पञ्चविंशब्राह्मणम्/अध्यायः १९

विकिस्रोतः तः
क्रतुद्वन्द्व विधानम्

19.1
अथैष राट्
यो राज्य आशंसमानो राज्यं न प्राप्नुयात् स एतेन यजेत राजैवैनं राजानं करोति तं तु वैराजेति वदेयुर्यं राजा राजानं कुर्याद्राजैवैनं राजानं करोति
छन्दोऽन्ये यज्ञाः संपद्यन्ते स्तोममेष वीर्यं वै स्तोमो वीर्य एवाध्यभिषिच्यते
अष्टावेकविंशाः संस्तुतो भवत्यष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा राष्ट्रं समुद्यच्छन्त्येतेष्वेवाध्यभिषिच्यते
क्षत्रं वा एकविंशः प्रतिष्ठा क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद
19.2
अथैष विराडन्नाद्यकामो यजेत
परोक्षमन्ये यज्ञा विराजं संपद्यन्ते प्रत्यक्षमेष विराजं संपन्नः
प्रत्यक्षमेतेनान्नाद्यमवरुन्धेऽन्नादो भवति य एवं वेद
सर्वो दशदशी भवति दशाक्षरा विराड्वैराजमन्नमन्नाद्यस्यावरुध्यै
ता उ पञ्च पञ्च भवन्ति पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञ एव पशुषु प्रतितिष्ठति
एतेनैव प्रतिष्ठाकामो यजेत दशभिर्वा इदं पुरुषः प्रतिष्ठितोऽस्यामेव प्रतितिष्ठति
19.3
अथैष औपशदः
गन्धर्वाप्सरसां स्तोमः प्रजाकामो यजेत गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वाप्रजस्ताया वेशते तेषामत्र सोमपीथस्तान् स्वेन भागधेयेन प्रीणाति तेऽस्मै तृप्ताः प्रीताः प्रजां प्रयच्छन्ति
एकैका स्तोत्रीयोपजायते प्रजामेवास्मा उपजनयति
ककुभं प्राचीमुदूहति पुरुषो वै ककुब्गर्भ एव स मध्यतो धीयते
अथ यदेषा द्विपदा ककुभो लोके क्रियते गर्भ एव तद्धि तं प्रजनयति
च्यावनं भवति प्रजातिर्वै च्यावनम्
प्रजायते बहुर्भवति य एवं वेद
वसिष्ठस्य जनित्रे भवतो वसिष्ठो वा एते पुत्रहतः सामनी अपश्यत् स प्रजया पशुभिः प्राजायत यदेते सामनी भवतः प्रजात्यै
द्वे संस्तुतानां विराजमतिरिच्येते द्वे स्त्रिया ऊने प्रजननाय प्रजननमेव तत् क्रियते प्रजात्यै
19.4
अथैष पुनःस्तोमः
यो बहु प्रतिगृह्य गरगीरिव मन्येत स एतेन यजेत
यैकादशी यदेव पूर्ववयसे बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति प्रातःसवनाय तन्निहरति
अथ या द्वादशी यदेवोत्तरवयसे बहु प्रतिगृह्णति यद्गरं गिरति यदनन्नमत्ति तृतीयसवनाय तन्निहरति
वैराजो वै पुरुषः स मध्यतोऽशुद्धो मध्यत एवैनं पाप्मनो मुञ्चति
शुद्धाशुद्धीये भवतः
इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् सोऽशुद्धोऽमन्यत स एते शुद्धाशुद्धीये अपश्यत् ताभ्यामशुध्यत्
यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति यदशुद्धो मन्यते तदेताभ्यां शुध्यति
गौषूक्तं चाश्वसूक्तं च भवतः
गौषूक्तिश्चाश्वसूक्तिश्च बहु प्रतिगृह्य गरगिरावमन्येतां तावेते सामनी अपश्यतां ताभ्यां गरं निरघ्नाताम्
यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति तदेताभ्यां निर्हते
पञ्चदश स्तोत्राणि भवन्त्योजो वीर्यं पञ्चदशः पाप्मन एवैनं मुक्त्वौजसा वीर्येण समर्धयति
19.5
अथैष चतुष्टोमः
पशुकामो यजेत
यच्चतसृभिर्बहिष्पवमानं भवति चतुष्पादाः पशवः पशूनेवावरुन्धे
यदष्टाभिराज्यान्यष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति
यत् द्वादशो माध्यन्दिनः पवमानो द्वादश मासाः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवावरुन्धे
यत् षोडशानि पृष्ठानि षोडश कलाः पशवः कलाशस्तत् पशूनाप्नोति
यद्विंश आर्भवः पाङ्क्तत्वमेषां तदाप्नोति
यच्चतुर्विंशोऽग्निष्टोमश्चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
एकं साम बहूनि छन्दांसि तस्मादेको बहून् पोषान् पुष्यति
आत्मा वा अग्निष्टोमः पशवश्छन्दांस्यात्मन्येव तत् पशून् प्रतिष्ठापयति नोक्थो नाग्निष्टोमो न हि ग्राम्याः पशवो नारण्याः
19.6
अथ यस्य चत्वारि स्तोत्राणि चतसृभिश्चत्वार्यष्टाभिश्चत्वारि द्वादशभिश्चत्वारि षोडशभिः स गां नातिवदति
षोडशकलाः पशवः कलाशस्तत् पशून् [Kष्ष्। Bई प्रशून्] आप्नोति
उक्थ्यः षोडशिमान् भवति पशवो वा उक्थानि वज्रः षोडशी वज्रेणैवास्मै पशून् परिगृह्णात्यनपक्रामुका अस्मात् पशवो भवन्ति नोक्थो नातिरात्रो न हि ग्राम्याः पशवो नारण्याः
19.7
असुराणां वै बलस्तमसा प्रावृतोऽश्मापिधानश्चासीत् तस्मिन् गव्यं वस्वन्तरासीत् तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमान्न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद्बलभिदाभिनत् तानुत्सेधेनैवोदसृजन्निषेधेन पर्यगृह्णात्
पशुकामो यजेत
यदुद्भिदा यजेत बलमेवस्मै विच्यावयति यद्बलभिदा बलमेवास्मै भिनत्ति
उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशूनुत्सिध्य निषेधेन परिगृह्णाति
यज्ञ इन्द्रमवर्धयद्"इति ब्रह्मण आज्यं रूपेण समृद्धम्
सप्तिसप्तदशौ भवतो यत् सप्तभिः स्तुवन्ति सप्त ग्राम्याः पशवः पशूनेवावरून्धे सप्तपदा शक्वरी पशवः शक्वरी पशूनेवावरून्धेऽथ यत् सप्तदशभिः प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
19.8
अथैषोऽपचितिरपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति
तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेजसैवास्मै ब्रह्मवर्चसेनापचितिं विन्दति
उभे बृहद्रथन्तरे भवत उभाभ्यामेवास्मै बृहद्रथन्तराभ्यामपचितिं विन्दति
भर्गयशसी भवतो भर्गेणैवास्मै भर्गो दधाति यशसा यशः
उभये स्तोमा युग्मन्तश्चायुजश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति
तदाहुर्विलोमान स्तोमा ईश्वरा यजमानं विक्षेतोर्वि ह्यतियन्तीति
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
19.9
अथैष सर्वस्तोमोऽपचितिरपचितिकामो यजेत सर्वैरेवास्मै स्तोमैरपचितिं विन्दति
विराजं संपद्यत एष वा अपचितो योऽन्नादोऽन्नं विराडन्नाद्यमेवास्मिन् दधाति
उभे बृहद्रथन्तरे भवतो भर्गयशसी भवत उभये स्तोमाश्छन्दोमाश्च पृष्ठ्याश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति
तस्य छन्दोमाः पृष्ठानि पशवो वै छन्दोमा अन्नं पृष्ठान्यभिपूर्वमेवास्मिन्नन्नाद्यं पशून् दधाति यच्छन्दोमवांस्तेन द्वादशाहयाजिनमाप्नोति
तदाहुर्नानालोकाः स्तोमाश्छन्दोमाश्च पृष्ठ्याश्च यदेकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो [चोर्र्. Cअलन्द्॑ Bई । Kष्षीश्वरा] यजमानोऽप्रतिष्ठातोरिति
एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशः प्रतिष्ठामेव तदभ्यायन्ति
19.10
पक्षी वा एष स्तोमः
पक्ष्येष निधीयते
न वा अपक्षः पक्षिणमाप्नोत्यथ यदेष पक्ष्यपक्षिणि निधीयते तस्मात् पक्षिणः पक्षैः पतन्ति
पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
त्रिवृतावभितो भवतस्तेजो ब्रह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसमवरुन्धे
अथ पञ्चदशौ वीर्यं वै पञ्चदशो वीर्यमेवावरुन्धे
अथ सप्तदशौ पशवो वै सप्तदशः पशूनेवावरुन्धे
अथैकविंशौ प्रतिष्ठा वा एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
अथ त्रिणवाविमे वै लोकास्त्रिणव एष्वेव लोकेषु प्रतितिष्ठति
अथ त्रयस्त्रिंशो वर्ष्म वै त्रयस्त्रिंशः
वर्ष्म स्वानां भवति य एवं वेद
एष वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपमारोहति
मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति
19.11
अथैष ज्योतिः
तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि चतुर्विंशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि
प्राणो वै त्रिवृदात्मा पञ्चदशः
मुखं गायत्र्यन्नं वै सप्तदशो मुखत एव तदन्नं धत्ते
अन्नमत्त्यन्नादो भवति य एवं वेद
माध्यन्दिनेन वै पवमानेन देवाः स्वर्गं लोकमायन् यदेष चतुर्विंशो माध्यन्दिनः पवमानो भवति स्वर्गस्य लोकस्याक्रान्त्यै चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
पक्षि वा एतच्छन्दः पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
एका संस्तुतानां विराजमतिरिच्यत एकाकिनमेवैनमन्नाद्यस्याध्यक्षं करोति
ज्योतिर्वा एषोऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते
19.12
अथैष ऋषभः(आर्षेयकल्पः, अध्यायः ५, पृ. २७१)
ऋषभो वा एष स्तोमानामृषभतां गच्छति य एवं वेद
राजन्यं याजयेदृषभो वै पशूनामधिपती राजन्यो मनुष्याणाम्
यो वा अस्ति सोऽधिपतिः
अधिपतिः समानानां भवति य एवं वेद
तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशमेवास्मै सवनाभ्यां परिगृह्णात्यनपक्रामुकास्माद्विड्भवति
समन्तं भवति समन्तामेवास्मै विशं करोत्यनपक्रामुकास्माद्विड्भवति
उभे बृहद्रथन्तरे भवत इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्र्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति
अनुष्टुभि बृहद्भवत्यन्तो वा अनुष्टुप्छन्दसामन्तो बृहत् साम्नामन्तो राजन्यो मनुष्याणामन्त एव तदन्तं प्रतिष्ठापयति तस्माद्यो राजन्यानां हीयते न स पुनरग्रं पर्येति
19.13
यो वै वाजपेयः स राजसूयो यो राजसूयः स वरुणसवोऽथैष गोसवः स्वाराज्यो वा एष यज्ञः
स्वाराज्यं गच्छति य एवं वेद
प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
परमेष्ठितां गच्छति य एवं वेद
उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
अयुतं दक्षिणास्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
प्रतिदुहाभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
बृहतः स्तोत्र प्रत्यभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
अनुद्धते दक्षिणत आहवनीयस्याभिषिच्यतेऽस्यामेवानन्तर्हितेऽध्यभिषिच्यते
सर्वः षट्त्रिंशस्तेन गोसवः
19.14
अथैष मरुत्स्तोम एतेन वै मरुतोऽपरिमितां पुष्टिमपुष्यन्नपरिमितां पुष्टिं पुष्यति य एवं वेद
यद्गणशः स्तोमास्तेन मरुत्स्तोमो गणशो हि मरुतः
एतेनैव त्रीन् याजयेत्
यत् त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठन्ति
यत् त्रीणि पञ्चदशानि नाना वीर्ये
यत् त्रीणि सप्तदशानि नाना पशुषु
यत् त्रीण्येकविंशानि नाना प्रतितिष्ठन्ति
प्रतितिष्ठति य एवं वेद
19.15
अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो वा यजेत प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलायमेव भवति
एतेनैव द्वौ याजयेत्
यत् षट्त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठतो यत् द्वे पञ्चदशे नाना वीर्ये यत् द्वे सप्तदशे नाना पशुषु यत् द्वे एकविंशे नाना प्रतितिष्ठतः प्रतितिष्ठति य एवं वेद
19.16
अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः
एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवति य एवं वेद
राजन्यं याजयेत्
सर्वः पञ्चदशो भवत्योजो वीर्यं पञ्चदश ओजसैवैनं वीर्येण समर्धयति
ऐन्द्रीषु भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयति
उक्थ्यो भवति पशवो वा उक्थानि विडुक्थानि विशमेवास्मै पशूननुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
पञ्चदश स्तोत्राणि पञ्चदशानि भवन्त्योजो वीर्यं पञ्चदशोऽभिपूर्वमेवास्मिन्नोजो वीर्यं दधाति
19.17
अथैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवति य एवं वेद
त्रिवृत् पञ्चदशो भवति
ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशो ब्रह्मण इव चास्य क्षत्रस्येव च प्रकाशो भवति य एवं वेद
राजा च पुरोहितश्च यजेयाताम्
गायत्रीं च जगतीं च संपद्यते
तेजो ब्रह्मवर्चसं गायत्र्या ब्राह्मणोऽवरुन्धे विशं राजा जगत्या प्रविशति
पुरोधाकामो यजेत
बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति स एतेनायजत स देवानां पुरोधामगच्छद्गच्छति पुरोधां य एवं वेद
19.18
अथैष विघनः
इन्द्रोऽकामयत पाप्मानं भ्रातृव्यं विहन्यामिति स एतं विघनमपश्यत् तेन पाप्मानं भ्रातृव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद
यत् त्रिवृद्भवति प्राणांस्तेनावरुन्धे यत् द्वादशः संवत्सरं तेन यत् पञ्चदशो वीर्यं तेन यत् सप्तदशोऽन्नाद्यं तेन यदेकविंशः प्रतिष्ठा तेन यन्नवदशः प्रजननं तेन यच्चतुर्विंशो ब्रह्मवर्चसं तेन यत् त्रिणवो वज्रं भ्रातृव्याय प्रहरति
पशुकामो यजेत बृहतीं संपद्यते पशवो वै बृहती पशूनेवावरुन्धे
षडेता बृहत्यो भवन्ति षडृतवः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवाप्त्वावरुन्धे
19.19
इन्द्रमदेव्यो माया अयचन्त स प्रजापतिमुपाधाववत् तस्मा एतं विघनं प्रायच्छत् तेन सर्वा मृधो व्यहत यद्व्यहत तद्विघनस्य विघनत्वम्
सर्वा मृधो विहते य एवं विद्वान् विघनेन यजते यमेवं विद्वान् विघनेन याजयति
पशुकामो यजेत पशवो वै बृहती पशुष्वेव प्रतितिष्ठति

१९.१.१ राट् क्रतु विधिः

अथैष राट्

१९.१.२ राट् क्रतु विधिः

यो राज्य आशंसमानो राज्यं न प्राप्नुयात्स एतेन यजेत राजैवैनं राजानं करोति तं तु वैराजेति वदेयुर्यं राजा राजानं कुर्याद्राजैवैनं राजानं करोति

१९.१.३ राट् क्रतु विधिः

छन्दोऽन्ये यज्ञाः संपद्यन्ते स्तोमं एष वीर्यं वै स्तोमो वीर्य एवाध्यभिषिच्यते

१९.१.४ राट्क्रतु स्तोमः

अष्टावेकविंशाः संस्तुतो भवत्यष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा राष्ट्रं समुद्यच्छन्त्येतेष्वेवाध्यभिषिच्यते

१९.१.५ ?

क्षत्रं वा एकविंशः प्रतिष्ठा क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद

१९.२.१ राट् क्रतुविशेषः

अथैष विराडन्नाद्यकामो यजेत

१९.२.२ राट् क्रतु विशेषः

परोक्षं अन्ये यज्ञा विराजं संपद्यन्ते प्रत्यक्षं एष विराजं संपन्नः

१९.२.३ तद्वेदन प्रशंसा

प्रत्यक्षं एतेनान्नाद्यं अवरुन्धेऽन्नादो भवति य एवं वेद

१९.२.४ प्रति स्तोत्र दशसंख्या विधानं

सर्वो दशदशी भवति दशाक्षरा विराड्वैराजं अन्नं अन्नाद्यस्यावरुध्यै

१९.२.५ सम भागेन विभागः

ता उ पञ्च पञ्च भवन्ति पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञ एव पशुषु प्रतितिष्ठति

१९.२.६ अधिकारि निर्णयः

एतेनैव प्रतिष्ठाकामो यजेत दशभिर्वा इदं पुरुषः प्रतिष्ठितोऽस्यां एव प्रतितिष्ठति

१९.३.१ औपसद् क्रतु विधानं

अथैष औपशदः

१९.३.२ प्रजोत्पादनं फलं

गन्धर्वाप्सरसां स्तोमः प्रजाकामो यजेत गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वाप्रजस्ताया वेशते तेषां अत्र सोमपीथस्तान्स्वेन भागधेयेन प्रीणाति तेऽस्मै तृप्ताः प्रीताः प्रजां प्रयच्छन्ति

१९.३.३ क्रतु विषये विधिः

एकैका स्तोत्रीयोपजायते प्रजां एवास्मा उपजनयति

१९.३.४ क्रतु विषये विधिः

ककुभं प्राचीं उदूहति पुरुषो वै ककुब्गर्भ एव स मध्यतो धीयते

१९.३.५ क्रतु विषये विधिः

अथ यदेषा द्विपदा ककुभो लोके क्रियते गर्भ एव तद्धि तं प्रजनयति

१९.३.६ च्यावन साम विधानं

च्यावनं भवति प्रजातिर्वै च्यावनम्

१९.३.७ तद्वेदन प्रशंसनं

प्रजायते बहुर्भवति य एवं वेद

१९.३.८ सामद्धय विधानं

वसिष्ठस्य जनित्रे भवतो वसिष्ठो वा एते पुत्रहतः सामनी अपश्यत्स प्रजया पशुभिः प्राजायत यदेते सामनी भवतः प्रजात्यै

१९.३.९ स्तोत्रीयासंख्या प्रशंसा

द्वे संस्तुतानां विराजं अतिरिच्येते द्वे स्त्रिया ऊने प्रजननाय प्रजननं एव तत्क्रियते प्रजात्यै

१९.४.१ स्तोम क्रतु विधानं

अथैष पुनःस्तोमः

१९.४.२ अधिकारि प्रदर्शनं

यो बहु प्रतिगृह्य गरगीरिव मन्येत स एतेन यजेत

१९.४.३ स्तोत्रीया फलं

यैकादशी यदेव पूर्ववयसे बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नं अत्ति प्रातःसवनाय तन्निहरति

१९.४.४ स्तोत्रीया फलं

अथ या द्वादशी यदेवोत्तरवयसे बहु प्रतिगृह्णति यद्गरं गिरति यदनन्नं अत्ति तृतीयसवनाय तन्निहरति

१९.४.५ स्तोत्रीया फलं

वैराजो वै पुरुषः स मध्यतोऽशुद्धो मध्यत एवैनं पाप्मनो मुञ्चति

१९.४.६ साम द्वय विधानं

शुद्धाशुद्धीये भवतः

१९.४.७ साम द्वय विधानं

इन्द्रो यतीन्सालावृकेयेभ्यः प्रायच्छत्तं अश्लीला वागभ्यवदत्सोऽशुद्धोऽमन्यत स एते शुद्धाशुद्धीये अपश्यत्ताभ्यां अशुध्यत्

१९.४.८ साम द्वय विधानं

यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नं अत्ति यदशुद्धो मन्यते तदेताभ्यां शुध्यति

१९.४.९ साम द्वय विधानं

गौषूक्तं चाश्वसूक्तं च भवतः

१९.४.१० सामद्वय प्रशंसा

गौषूक्तिश्चाश्वसूक्तिश्च बहु प्रतिगृह्य गरगिरावमन्येतां तावेते सामनी अपश्यतां ताभ्यां गरं निरघ्नाताम् यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नं अत्ति तदेताभ्यां निर्हते

१९.४.११ उक्थ संस्था विधानं

पञ्चदश स्तोत्राणि भवन्त्योजो वीर्यं पञ्चदशः पाप्मन एवैनं मुक्त्वौजसा वीर्येण समर्धयति

१९.५.१ चतुष्टोम क्रतु विधानं

अथैष चतुष्टोमः

१९.५.२ अधिकारि निरूपणं

पशुकामो यजेत

१९.५.३ स्तोमसंख्या प्रशंसा

यच्चतसृभिर्बहिष्पवमानं भवति चतुष्पादाः पशवः पशूनेवावरुन्धे

१९.५.४ स्तोमसंख्या प्रशंसा

यदष्टाभिराज्यान्यष्टाशफाः पशवः शफशस्तत्पशूनाप्नोति

१९.५.५ स्तोमसंख्या प्रशंसा

यत्द्वादशो माध्यन्दिनः पवमानो द्वादश मासाः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवावरुन्धे

१९.५.६ स्तोमसंख्या प्रशंसा

यत्षोडशानि पृष्ठानि षोडश कलाः पशवः कलाशस्तत्पशूनाप्नोति

१९.५.७ स्तोमसंख्या प्रशंसा

यद्विंश आर्भवः पाङ्क्तत्वं एषां तदाप्नोति

१९.५.८ स्तोमसंख्या प्रशंसा

यच्चतुर्विंशोऽग्निष्टोमश्चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे

१९.५.९ स्तोमसंख्या प्रशंसा

प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते

१९.५.१० स्तोमसंख्या प्रशंसा

एकं साम बहूनि छन्दांसि तस्मादेको बहून्पोषान्पुष्यति

१९.५.११ स्तोमसंख्या प्रशंसा

आत्मा वा अग्निष्टोमः पशवश्छन्दांस्यात्मन्येव तत्पशून्प्रतिष्ठापयति नोक्थो नाग्निष्टोमो न हि ग्राम्याः पशवो नारण्याः

१९.६.१ द्वितीय चतुष्टोम क्रतुः

अथ यस्य चत्वारि स्तोत्राणि चतसृभिश्चत्वार्यष्टाभिश्चत्वारि द्वादशभिश्चत्वारि षोडशभिः स गां नातिवदति

१९.६.२ षोडशसंख्या प्रशंसा

षोडशकलाः पशवः कलाशस्तत्पशून्[KSS& Bीः प्रशून्] आप्नोति

१९.६.३ उपरितन संख्या प्रशंसा

उक्थ्यः षोडशिमान्भवति पशवो वा उक्थानि वज्रः षोडशी वज्रेणैवास्मै पशून्परिगृह्णात्यनपक्रामुका अस्मात्पशवो भवन्ति नोक्थो नातिरात्रो न हि ग्राम्याः पशवो नारण्याः

१९.७.१ उद्भिद्बलभित् क्रतुः

असुराणां वै बलस्तमसा प्रावृतोऽश्मापिधानश्चासीत्तस्मिन्गव्यं वस्वन्तरासीत्तं देवा नाशक्नुवन्भेत्तुं ते बृहस्पतिं अब्रुवन्निमान्न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद्बलभिदाभिनत्तानुत्सेधेनैवोदसृजन्निषेधेन पर्यगृह्णात्

१९.७.२ उभयोरधिकारि निर्णयः

पशुकामो यजेत

१९.७.३ उभयोरुपयोगः

यदुद्भिदा यजेत बलं एवस्मै विच्यावयति यद्बलभिदा बलं एवास्मै भिनत्ति

१९.७.४ पशुलाभाय सामद्वय विधानं

उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशूनुत्सिध्य निषेधेन परिगृह्णाति

१९.७.५ यजमानार्थमन्यत् सामद्वयं

ऽऽयज्ञ इन्द्रं अवर्धयद्ऽऽ इति ब्रह्मण आज्यं रूपेण समृद्धम्

१९.७.६ संज्ञा विशेष सम्पादनं

सप्तिसप्तदशौ भवतो यत्सप्तभिः स्तुवन्ति सप्त ग्राम्याः पशवः पशूनेवावरून्धे सप्तपदा शक्वरी पशवः शक्वरी पशूनेवावरून्धेऽथ यत्सप्तदशभिः प्रजापतिर्वै सप्तदशः प्रजापतिं एवाप्नोति

१९.७.७ संख्याद्वय प्रशंसा

गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते

१९.८.१ अपचित्याख्य क्रतु विधानं

अथैषोऽपचितिरपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति

१९.८.२ स्तोमविशेषविधानं

तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेजसैवास्मै ब्रह्मवर्चसेनापचितिं विन्दति

१९.८.३ पृष्ठस्तोत्रे सामद्धयं

उभे बृहद्रथन्तरे भवत उभाभ्यां एवास्मै बृहद्रथन्तराभ्यां अपचितिं विन्दति

१९.८.४ पृष्ठस्तोत्रे सामद्धयं

भर्गयशसी भवतो भर्गेणैवास्मै भर्गो दधाति यशसा यशः

१९.८.५ स्तोम प्रशंसा

उभये स्तोमा युग्मन्तश्चायुजश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति

१९.८.६ ब्रह्मवादिनामाक्षेप समाधानं

तदाहुर्विलोमान स्तोमा ईश्वरा यजमानं विक्षेतोर्वि ह्यतियन्तीति

१९.८.७ ब्रह्मवादिनामाक्षेप समाधानं

एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१९.९.१ द्वितीयापचितिः

अथैष सर्वस्तोमोऽपचितिरपचितिकामो यजेत सर्वैरेवास्मै स्तोमैरपचितिं विन्दति

१९.९.२ स्तोत्रीया संख्या प्रशंसा

विराजं संपद्यत एष वा अपचितो योऽन्नादोऽन्नं विराडन्नाद्यं एवास्मिन्दधाति

१९.९.३ साम युग्म विधानं

उभे बृहद्रथन्तरे भवतो भर्गयशसी भवत उभये स्तोमाश्छन्दोमाश्च पृष्ठ्याश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति

१९.९.४ स्तोम प्रशंसा

तस्य छन्दोमाः पृष्ठानि पशवो वै छन्दोमा अन्नं पृष्ठान्यभिपूर्वं एवास्मिन्नन्नाद्यं पशून्दधाति यच्छन्दोमवांस्तेन द्वादशाहयाजिनं आप्नोति

१९.९.५ ब्रह्मवाद्याक्षेप परिहारौ

तदाहुर्नानालोकाः स्तोमाश्छन्दोमाश्च पृष्ठ्याश्च यदेकस्मिन्यज्ञक्रतौ समवरुध्यन्त ईश्वरो [चोर्र्. Cअलन्द्; Bी & KSSईश्वरा] यजमानोऽप्रतिष्ठातोरिति

१९.९.६ ब्रह्मवाद्याक्षेप परिहारौ

एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशः प्रतिष्ठां एव तदभ्यायन्ति

१९.१०.१ पक्ष्याख्य क्रतु विधानं

पक्षी वा एष स्तोमः

१९.१०.२ पक्षि नामानुकूलं साम

पक्ष्येष निधीयते

१९.१०.३ सम्बन्धोपपादनं

न वा अपक्षः पक्षिणं आप्नोत्यथ यदेष पक्ष्यपक्षिणि निधीयते तस्मात्पक्षिणः पक्षैः पतन्ति

१९.१०.४ तद्वेदन प्रशंसा

पक्षी ज्योतिष्मान्पुण्यान्लोकान्संचरति य एवं वेद

१९.१०.५ स्तोम विधानं

त्रिवृतावभितो भवतस्तेजो ब्रह्मवर्चसं त्रिवृत्तेज एव ब्रह्मवर्चसं अवरुन्धे

१९.१०.६ स्तोत्र विशेषः

अथ पञ्चदशौ वीर्यं वै पञ्चदशो वीर्यं एवावरुन्धे

१९.१०.७ स्तोम विशेषः

अथ सप्तदशौ पशवो वै सप्तदशः पशूनेवावरुन्धे

१९.१०.८ स्तोम विशेषः

अथैकविंशौ प्रतिष्ठा वा एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति

१९.१०.९ स्तोम विशेषः

अथ त्रिणवाविमे वै लोकास्त्रिणव एष्वेव लोकेषु प्रतितिष्ठति

१९.१०.१० स्तोम विशेषः

अथ त्रयस्त्रिंशो वर्ष्म वै त्रयस्त्रिंशः

१९.१०.११ तद्वेदन कथनं

वर्ष्म स्वानां भवति य एवं वेद

१९.१०.१२ त्रयस्त्रिंश प्रशंसा

एष वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं आरोहति

१९.१०.१३ स्तोम प्रशंसा

मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते

१९.१०.१४ स्तोम प्रशंसा

त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत्प्राणेनैव प्रैति प्राणं अभ्युदेति

१९.११.१ ज्योतिः क्रतु विधानं

अथैष ज्योतिः

१९.११.२ स्तोम विधानं

तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि चतुर्विंशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि

१९.११.३ स्तोम प्रशंसा

प्राणो वै त्रिवृदात्मा पञ्चदशः

१९.११.४ स्तोम प्रशंसा

मुखं गायत्र्यन्नं वै सप्तदशो मुखत एव तदन्नं धत्ते

१९.११.५ वेदन प्रशंसा

अन्नं अत्त्यन्नादो भवति य एवं वेद

१९.११.६ माष्यन्दिन पवमान स्तोमः

माध्यन्दिनेन वै पवमानेन देवाः स्वर्गं लोकं आयन्यदेष चतुर्विंशो माध्यन्दिनः पवमानो भवति स्वर्गस्य लोकस्याक्रान्त्यै चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसं अवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते

१९.११.७ सर्व्वस्तोम मेलनं

उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात्प्रजायते

१९.११.८ सौपर्णस्य पक्षित्वं

पक्षि वा एतच्छन्दः पक्षी ज्योतिष्मान्पुण्यान्लोकान्संचरति य एवं वेद

१९.११.९ प्रौढत्वं

मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते

१९.११.१० प्रौढत्वं

एका संस्तुतानां विराजं अतिरिच्यत एकाकिनं एवैनं अन्नाद्यस्याध्यक्षं करोति

१९.११.११ अस्य ज्योतिर्नामत्वं

ज्योतिर्वा एषोऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते

१९.१२.१ ऋषभाख्य क्रतु विधानं

अथैष ऋषभः(आर्षेयकल्पः, अध्यायः ५, पृ. २७१)
१९.१२.२ ऋषभाख्य क्रतु विधानं
ऋषभो वा एष स्तोमानां ऋषभतां गच्छति य एवं वेद

१९.१२.३ अधिकारि निरूपणं

राजन्यं याजयेदृषभो वै पशूनां अधिपती राजन्यो मनुष्याणाम् यो वा अस्ति सोऽधिपतिः

१९.१२.४ विप्रं परित्यज्य पक्षपातकारणं

अधिपतिः समानानां भवति य एवं वेद

१९.१२.५ साम विशेषविधानं

तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशं एवास्मै सवनाभ्यां परिगृह्णात्यनपक्रामुकास्माद्विड्भवति

१९.१२.६ साम विशेषविधानं

समन्तं भवति समन्तां एवास्मै विशं करोत्यनपक्रामुकास्माद्विड्भवति

१९.१२.७ साम विशेषविधानं

उभे बृहद्रथन्तरे भवत इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्र्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति

१९.१२.८ बृहत् सामाश्रय विधानं

अनुष्टुभि बृहद्भवत्यन्तो वा अनुष्टुप्छन्दसां अन्तो बृहत्साम्नां अन्तो राजन्यो मनुष्याणां अन्त एव तदन्तं प्रतिष्ठापयति तस्माद्यो राजन्यानां हीयते न स पुनरग्रं पर्येति

१९.१३.१ गोसवक्रतुविधानं

यो वै वाजपेयः स राजसूयो यो राजसूयः स वरूणसवोऽथैष गोसवः स्वाराज्यो वा एष यज्ञः

१९.१३.२ तद्वेदन प्रशंसा

स्वाराज्यं गच्छति य एवं वेद

१९.१३.३ स्वाराज्य शब्दार्थः

प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्

१९.१३.४ प्रजापति परमेष्ठ्योरभेदः

परमेष्ठितां गच्छति य एवं वेद

१९.१३.५ पृष्ठ स्तोत्रे सामद्वयं

उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद

१९.१३.६ दक्षिणा विशेषः

अयुतं दक्षिणास्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद

१९.१३.७ अभिषेक साधन द्रव्यं

प्रतिदुहाभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद

१९.१३.८ अभिषेक कालः

बृहतः स्तोत्र प्रत्यभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद

१९.१३.९ अभिषेक देशः

अनुद्धते दक्षिणत आहवनीयस्याभिषिच्यतेऽस्यां एवानन्तर्हितेऽध्यभिषिच्यते

१९.१३.१० स्तोम विशेष विधानं

सर्वः षट्त्रिंशस्तेन गोसवः

१९.१४.१ मरुत् स्तोम क्रतुः

अथैष मरुत्स्तोम एतेन वै मरुतोऽपरिमितां पुष्टिं अपुष्यन्नपरिमितां पुष्टिं पुष्यति य एवं वेद

१९.१४.२ स्तोम विशेषः

यद्गणशः स्तोमास्तेन मरुत्स्तोमो गणशो हि मरुतः

१९.१४.३ तत्राधिकारि निरूपणं

एतेनैव त्रीन्याजयेत्

१९.१४.४ प्रथम स्तोम संघः

यत्त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठन्ति

१९.१४.५ द्वितीय स्तोम संघः

यत्त्रीणि पञ्चदशानि नाना वीर्ये

१९.१४.६ तृतीय स्तोम संघः

यत्त्रीणि सप्तदशानि नाना पशुषु

१९.१४.७ चतुर्थ स्तोम संघः

यत्त्रीण्येकविंशानि नाना प्रतितिष्ठन्ति

१९.१४.८ वेदन प्रशंसा

प्रतितिष्ठति य एवं वेद

१९.१५.१ कुलायाख्य क्रतुविधानं

अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो वा यजेत प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलायं एव भवति

१९.१५.२ अधिकारि निर्णयः

एतेनैव द्वौ याजयेत्

१९.१५.३ स्तोमसंघ विधानं

यत्षट्त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठतो यत्द्वे पञ्चदशे नाना वीर्ये यत्द्वे सप्तदशे नाना पशुषु यत्द्वे एकविंशे नाना प्रतितिष्ठतः प्रतितिष्ठति य एवं वेद

१९.१६.१ इन्द्र स्तोम क्रतुः

अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः

१९.१६.२ वेदन प्रशंसा

एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवति य एवं वेद

१९.१६.३ अधिकारि निरूपणं

राजन्यं याजयेत्

१९.१६.४ पञ्चदशस्तोमानुवादः

सर्वः पञ्चदशो भवत्योजो वीर्यं पञ्चदश ओजसैवैनं वीर्येण समर्धयति

१९.१६.५ ऋग्विशेष विधानं

ऐन्द्रीषु भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयति

१९.१६.६ उक्थ संस्थारूपत्वं

उक्थ्यो भवति पशवो वा उक्थानि विडुक्थानि विशं एवास्मै पशूननुनियुनक्त्यनपक्रामुकास्माद्विड्भवति

१९.१६.७ पञ्चदश संख्याविधानं

पञ्चदश स्तोत्राणि पञ्चदशानि भवन्त्योजो वीर्यं पञ्चदशोऽभिपूर्वं एवास्मिन्नोजो वीर्यं दधाति

१९.१७.१ इन्द्राग्नि स्तोम क्रतुः

अथैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्राग्नी अत्यन्या देवता अभवतां अत्यन्याः प्रजा भवति य एवं वेद

१९.१७.२ स्तोमद्वय विधानं

त्रिवृत्पञ्चदशो भवति

१९.१७.३ वेदन प्रशंसा

ब्रह्म वै त्रिवृत्क्षत्रं पञ्चदशो ब्रह्मण इव चास्य क्षत्रस्येव च प्रकाशो भवति य एवं वेद

१९.१७.४ अधिकारि निरूपणं

राजा च पुरोहितश्च यजेयाताम्

१९.१७.५ ब्रह्मक्षत्रियाभिरूप्यं

गायत्रीं च जगतीं च संपद्यते

१९.१७.६ उभय प्रयुक्त फलं

तेजो ब्रह्मवर्चसं गायत्र्या ब्राह्मणोऽवरुन्धे विशं राजा जगत्या प्रविशति

१९.१७.७ अन्योऽप्यधिकारी

पुरोधाकामो यजेत

१९.१७.८ अधिकारि प्रशंसा

बृहस्पतिरकामयत देवानां पुरोधां गच्छेयं इति स एतेनायजत स देवानां पुरोधां अगच्छद्गच्छति पुरोधां य एवं वेद

१९.१८.१ निधनक्रतुविधानं

अथैष विघनः

१९.१८.२ साम निमित्तं

इन्द्रोऽकामयत पाप्मानं भ्रातृव्यं विहन्यां इति स एतं विघनं अपश्यत्तेन पाप्मानं भ्रातृव्यं व्यहन्वि पाप्मानं भ्रातृव्यं हते य एवं वेद

१९.१८.३ स्तोम प्रशंसा

यत्त्रिवृद्भवति प्राणांस्तेनावरुन्धे यत्द्वादशः संवत्सरं तेन यत्पञ्चदशो वीर्यं तेन यत्सप्तदशोऽन्नाद्यं तेन यदेकविंशः प्रतिष्ठा तेन यन्नवदशः प्रजननं तेन यच्चतुर्विंशो ब्रह्मवर्चसं तेन यत्त्रिणवो वज्रं भ्रातृव्याय प्रहरति

१९.१८.४ अधिकारि निरूपणं

पशुकामो यजेत बृहतीं संपद्यते पशवो वै बृहती पशूनेवावरुन्धे

१९.१८.५ पशुप्राप्तिः

षडेता बृहत्यो भवन्ति षडृतवः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवाप्त्वावरुन्धे

१९.१९.१ द्वितीय निधनक्रतुः

इन्द्रं अदेव्यो माया अयचन्त स प्रजापतिं उपाधाववत्तस्मा एतं विघनं प्रायच्छत्तेन सर्वा मृधो व्यहत यद्व्यहत तद्विघनस्य विघनत्वम्

१९.१९.२ यजमान फलं

सर्वा मृधो विहते य एवं विद्वान्विघनेन यजते यं एवं विद्वान्विघनेन याजयति

१९.१९.३ यजमान फलं

पशुकामो यजेत पशवो वै बृहती पशुष्वेव प्रतितिष्ठति