद्विषुवान्वा एष स्तोमानां विषुवानेव भवति यदेक एकविंशो भवत्येकविंशो वा इतोऽसावादित्य द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका

२०.५.३ एकविंशस्तोम प्रशंसा

असावादित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति

२०.५.४ संख्यासाम्येनादित्यमहिमा

एष वा उदेति न वा एनं अन्यत्ज्योतिषां ज्योतिः प्रत्युदेति

२०.५.५ आदित्य महिमा वेदनं

नैनं अन्यः स्वेषु प्रत्युदेति य एवं वेद

२०.६.१ गोष्टोमातिरात्रः क्रतुः

पञ्चदशं बहिष्पवमानं त्रिवृन्त्याज्यानि सप्तदशं माध्यन्दिनं सवनं एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत्सन्धिर्गोष्टोमेनातिरात्रेण भ्रातृव्यवान्यजेत गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्त रात्र्यानपजय्यं अजयन्नेभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य रात्र्यानपजय्यं जयति

२०.७.१ आयुष्टोमातिरात्रक्रतुः

त्रिवृत्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनं एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत्सन्धिरायुष्टोमेनातिरात्रेण स्वर्गकामो यजेतोर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय यदतिरात्रो भवत्यहोरात्राभ्यां एव स्वर्गं लोकं एति

२०.८.१ अभिजिदतिरात्र क्रतुः

त्रिवृत्बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्य पञ्चदशं ब्राह्मणाच्छंसिनः सप्तदशं अच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुः पृष्ठं एकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन एकविंशं अच्छावकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत्सन्धिरभिजितातिरात्रेण भ्रातृव्यवान्यजेताभिजिता वै देवा असुरानिमान्लोकानभ्यजयत्रात्र्यानपजय्यं अजयन्नभिजितैव भ्रातृव्यं इमान्लोकानभिजित्य रात्र्यानपजय्यं जयति

२०.९.१ विश्वजिदतिरात्र क्रतुः

त्रिवृत्बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशं अच्छावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवं मैत्रावरुणस्य

२०.९.१

सप्तदशं ब्राह्मणाच्छंसिन एकविंशं अच्छावाकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिः त्रिवृत्सन्धिर्विश्वजितातिरात्रेण पशुकामो यजेत

२०.९.२ शस्त्रद्वारा पशुप्राप्तिः

रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन्नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस्तत्पशवः प्रजायन्ते रूपाणि विकरोति यद्वार्षाकपं ऋतुषु प्रतितिष्ठति यदेवयामरुत्

२०.१०.१ चतुरोतिरात्राः

त्रिवृतातिरात्रेण ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृत्ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसं अवरुन्धे तेजसि ब्रह्मवर्चसे प्रतितिष्ठति पञ्चदशेनातिरात्रेण वीर्यकामो यजेतौजो वीर्यं पञ्चदश ओज एव वीर्यं अवरुन्ध ओजसि वीर्ये प्रतितिष्ठति सप्तदशेनातिराच्रेणान्नाद्यकामो यजेतान्नं वै सप्तदशोऽन्नाद्यं एवावरुन्ध एकविंशेनातिरात्रेण प्रतिष्ठाकामो यजेत प्रतिष्ठा वा एकविंशो यदतिरात्रो भवत्यहोरात्रयोरेव प्रतितिष्ठति

२०.११.१ अङ्गिरसां द्विरात्र क्रतुः

ज्योतिष्टोमोऽग्निष्टोमः पूर्वं अहः सर्वस्तोमोऽतिरात्र उत्तरम्

२०.११.२ उत्तराह स्तोम क्लृप्तिः

तस्य चतुर्विंशं बहिष्पवमानं पञदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं अथैकविंशं अथ सप्तदशं एकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.११.३ सामद्वय विधानं

अङ्गिरसः स्वर्गं लोकं आयंस्तेषां हविष्मांश्च हविष्कृच्चाङ्गिरसावहीयेता तावागच्छेतां यतोऽङ्गिरसः स्वर्गं लोकं आयंस्तावतप्येतां तावेते सामनी अपश्यतां ताभ्यां द्विरात्रं अतन्वातां तेन स्वर्गं लोकं ऐताम्

२०.११.४ अधिकारि निरूपणं

यः पौण्यो हीन इव स्यात्स एतेन यजेताप्नोति पूर्वेषां प्रहां आप्नुतां हि तावङ्गिरसः

२०.११.५ फलान्तर कथनं

प्रजाकामो यजेत द्वितीयं ह्येतद्यत्प्रजाः

२०.११.६ फलान्तर कथनं

स्वर्गकामो यजेत द्वितीयाद्धि लोकात्परो लोकोऽभिप्रक्रम्यो दुराधो द्विरात्र इत्याहुर्यदग्निष्टोमः पूर्वं अहर्भवत्युक्थ्यं अन्तर्यन्ति यद्युक्थ्योऽग्निष्टोमम्

२०.११.७ आक्षेप परिहारौ

यज्ज्योतिरुक्थ्यः पूर्वं अहर्भवति नाग्निष्टोमं अन्तर्यन्ति नोक्थानि

२०.११.८ आक्षेप परिहारौ

तदाहुरेषा वाव यज्ञस्य मात्रा यदग्निष्टोमो यदग्निष्टोमः पूर्वं अहर्भवति यज्ञस्य मात्रां नातिक्रामत्यथोत्तरस्याह्न उक्थेभ्योऽधि रात्रिं उपयन्ति तेनोक्थान्यनन्तरितानि

२०.११.९ उत्तराह प्रथम स्तोमः

चतुर्विंशं बहिष्पवमानं भवत्युत्तरस्याह्नश्चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै

२०.११.१० सर्व्वस्तोम प्रशंसा

उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात्प्रजायते

२०.११.११ त्रिवृदादि स्तोमः

सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं एवैतेनाप्नोति सर्वं जयति

२०.१२.१ चैत्ररथ द्विरात्रक्रतुः

अथ यस्य ज्योतिरुक्थ्यः पूर्वं अहर्भवत्यायुरतिरात्र उत्तरम्

२०.१२.२ प्रजोत्पत्ति हेतुता

तिस्रः पूर्वस्याह्नो विराजं अतिरिच्यन्ते द्वाभ्यां उत्तरं अहर्विराज ऊनं ऊनातिरिक्तं वा अनुप्रजाः प्रजायन्ते

२०.१२.३ वेदन प्रशंसा

प्र प्रजया प्र पशुभिर्जायते य एवं वेद

२०.१२.४ वेदन प्रशंसा

एका संस्तुतानां विराजं अतिरिच्यते एकाकिनं एवैनं अन्नाद्यस्याध्यक्षं करोति

२०.१२.५ त्रैरथत्व सम्पादनं

एतेन वै चित्ररथं कापेया अयाजयंस्तं एकाकिनं अन्नाद्यस्याध्यक्षं अकुर्वंस्तस्माच्चैत्ररथीनां एकः क्षत्रपतिर्जायतेऽनुलम्ब इव द्वितीयः

२०.१३.१ कापिवन द्विरात्रक्रतुः

अथ यस्य त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वं अहर्भवत्यायुरतिरात्र उत्तरम्

२०.१३.२ प्रथमाह प्रशंसा

मिथुनाभ्यां स्तोमाभ्यां उत्तरं अहः प्रजनयन्ति तत्प्रजातं श्व आरभन्ते चक्रे वा एते साकंवृती यत्त्रिवृत्पञ्चदशौ स्तोमौ यं कामं कामयते तं एतेनाभ्यश्नुते यत्र यत्र हि चक्रीवता कामयते तत्तदभ्यश्नुते

२०.१३.३ द्वितीयाह प्रशंसा

अथ यदायुरतिरात्रो भवति प्रतिष्ठित्यै

२०.१३.४ कापिवनत्व प्रदर्शनं

एतेन वै कपिवनो भौवायन इष्ट्वारूक्षतां अगच्छत्

२०.१३.५ अनुष्ठान फलं

अरूक्षो भवति य एवं विद्वानेतेन यजते

२०.१४.१ गर्गत्रिरात्रक्रतुः

त्रिवृत्प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातःसवनं सप्तदशं माध्यन्दिनं सवनं एकविंशं तृतीयसवनं सोक्थं एकविंशं प्रातःसवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंश आर्भवश्चतुस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि षोडशं प्रथमं रात्रिषाम पञ्चदशी रात्रिस्त्रिवृत्सन्धिः

२०.१४.२ अहस्त्रय सृष्टिः ।

प्रजापतिर्वा इदं एक आसीत्तस्य वागेव स्वं आसीद्वाग्द्वितीया स ऐक्षतेमां एव वाचं विसृजा इयं वा इदं सर्वं विभवन्त्येष्यतीति स वाचं व्यसृजत सेदं सर्वं विभवन्त्यैत्सोर्ध्वोदातनोद्यथापां धारा सन्ततैवं तस्या एति तृतीयं अच्छिनत्तद्भूमिरभवदभूदिव वा इदं इति तद्भूमेर्भूमित्वं केति तृतीयं अच्छिनत्तदन्तरिक्षं अभवदन्तरेव वा इदं इति तदन्तरिक्षस्यान्तरिक्षत्वं हो इति तृतीयं ऊर्ध्वं उदास्यत्तत्द्यौरभवदद्युतदिव वा इति तद्दिवो दिवत्वम्

२०.१४.३ त्र्यक्षर च्छेद

एषा वाव प्रत्यक्षं वाग्यज्जिह्वाग्रेणैतद्वाचो वदति यदेति मध्येनैतद्वाचो वदति यत्केति सर्वयैतद्वाचो रसोऽध्यूर्ध्व उद्वदति यद्धो इति

२०.१४.४ अक्षरत्रय सृष्टि प्रशंसा

यदेतानि रूपाण्यन्वहं व्यज्यन्ते मुखत एव तद्वाचं विसृजन्ते मुखतो यज्ञियं कर्म

२०.१४.५ पुष्टि हेतुता

प्रजापतिर्वा इदं एकाक्षरां वाचं सतीं त्रेधा व्यकरोत्त इमे लोका अभवन्रूक्षा अनुपजीवनाः स ऐक्षत कथं इमे लोका लोम गृह्णीयुः कथं उपजीवनीयाः स्युरिति स एतं त्रिरात्रं अपश्यत्तं आहरत्तेनेमान्लोकानन्वातनोत्ततो वा इमे लोका लोमागृह्णंस्तत उपजीवनीया अभवंस्त्रिरात्रस्य वा इदं पुष्टं त्रिरात्रस्योदरणं यदिदं एषु लोकेष्वधि

२०.१४.६ वेदन प्रशंसा

गच्छति पशूनां भूमानं द्विपदां चतुष्पदां य एवं वेद

२०.१४.७ अक्षर शब्देन प्रशंसा

प्रजापतिर्यद्वाचं व्यसृजत साक्षरदेवेति प्रथमं क्षेति द्वितीयं रेति तृतीयं येन येन वै रूपेण प्रजापतिर्वाचं व्यसृजत तेन तेन रूपेणाज्यानि चारभ्यन्तेऽहानि चाप्यन्ते

२०.१३.८ पुरुषसादृश्य सम्पादनं

तदाहुर्ब्रह्मवादिनोऽक्षरेस्थो वै त्रिरात्र इत्येकाक्षरा वै वाक्त्र्यक्षरं अक्षरं त्र्यक्षरः पुरुषः स वा एनं वेदेत्याहुर्य एनं पुरुषसम्मितं वेदेति

२०.१५.१ गर्गत्रिरात्र स्तुतिः

एतेन वै देवा एषु लोकेष्वार्ध्नुवन्नेतेन स्वर्गं लोकमायन्

२०.१५.२ अक्षरादग्न्यादेरुत्पत्तिः

वाग्वै त्रिरात्रो वाचो रूपेणाज्यानि चाहानि च विभज्यन्त एकाक्षरा वै वाक्त्र्यक्षरं अक्षरं अक्षरस्य रूपेण विभज्यन्ते त्रयो गन्धर्वास्तेषां एषा भक्तिरग्नेः पृथिवी वायोरन्तरिक्षं असावादित्यस्य द्यौस्त्रयो घर्मास उषसं सचन्ते

२०.१५.३ मन्त्रार्थ विवेचनं

अग्निरुषसं सचते वायुरुषसं सचतेऽसावादित्य उषसं सचते

२०.१५.४ प्रसिद्धि कथनं

त्रीणि मिथुनानि तान्येषः

२०.१५.५ प्रसिद्धि कथनं

मिथुनं द्वे सम्भवतो मिथुनाद्यत्प्रजायते तत्तृतीयम्

२०.१५.६ सहस्र दक्षिणा

इन्द्रो वृत्राय वज्रं उदयच्छत्सोऽब्रवीन्मा मे प्रहर्षीरस्ति वा इदं मयि वीर्यं तत्ते प्रदास्यामीति तदस्मै प्रायच्छत्तद्विष्णुः प्रत्यगृह्णात्स द्वितीयं स तृतीयं उदयच्छत्स एवाब्रवीन्मा मे प्रहार्षीरस्ति वा इदं मयि वीर्यं तत्ते प्रदास्यामीति तदस्मै प्रायच्छत्तद्विष्णुः प्रत्यगृह्णादेतद्वाच तदभ्यनूच्यते

२०.१५.७ ऋगुदाहरणं

उभौ जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्च नैनोः इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वितद्(?) ऐरयेथां इति

२०.१५.८ वैयघिकरस्य निराशः

एतद्वा आभ्यां तत्सहस्रं प्रायच्छत्

२०.१५.९ प्रथमदिने प्रतिगृहीता

तस्यैषा भक्तिर्य आर्षेयो विद्वांस्तस्मै प्रथमेऽहनि देयं यथा वा इयं एवं स प्रतिष्ठितेयं प्रतिष्ठितः सः

२०.१५.१० द्वितीयदिने प्रतिगृहीता

योऽनार्षेयो विद्वांस्तस्मै द्वितीयेऽहनि देयं यथा वा अन्तरिक्षं एवं सोऽन्तरिक्षं इत्यन्तरिक्षं विदुर्वेदं तस्य विदुः

२०.१५.११ तृतीयदिने प्रतिगृहीता

य आर्षेयो विद्वांस्तस्मै तृतीयेऽहनि देयं यथा वै द्यौरेवं स द्यौरिति दिवं विदुर्बन्धु तस्य विदुः

२०.१५.१२ संख्या प्रशंसा

शतान्यन्वहं दीयन्ते एषा वाव यज्ञस्य मात्रा यच्छतं सैव साविच्छिन्ना दीयते दशतोऽन्वहं दीयन्ते दशाक्षरा विराड्वैराजो यज्ञः सैव सा विच्छिन्ना दीयते

२०.१५.१३ गवां दिनत्रय साम्यं

त्रयस्त्रिंशच्च त्रीणि च शतानि प्रथमेऽहनि देयास्तथा द्वितीये तथा तृतीये

२०.१५.१४ सहस्रतम्यां गोदानं

अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयं अग्नीधः

२०.१५.१५ अनुमन्त्रण मन्त्रः ।

काम्यासि प्रियासि हव्यासीडे रन्ते सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूतात्

२०.१६.१ पदार्थहेतुत्वेन द्विरात्र स्तुतिः

इदं वाव प्रथमेनाह्ना व्यकरोद्यदिदं अस्यां अध्यायत्त मूलं इदं द्वितीयेन यदिदं प्राणादेजत्यदस्तृतीयेन यद्वर्षति यन्नक्षत्राणि यदमुं लोकं भेजे

२०.१६.२ महाव्रतरूपतापादनं

तदाहुर्ब्रह्मवादिनो महाव्रतं वा एतद्यदेष त्रिरात्र इति तस्यै तदेव मुखं यदेतेषां अह्वां बहिष्पवमानं ये अभितोऽहनी तौ पक्षौ यन्मध्यमं अहः स आत्माग्निष्टोमसामानि पुच्छम्

२०.१६.३ मुखपुच्छ निरूपणं

यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यमं अहः स आत्माग्निः पुच्छम्

२०.१६.४ मुखपुच्छ निरूपणं

यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यमं अहः स आत्मा यदस्तं एति तत्पुच्छम्

२०.१६.५ त्रिरात्र भावना प्रदर्शनं

एतावान्वाव त्रिरात्रो गायत्रः प्राणस्त्रैष्टुभं चक्षुर्जागतं श्रोत्रं सर्वं आयुरेति य एवं वेद

२०.१६.६ त्रिरात्र महिमा

तदाहुर्ब्रह्मवादिनः कियांस्त्रिरात्र इतीयानिति ब्रूयादियद्धयेतदभ्यथो इयानिति ब्रूयादियद्धयेवैतदभिपरा३ङर्वा३ङित्याहुः पराङिति ब्रूयात्पराङ्हि वदति पराङ्पश्यति पराङ्प्राणित्येका३ द्वा३ उ त्रया३ इत्याहुरेक इति ब्रूयात्समानो ह्येष यत्प्राणोऽपानो व्यानस्तद्यथा वा अदो मणौ सूत्रं ओतं एवं एषु लोकेषु त्रिरात्र ओतः शोभतेऽस्य मुखं य एवं वेद

२०.१६.७ एकदेश वैलक्षण्यं

यद्वै त्रिरात्रस्य सलोम तदस्य विलोम यदस्य विलोम तदस्य सलोम तद्यदेतत्परं सदहरवरं क्रियते यजमानायैव तत्पशून्परिगृह्णाति प्रजननाय न ह्यमुष्मिन्लोके पशवः प्रजायन्ते

२०.१६.८ प्रकारान्तरेण प्रशंसा

एते वाव छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप्च यदेते अभितो भवतो मध्ये जगती वीर्यवतीभ्यां एव तच्छन्दोभ्यां पशून्परिगृह्णाति प्रजननाय न ह्यमुष्मिन्लोके पशवः प्रजायन्ते

२०.१६.९ आदित्य रूपेण ध्यानं

असौ वाव त्रिरात्रो यथोदेत्येवं प्रथमं अहर्यथा मध्यन्दिन एवं द्वितीयं यथास्तं एत्येवं तृतीयं गच्छत्यमुष्यसायुज्यं गच्छति सावेश्यं य एवं वेद