शतपथब्राह्मणम्/काण्डम् ८/अध्यायः ३/ब्राह्मणम् ४

विकिस्रोतः तः

८.३.४

अथ वालखिल्या उपदधाति । प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम यद्वा उर्वरयोरसम्भिन्नं भवति खिल इति वै तदाचक्षते वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालमात्रादसम्भिन्नास्तस्माद्वालखिल्याः - ८.३.४.१

स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात्तद्याः सप्त पुरस्तादुपदधाति य एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति - ८.३.४.२

अथ याः सप्त पश्चात् । एषामेवैतत्प्राणानामेतान्प्राणान्प्रतिप्रतीन्करोति तस्माद्यदेभिरन्नमत्ति तदेतैरत्येति - ८.३.४.३

यद्वेव सप्त पुरस्तादुपदधाति । सप्त वा इमे पुरस्तात्प्राणाश्चत्वारि दोर्बाहवाणि शिरो ग्रीवा यदूर्ध्वं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति - ८.३.४.४

अथ याः सप्त पश्चात् । सप्त वा इमे पश्चात्प्राणाश्चत्वार्यूर्वष्ठीवानि द्वै प्रतिष्ठे
यदवाङ्नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति - ८.३.४.५

मूर्द्धासि राड् । ध्रुवासि धरुणा धर्त्र्यसि धरणी यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्रीत्येतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यच्छति - ८.३.४.६

यद्वेव वालखिल्या उपदधाति । एतद्वै देवा वालखिल्याभिरेवेमांल्लोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचस्तथैवैतद्यजमानो वालखिल्याभिरेवेमांल्लोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः - ८.३.४.७

मूर्द्धासि राडितीमं लोकमरोहन् । ध्रुवासि धरुणेत्यन्तरिक्षलोकं धर्त्र्यसि धरणीत्यमुं धरणीत्यमुं लोकमायुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वेति चत्वारश्चतुष्पादाः पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिंलोके प्रतितिष्ठति - ८.३.४.८

स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते देवा इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति - ८.३.४.९

यन्त्री राडित्यमुं लोकमरोहन् । यन्त्र्यसि यमनीत्यन्तरिक्षलोकं ध्रुवाऽसि धरित्रीतीमं लोकमिषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वेति चत्वारश्चतुष्पादाः पशवोऽन्नं पशवस्त एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंल्लोके प्रत्यतिष्ठंस्तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंलोके प्रतितिष्ठति - ८.३.४.१०

अथातः संस्कृतिरेव । या अमूरेकादशेष्टका उपदधाति योऽसौ प्रथमोऽनुवाकस्तदन्तरिक्षं स आत्मा तद्यत्ता एकादश भवन्त्येकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभमन्तरिक्षमथ या उत्तराः षष्टिः स वायुः स प्रजापतिः सोऽग्निः स यजमानः - ८.३.४.११

तद्याः पुरस्तादुपदधाति । शिरोऽस्य तास्ता दश भवन्ति दश वै प्राणाः प्राणा उ वै
शिरः पूर्वार्ध उपदधाति पुरस्ताद्धीदं शिरः - ८.३.४.१२

अथ या दक्षिणतः । यदूर्ध्वं मध्यादवाचीनं शीर्ष्णस्तदस्य ता अथ याः पश्चाद्यदूर्ध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्य ताः प्रतिष्ठैवोत्तरतः - ८.३.४.१३

तद्याः सप्त पुरस्ताद्वालखिल्या उपदधाति । य एवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो दशभ्य उपदधात्यनन्तर्हितांस्तच्छीर्ष्णः प्राणान्दधाति - ८.३.४.१४

अथ याः सप्त पश्चात् । य एवेमे सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एताभ्यो द्वादशभ्य उपदधात्यनन्तर्हितांस्तदात्मनः प्राणान्दधाति स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभेऽन्तरिक्षे समन्तं पर्यक्नस्तद्यत्तृतीयां चितिमुपदधाति वायुं चैव तदन्तरिक्षं च संस्कृत्योपधत्तेऽथ लोकम्पृणे उपदधात्यस्यां स्रक्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः - ८.३.४.१५