स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७५

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
श्रुत्वोंकारकथामेतां महापातकनाशिनीम् ।।
न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम् ।। १ ।।
कथं च कथिता देव्यै देवदेवेन षण्मुख ।।
आविर्भूतिर्महाबुद्धे पुण्या त्रैलोचनी परा ।। २ ।।
स्कंद उवाच ।। ।।
आकर्णय मुने वच्मि कथां श्रमनिवारिणीम् ।।
यथा देवेन कथितां त्रिविष्टपसमुद्भवाम् ।। ३ ।।
विरजाख्यं हि तत्पीठं तत्र लिंगं त्रिविष्टपम् ।।
तत्पीठदर्शनादेव विरजा जायते नरः ।। ४ ।।
तिस्रस्तु संगतास्तत्र स्रोतस्विन्यो घटोद्भव ।।
तिस्रः कल्मषहारिण्यो दक्षिणे हि त्रिलोचनात् ।। ५ ।।
स्रोतोमूर्तिधराः साक्षाल्लिंगस्नपनहेतवे ।।
सरस्वत्यथ कालिंदी नर्मदा चातिशर्मदा ।। ६ ।।
तिस्रोपि हि त्रिसंध्यं ताः सरितः कुंभपाणयः ।।
स्नपयंति महाधाम लिंगं त्रैविष्टपं महत् ।। ७ ।।
लिंगानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि ।।
तेषां संदर्शनात्पुंसां तासां स्नानफलं भवेत् ।। ८ ।।
सरस्वतीश्वरं लिंगं दक्षिणेन त्रिविष्टपात् ।।
सारस्वतं पदं दद्याद्दृष्टं स्पृष्टं च जाड्यहृत् ।। ९ ।।
यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् ।।
अपि किल्बिषवद्भिश्च यमलोकनिवारणम् ।। 4.2.75.१०।।।
दृष्टं त्रिलोचनात्प्राच्यां नर्मदेशं सुशर्मदम् ।।
तल्लिंगार्चनतो नृणां गर्भवासो निषिध्यते ।। ११ ।।
स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः ।।
दृष्ट्वा त्रिलोचनं लिंगं किं भूयः परिशोचति ।। १२ ।।
त्रिविष्टपस्य लिंगस्य स्मरणादपि मानवः ।।
त्रिविष्टप पतिर्भूयान्नात्र कार्या विचारणा ।। १३ ।।
त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः ।।
कृतकृत्यास्त एवात्र त एवात्र महाधियः ।। १४ ।।
आनंदकानने लिंगं प्रणतं यैस्त्रिविष्टपम् ।।
त्रिलोचनस्य नामापि यैः श्रुतं शुद्धबुद्धिभिः ।। १५ ।।
सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः ।।
पृथिव्यां यानि लिंगानि तेषु दृष्टेषु यत्फलम् ।। १६ ।।
तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम् ।।
काश्यां त्रिविष्टपे दृष्टे दृष्टं सर्वं त्रिविष्टपम् ।। १७ ।।
क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत ।।
स स्नातः सर्वतीर्थेषु सर्वावभृथवान्स च ।। १८ ।।
यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहांभसि ।।
सरित्त्रयं महापुण्यं यत्र साक्षाद्वसेत्सदा ।। १९ ।।
तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति ।।
स्नात्वा पिलिपिला तीर्थे कृत्वा वै पिंडपातनम् ।। 4.2.75.२० ।।
दृष्ट्वा त्रिविष्टपं लिंगं कोटितीर्थफलं लभेत् ।।
यदन्यत्रार्जितं पापं तत्काशी दर्शनाद्व्रजेत् ।। २१ ।।
काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ।।
प्रमादात्पातकं कृत्वा शंभोरानंदकानने ।। २२।।
दृष्ट्वा त्रिविष्टपं लिंगं तत्पापमपि हास्यति ।।
सर्वस्मिन्नपि भूपृष्ठे श्रेष्ठमानंदकाननम् ।। २३ ।।
तत्रापि सर्वतीर्थानि ततोप्योंकारभूमिका ।।
ओंकारादपि सल्लिंगान्मोक्षवर्त्म प्रकाशकात् ।। २४ ।।
अतिश्रेष्ठतरं लिंगं श्रेयोरूपं त्रिलोचनम् ।। २५ ।।
तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी ।।
तथा लिंगेषु सर्वेषु परं लिंगं त्रिलोचनम् ।। २६ ।।
त्रिलोचनार्चकानां सा पदवी न दवीयसी ।।
परं निर्वाणपद्माया महासौख्यैकशेवधेः ।।२७।।
सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते ।।
न तदा जन्मसंपूंज्य लिंगान्यन्यानि लभ्यते ।।२८।।
काश्यां त्रिलोचनं लिंगं येर्चयंति महाधियः ।।
तेर्च्यास्त्रिभुवनौकोभिर्ममप्रीतिमभीप्सुभिः ।। २९ ।।
कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् ।।
नियमेभ्यः स्खलित्वापि कुतो बिभ्यति मानवाः ।। 4.2.75.३० ।।
विद्यमाने महालिंगे महापापौघहारिणि।।
त्रिविष्टपे पुण्यराशौ मोक्षनिक्षेपसद्मनि ।।३१।।
समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम् ।।ऽ
मुच्यते कलुषैः सर्वैरपिजन्मशतार्जितैः।।। ३२ ।।
ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः ।।
तत्संयोग्यपि वा वर्षं महापापी प्रकीर्तितः ।। ३३ ।।
परदाररतश्चापि परहिंसा रतोपि वा ।।
परापवादशीलोपि तथा विस्रंभघातकः ।। ३४ ।
कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा ।।
मातापितृगुरुत्यागी वह्निदो गरदोपि वा ।। ३५ ।।
गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च ।।
क्रूरो वा पिशुनो वापि निजधर्मपराङ्मुखः ।। ३६।।
निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः।।
अभक्ष्यभक्षको वापि तथाऽविक्रेय विक्रयी ।। ३७ ।।
इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम ।।
पापान्निष्कृतिमाप्नोति नत्वा लिंगं त्रिलोचनम् ।। ३८ ।।
शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः ।।
तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेपि केनचित् ।। ३९ ।।
आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः ।।
शिवनिंदां विधत्ते यः स नाभाष्योऽधमाधमः।। 4.2.75.४०।।
शिवनिंदारता ये च शिवभक्तजनेष्वपि।।
ते यांति नरके घोरे यावच्चंद्रदिवाकरौ।।४१।।
शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः।।
तेष्वर्चितेष्वपि शिवः प्रीतो भवत्यसंशयः ।। ४२ ।।
सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया ।।
निःशंकैरेव वक्तव्यं प्रमाणज्ञैरिदं वचः ।। ४३ ।।
पुरश्चरणकामश्चेद्भीतोसि यदि पापतः ।।
मन्यसे यदि नः सत्यं वाक्यशास्त्रप्रमाणतः ।। ४४ ।।
ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम् ।।
आनंदकाननं याहि यत्र विश्वेश्वरः स्वयम् ।। ४५ ।।
यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम् ।।
न बाधतेऽघनिचयः प्राप्येत च परोवृषः ।। ४६ ।।
तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले ।।
पुण्ये पिलिपिलानाम्नि त्रिसरित्परिसेविते ।। ४७ ।।
त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि ।।
स्नात्वा गृह्योक्तविधिना तर्पणीयान्प्रतर्प्य च ।। ४८ ।।
दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः ।।
दृष्ट्वा त्रिविष्टपं लिंगं समभ्यर्च्यातिभक्तितः ।। ४९ ।।
गंधाद्यैर्विविधैर्माल्यैः पंचामृतपुरःसरैः ।।
धूपैर्दीपैः सनैवेद्यैर्वासोभिर्बहुभूषणैः ।। 4.2.75.५० ।।
पूजोपकरणैर्द्रव्यैर्घंटादर्पणचामरैः ।।
चित्रध्वजपताकाभिर्नृत्यवाद्यसुगायनैः ।। ५१ ।।
जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः ।।
परिचारकसंतोषैः कृत्वेति परिपूजनम् ।। ५२ ।।
ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन् ।।
एवं कुर्वन्नरः प्राज्ञो निरेना जायते क्षणात् ।। ५३ ।।
ततः पंचनदे स्नात्वा मणिकर्णी ह्रदे ततः ।।
ततो विश्वेशमभ्यर्च्य प्राप्नोति सुकृतं महत् ।।५४ ।।
प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम् ।।
नास्तिके न प्रवक्तव्यं काशीमाहात्म्य निंदके ।। ५५ ।।
ददच्च द्रव्यलोभेन प्रायश्चित्तमिदं शुभम्।।
दाता नरकमाप्नोति सत्यंसत्यं घटोद्भव ।। ५५ ।।
क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते ।।
प्रदोषे तत्फलं काश्यां सप्तकृत्वस्त्रिलोचने ।। ५७ ।।
भुजंगमेखलं लिंगं काश्यां दृष्ट्वा त्रिविष्टपम् ।।
जन्मांतरेपि मुक्तः स्यादन्यत्र मरणे सति ।। ५८ ।।
अन्यत्र सर्वलिंगेषु पुण्यकालो विशिष्यते ।।
त्रिविष्टपे पुण्यकालः सदा रात्रिदिवं नृणाम् ।। ५९ ।।
लिंगान्योंकारमुख्यानि सर्वपापप्रकृंत्यलम् ।।
परं त्रैलोचनी शक्तिः काचिदन्यैव पार्वति ।। 4.2.75.६० ।।
यतः सर्वेषु लिंगेषु लिंगमेतदनुत्तमम् ।।
तत्कारणं शृण्व पर्णे कर्णे कुरु वदाम्यहम् ।। ६१ ।।
पुरा मे योगयुक्तस्य लिंगमेतद्भुवस्तलात् ।।
उद्भिद्य सप्तपातालं निरगात्पुरतो महत् ।। ६२ ।।
अस्मिँल्लिगे पुरा गौरि सुगुप्तं तिष्ठता मया ।।
तुभ्यं नेत्रत्रयं दत्तं निरैक्षिष्ठास्तथोत्तमम् ।। ६३ ।।
तदा प्रभृति देवेशि लिंगमेतत्त्रिलोचनम ।।
विष्टपत्रितयांतस्थैर्गीयते ज्ञानदृष्टिदम् ।। ५४ ।।
त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः ।।
मम पारिषदास्ते तु जीवन्मुक्ताऽस्त एव हि ।। ६५ ।।
त्रिलोचनस्य लिंगस्य महिमानं न कश्चन ।।
सम्यग्वेत्ति महेशानि मयैव परिगोपितम् ।।६६।।
शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे ।।
उपोषणपरा भक्त्या रात्रौ जागरणान्विताः ।।६७।।
त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै ।।
पुनर्लिंगं समभ्यर्च्य दत्त्वा धर्मघटानपि ।। ६८ ।।
सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः ।।
विधाय पारणं पश्चाच्छिवभक्तजनैः सह ।। ६९ ।।
विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः ।।
भवंति देवि नियतं गणा मम पुरोगमाः ।। 4.2.75.७० ।।
तावद्धमंति संसारे देवा मर्त्या महोरगाः ।।
गौरि यावन्न पश्यंति काश्यां लिंगं त्रिलोचनम् ।।७१।।
सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे ।।
न जातुः मातुस्तनपो जायते जंतुरत्र हि ।।७२।।
प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि ।।
आयांति सर्वतीर्थानि द्रष्टुं देवं त्रिविष्टपम् ।।७३।।
त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि ।।
तत्र संध्यामुपास्यैकां राजसूयफलं लभेत् ।। ७४ ।।
पादोदकाख्यस्तत्रैव कूपः पापविनाशकः ।।
प्राश्य तस्योदकं मर्त्यो न मर्त्यो जायते पुनः ।।७५ ।।
तस्य लिंगस्य पार्श्वे तु संति लिंगान्यनेकशः ।।
कैवल्यदानि तान्यत्र दर्शनात्स्पर्शनादपि।।७६।।
तत्र शांतनवं लिंगं गंगातीरे प्रतिष्ठितम् ।।
तद्दृष्ट्वा शांतिमाप्नोति नरः संसारतापितः ।।७७।।
तद्दक्षिणे महालिंगं मुने भीष्मेश संज्ञितम् ।।
कलिः कालश्च कामश्च बाधंते न तदीक्षणात् ।। ७८ ।।
तत्प्रतीच्यां महालिंगं द्रोणेश इति कीर्तितम् ।।
यल्लिंगपूजनाद्द्रोणो ज्योतीरूपं पुनर्दधौ ।। ७९ ।।
अश्वत्थामेश्वरं लिंगं तदग्रे चातिपुण्यदम् ।।
यदर्चनवशाद्द्रौणिर्न बिभेत्यपि कालतः ।। 4.2.75.८० ।।
द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम् ।।
तल्लिंगं श्रद्धया दृष्ट्वा सर्वक्रतुफलं लभेत् ।। ८१ ।।
तद्वामे लिंगमालोक्य वाल्मीकेश्वरसंज्ञितम् ।।
तस्य संदर्शनादेव विशोको जायते नरः ।। ८२ ।।
अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव ।।
त्रिविष्टपस्य माहात्म्यं देव्यै देवेन भाषितम् ।। ८३ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पंचसप्ततितमोऽध्यायः ।। ७५ ।।