सामग्री पर जाएँ

तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः १

विकिस्रोतः तः

तैत्तिरीयारण्यकम्
 
भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्वदेवाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः

प्रपाठक १ अनुवाक १

भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः (१ ) । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानोऽद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वाः । देवीः पर्जन्यसूवरीः । पुत्रवत्त्वाय मे सुत (२ ) । अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपा रघम् । अपाघ्रामप चावर्त्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३ ) ।
अमुतः सुतौषधयो द्वे च ।।
 
अनुवाक २

स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचीमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा (१) । तां नद्योऽभिसमायन्ति । सोरुः सती न निवर्तते । एवं नानासमुत्थानाः । कालाः[] संवत्सरं श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रि तम् । स तैः सर्वैः समाविष्टः । उरुः सन्न निवर्तते । अधि संवत्सरं विद्यात् । तदेव लक्षणे (२) । अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण नाधिसत्त्वः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकं हि शिरो नाना मुखे । कृत्स्नं तदृतुलक्षणम् ( ३) । उभयतः सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा । न पशवः । नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमं रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् (४) । यथा लक्षण ऋतुलक्षणं भुवनं सप्त च

1.3 अनुवाक ३

साकंजानां सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदं सखायम् । न तस्य वाच्यपि भोगो अस्ति । यदीं शृणोत्यलकं शृणोति (१) । न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिंशका वल्गाः । शुक्लकृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिः सह । संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः । अमूनादयतेत्यन्यान् (२) अमूंश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्र गणः । ग्रीष्मेणावर्तते सह । निजहन्पृथिवीं सर्वाम् (३) । ज्योतिषाऽप्रतिख्येन सः । विश्वरूपाणि वासांसि । आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् । वर्षाभिर्ददतां सह । अदुःखो दुःखचक्षुरिव । तद्मा पीत इव दृश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रंश्यन्ते । संवत्सरात्ता भ्रंश्यन्ते । याः प्रति तिष्ठन्ति । संवत्सरे ताः प्रति तिष्ठन्ति । वर्षाभ्य इत्यर्थः
(४) । शृणोत्यन्यान्सर्वामेव षट्च ।।

1.4 अनुवाक ४

अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्ते चाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासांसि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते (१) । अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखमिव । संनद्धाः सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव (२) । दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः । ता अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेह वः स्वतपसः । मरुतः सूर्यत्वचः । शर्म सप्रथा आवृणे (३)
दृश्यत इवावृणे

1.5 अनुवाक ५

अतिताम्राणि वासांसि । अष्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत् । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता (१) । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् । तदिन्द्र धनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । य एवं वेद (२) । श्रिता यजते त्रीणि च

1.6 अनुवाक ६

अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासांसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिंस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शार शीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् (१) । नि जानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैः सेनानीभिः सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति (२) । अव द्र प्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः । आवर्तमिन्द्रः शच्या धमन्तम् । उप स्नुहि तं नृमणामथ द्रामिति । एतयैवेन्द्रः सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यंशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवंविदुषाचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वं सनिर्वचनाः (३) । निजानुकां भवति द्रुह्यातां पञ्च च

सायणभाष्यम्

अथ प्रथमप्रपाठके षष्ठोऽनुवाकः ।
कल्पः- "अत्यूर्ध्वाक्ष इति त्रीण्यृतुमण्डलान्यवद्रप्स इति च" इति । ऋतुमण्डलशब्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तत्र प्रथमामृचमाह -
अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते ।
नैव रूपं न वासाꣳसि । न चक्षुः प्रतिदृश्यते, इति ।
योऽयं शिशिर ऋतुः सोऽयं प्राणिषु प्रकर्षेण दृश्यते । कीदृशः शिशिरोऽत्यूर्ध्वाक्षः । तस्मिन्नृतौ यदा शीतबाहुल्यं भवति तदानीं कम्पमानाः प्राणिनो हस्ताभ्यामुर आच्छादयन्तो मुखेन सीत्कारं कुर्वन्तो द्वे भ्रुवावत्यूर्ध्वमुन्नमयन्ति तदिदं तस्यर्तोरत्यूर्ध्वाक्षत्वम् । शीतपीडितत्वादेव दक्षिणतो वामतो वा तिर्यङ्न पश्यन्ति तदिदमतिरश्चादित्युच्यते । यत्तु शरीरस्य रूपं तदपि शीतवेलायां प्राणिभिर्नैव दृश्यते । वासांस्यपि नैव दृश्यन्ते । चक्षुरपि दर्पणादौ न प्रतिदृश्यते । रूपवस्त्रादिषु नात्यन्तमादरः किंतु शीतपरिहारमेवान्विच्छन्तीत्यर्थः ।

अथ द्वितीयामाह -
अन्योन्यं तु न हिꣳस्रातः । सतस्तद्देवलक्षणम् ।
लोहितोऽक्षिण शार शीर्ष्णिः । सूर्यस्योदयनं प्रति, इति ।
यौ परस्परमत्यन्तद्वेषिणौ युद्धार्थमुद्युक्तौ तावपि शिशिरर्तावन्योन्यं तु न हिंस्रातः शीतनिवारणाय प्रावरण एव प्रयत्नयुक्तौ सन्तौ परस्परं हिंसामपि न कुरुतः । यदेतदीदृशं प्राणिनां वर्तनं तदेतत्सतो वर्तमानस्य शिशिरर्तोर्देवलक्षणं देवेन सूर्येण संपादितं चिह्नम् । अनेन लक्षणेन शिशिरत्वं विद्यात् । किंच तस्यर्तोरभिमानिदेवताविप्र हेऽक्ष्णि चक्षुषि लोहितो वर्णो भवति, शीर्ष्णिः, शिरसि शार सारिदा(का)याः शुकस्त्रिया यो वर्णः स वर्णो भवति । कस्मिन्कालेऽयं वर्णविशेष इत्युच्यते - सूर्यस्योदयनं प्रति सूर्योदयवेलायाम् । अत्र सर्वत्रोच्यमानेषु काललक्षणेषु यत्प्रमासु संभवति तत्प्रनाद्वारेण कालं लक्षयति । यत्तु प्रजासु न संभवति तत्साक्षादेव कालाभिमानिदेवतायां द्रष्टव्यम् ।

अथ तृतीयामाह –
त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि नि जानुकाम् (१)।
नि जानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति, इति ।
हे शिशिरर्तो त्वमञ्जलिकां हस्ताग्रवर्तिनमञ्जलिं निकरोषि न्यग्भूतं करोषि । तथा जानुकां जानुप्रदेशमपि त्वं निकरोषि न्यग्भूतं करोषि । सर्वे प्राणिनः शीतबाहुल्यादग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति । उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी अपि भूमिस्पर्शिनी यथा भवतस्तथा न्यग्भूते कुर्वन्ति । स्वयमेवं कुर्वन्तो बुद्धिमन्तोऽप्रबुद्धान्बालान्प्रत्येवमुपदिशन्ति । हे बाला अमी भवन्त ईदृशीं वाचमुपासताम् । कीदृशी वागिति तदुच्यते - मे मदीया जानुका न्यग्भूता भवतु, अञ्जलिकाऽपि न्यग्भूता भवत्विति । श्रौत इति शब्द एवंविधलक्षणप्रदर्शनार्थः । अनुक्तमप्येतादृशं लोकव्यवहारं दृष्ट्वा तमृतुं जानीयात् । ऋतुमण्डलाख्यैरेतैर्मन्त्रैस्तिस्र इष्टका उपदध्यात् ।
अथ ब्राह्मणमुच्यते -
तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैः सैनानीभिः सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति (२), इति ।
यः पुमानेवमुक्तैरनुवाकैः प्रतिपादितमृतुस्वभावं वेद तस्मै पुरुषाय सर्व ऋतवो वसन्तादयो नमन्ते प्रह्वी भवन्ति स्वाधीना भवन्ति । किंच स ब्राह्मणः पुरोधां पुरतोऽवस्थितिं सर्वेषु ब्राह्मणेषु प्राधान्यं प्राप्नोति । ऋतूनां स्वाधीनत्वं दुःखानुत्पादकत्वम् । तस्मिन्स्वाधीनत्वे प्राधान्यप्राप्तौ च हेतुरुच्यते-मर्यादाकरत्वादिति । अयं हि विद्वान्पुरुषस्तेषां वसन्ताद्यृतूनां मर्यादां करोति यस्मिन्यस्मिन्नृतौ ये धर्मास्तत्र तान्प्रवर्तयति । मर्यादाकरत्वमेव कथमिति तदुपपाद्यते--स खलु विद्वान्ब्राह्मणो देहपातादूर्ध्वं संवत्सरो भूत्वा संवत्सरनिष्पादकादित्यरूपी भूत्वाऽऽरुणकेतुकाग्नितादात्म्यं प्राप्यैतैः सेनानीभिः “वसन्तो वसुभिः सह" "शुक्लवासा रुद्रगणः" इत्यादिवाक्येषु प्रतिपादितैर्वसन्तादिदेवतासहवर्तिभिर्वस्वादिभिः सेनाधिपतिभिः सह वर्तमानः सन्निन्द्राय कर्मस्वामिने यजमानाय सर्वाकामानभिवहत्याभिमुख्येन संपादयति । तस्मादारुणकेतुकाग्निप्राप्तियोग्यत्वादयं विद्वान्मर्यादाकरो भवत्येव । स च विदुषा प्राप्य आरुणकेतुको द्रप्स उदकस्वरूपो वृष्टिहेतुत्वात् । तस्य द्रप्सरूपस्याऽऽरुणकेतुकाग्नेः प्रतिपादिकेयं काचिदृग्विद्यते ।

अथ तामृचं दर्शयति -
अव द्रप्सो अꣳशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः।
आवर्तमिन्द्रः शच्या धमन्तम् । उप स्नुहि तं नृमणामथद्रामिति, इति ।
द्रप्स उदकात्मकोऽयमारुणकेतुकः, अंशुमती[]मंशुशब्देन सोमलताखण्डवाचिना सर्वा ह्योषधय उपलक्ष्यन्ते तयुक्तत्वादंशुमती पृथिवी तामवातिष्ठदवगम्य प्राप्य तत्रावस्थितः । कीदृशो द्रप्सः, दशभिः सहस्रैरनेकसहस्रसंख्याकैरादित्यरश्मिभिरियानः संचरन् । “आदित्याज्जायते वृष्टिः" इति स्मृतेः । कृष्णः कृषिहेतुः । सति ह्युदके भूमिं कृषन्ति । हे आदित्यरूपाऽऽरुणकेतुकाग्न इन्द्रो वृष्टेरीश्वरस्त्वमावर्तं पुनः पुनरिहाऽऽवृत्य शच्या स्वकीयया शक्त्या तदा तदाऽपेक्षितकाले समागत्य धमन्तं गर्जनादिना शब्दयन्तं नृमणां नृभिर्मनुष्यैर्मननीयं सर्वदा प्रार्थनीयमथद्रामधोद्रवणशीलं तं द्रप्समुदकविशेषमुपस्नुहि भूमौ प्रस्रावय । इत्यनेन मन्त्रेण द्रप्सवतीमिष्टकामुपदध्यात् ।
अथ ब्राह्मणमुच्यते -
एतयैवेन्द्रः सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यꣳशुमती । तामन्वस्थितः संवत्सरो दिवं च । नैवंविदुषाऽऽचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः। अत ऊर्ध्वꣳ सनिर्वचनाः (३), इति ।
नि जानुकां भवति द्रुह्यातां पञ्च च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथममपाठके षष्ठोऽनुवाकः ॥६॥
योऽयमिन्द्र आरुणकेतुको वृष्टिस्वामी सलावृक्या सलः सलिलं जलं तस्याऽऽवृक आदानं तद्युक्ता भूमिः सलावृक्येतया सलावृक्या निमित्तभूतया सहासुरानसवः प्राणा रमन्ते क्रीडन्ते(न्ति) येषु मेघेषु सत्सु ते मेघा असुरास्तान्परिवृश्चति परितश्छिनत्ति । अयं देवो जलार्थी पृथिवीनिमित्तं मेघभेदं कृत्वा वर्षयतीत्यर्थः । पूर्वोक्तमन्त्रे येयमंशुमती कथिता सेयं पृथिवी विवक्षिता तां पृथिवीं, दिवं चानुसृत्यायं संवत्सरात्मक आरुणकेतुको देवो वह्निरूपेणाऽऽदित्यरूपेण वाऽवस्थितः । यः पुमानेवमारुणकेतुकाग्नेर्महिमानं जानाति तेनैवंविदुषा सहाऽऽचार्यान्तेवासिनावन्योन्यस्मै द्रोहं कर्तुं नार्हतः । आचार्योऽध्वर्युः, यज्ञे धर्मानाचरतीति व्युत्पत्तेः । यजमानोऽन्तेवासी, तस्याध्वर्योः समीपे निवासात् । तावध्वर्युयजमानावभिज्ञेन सह द्रोहयोग्यो न भवतः । स्वयं द्रोह्यावपि न भवतो द्रोग्धारावपि न भवत इति वक्तुमन्योन्यस्मा इत्युक्तम् । तस्मै विदुषे स्वयं द्रोहमकृत्वा सोऽपि यथा न द्रुह्यति तथा वर्तितव्यम् । यो मूढस्तस्मै विदुषे द्रुह्यति सोऽयं स्वर्गलोकाद्भ्रष्टो भवति । तस्मान्न द्रोहः कर्तव्यः । " स्मृतिः प्रत्यक्षम्" इत्यारभ्य पञ्चस्वनुवाकेषु प्रोक्तोऽर्थ उपसंह्रियते - इति एवमतीते ग्रन्थे “ऋतुर्ऋतुना नुद्यमानः" इत्यादिभिर्ऋतुमण्डलप्रतिपादकानि वाक्यान्युक्तानि, “एतैरादित्यमण्डलम्" इत्यादिभिः सूर्यमण्डलप्रतिपादकानि वाक्यान्युक्तानि, पूर्वोक्त एवार्थो दृढमाख्यायते यास्वृक्षूदाहृतासु ता आख्यायिकाः “शुक्रं ते अन्यत् " इत्यादयस्ता अप्युक्ताः । अत ऊर्ध्वमुपरितनेष्वनुवाकेषु सनिर्वचना निःशेषेण वचनं निर्वचनं ब्राह्मणं तेन सहिता आख्यायिकाः सनिर्वचनाः । पूर्वेष्वनुवाकेषु मन्त्रप्रतिपादितेऽर्थे संवादार्थमृच उदाहृता उत्तरेष्वनुवाकेषु ब्राह्मणप्रतिपादितेऽर्थे संवादार्थमृच उदाह्रियन्त इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय
तैत्तिरीयारण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥


1.7 अनुवाक ७

आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान्विभासः ।[] ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति, इति । कश्यपोऽष्टमः । स महामेरुं[] न जहाति । तस्यैषा भवति, इति । []यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकम्।(१) तस्मिन्नाजानमधिविश्रयेममिति,इति । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्धमति । भ्रस्ताकर्मकृदिवैवम्[]- इति । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः, इति । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्ल्राक्षिः ( २) । आनुश्रविकं एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम्,इति । अपश्यमहमेतत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गच्छन्त महामेरुम् । एकं चाजहतम्[], इति । भ्राजपटरपतङ्गा निहने[] । तिष्ठन्नातपन्ति । तस्मादिहातप्-त्त्रितपाः[] ( ३) । अमुत्रेतरे । तस्मादिहातपत्त्रितपाः, इति । [१०]तेषामेषा भवति, इति । [११]सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान्[१२] । ते अस्मै सर्वे घृतमातपन्ति[१३] । ऊर्जं दुहाना अनपस्फुरन्त इति, इति । सप्तर्त्विजः सूर्या इत्याचार्याः, इति । तेषामेषा भवति, इति । सप्त दिशो नानासूर्याः ( ४) । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाभीरक्ष ण इति, इति । तदप्याम्नायः । दिग्भ्राज ऋतून्करोति, इति । एतयैवाऽऽवृताऽऽ सहस्रसूर्यताया इति वैशम्पायनः, इति । तस्यैषा भवति, इति । यद्द्याव इन्द्र ते शतꣳ शतं भूमीः । उत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्याः ( ५) । अनु न जातमष्ट रोदसी इति, इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम्, इति । अष्टौ तु व्यवसिता इति, इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम्, इति । तेषामेषा भवति, इति । चित्रं देवानामुदगादनीकम्। । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति(६) इति । साकं प्लाक्षिस्तपत्त्रितपा नानासूर्याः सूर्या नव च ।।
इति कृष्णयजुर्वेदीयत्तैतिरीयारण्यके प्रथमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

1.8 अनुवाक ८

क्वेदमभ्रं निविशते । क्वायꣳ संवत्सरो मिथः । क्वाहः(काहः?) क्वेयं देव रात्री । क्व मासा ऋतवः श्रिताः, इति । अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिः सह । क्वेमा आपो निविशन्ते ।यदीतो यान्ति संप्रति, इति । काला अप्सु निविशन्ते । आपः सूर्ये समाहिताः ( १) । अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता, इति । अनवर्णे इमे भूमी । इयं चासौ च रोदसी, इति । किꣳस्विदत्रान्तरा भृतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना, इति । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ( २) । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः, इति । किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे, इति । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ( ३), इति । अग्नयो वायवश्चैव । एतदस्य परायणम्, इति । पृच्छामि त्वां परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि संप्रति, इति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ( ४), इति । अनाभोगाः परं मृत्युम् । पापाः संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः, इति । ततो मध्यममायन्ति । चतुमग्निं च संप्रति, इति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्ब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान् ( ५), इति । कश्यपादुदिताः सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः, इति । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेऽयोनिजा जनाः, इति । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानाः स्वकर्मभिः (६) । आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः, इति । अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवंविद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिः सिद्धगमनः सिद्धागमनः, इति । तस्यैषा भवति, इति । आ यस्मिन्त्सप्त वासवाः । रोहन्ति पुण्या रुहः ( ७) । ऋषिर्ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति, इति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात्, इति ।
अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति, इति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि व्रिद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठा ते नमउक्तिं विधेमेति ( ८), इति । समाहिता दशस्ये उत्तममुच्यते गृहान्त्स्वकर्मभिः पूर्व्या रुह इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

1.9 अनुवाक ९

अग्निश्च जातवेदश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः । विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति, इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति, इति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमाना व्यवदाताः ( १) । याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश, इति । नैनं वैद्युतो हिनस्ति । य एवं वेद, इति । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति, इति । न त्वकामꣳ हन्ति ( २) । य एवं वेद, इति । अथ गन्धर्वगणाः, इति । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तः सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वानसूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः, इति । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ( ३), इति । नैनं गरो हिनस्ति । य एवं वेद, इति । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूबुषी । सहस्राक्षरा परमे व्योमन्निति, इति । वाचो विशेषणम्, इति । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः, इति । वराहवः स्वतपसः ( ४) । विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः, इति । पर्जन्याः सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वातैरुदीरिताः । अमूँल्लोकानभिवर्षन्ति । तेषामेषा भवति, इति । समानमेतदुदकम् ( ५) । उच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति, इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत, इति । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञः सोमस्य तृप्तासः ( ६) । ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः, इति । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे। शं चतुष्पदे, इति । सोमपा३ असोमपा३ इति निगदव्याख्याताः ( ७), इति । व्यवदाता हन्ति गरगिरस्ततपस उदकं तृप्तासश्चतुष्पद एकं च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ।। ९ ।।

1.10 अनुवाक १०

सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती, इति । जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम्, इति । शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः (१) । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु, इति । वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ सूर्यया सह, इति । त्युग्रो ह भुज्युमश्विनोदमेघे । रुयिं न कश्चिन्ममृवां३ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः (२), इति । तिस्रः क्षपस्त्रिरहाऽतिव्रजद्भिः । नासत्या भुज्युमूहथुः पतत्रैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभी रथैः शतपद्भिः षडश्वैः, इति । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरु षम्वरश्चैव। सविताऽरेपसो भवत्, इति । त्यꣳ सुतृप्तं विदित्वैव । बहुसोमगिरं वशी ( ३) । अन्वेति तुग्रो वक्रियां तम् । आयसूयान्त्सोमतृप्सुषु, इति । स संग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिः स्तवाऽत्येत्यन्ये । रक्षसाऽनन्विताश्च ये, इति । अन्वेति परिवृत्यास्तः । एवमेतौ स्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भं दधाथे ( ४), इति । तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । अग्निश्चाऽऽदित्यश्च। रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । (५) ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ (६) । उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते, इति । सेयꣳ रात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदु-ल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्यां उल्बणम्, इति । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः, इति । अथ पवित्राङ्गिरसः ( ७), इति ।। स्थोऽपोदकाभिर्वशी दधाथे अग्निस्तयोरेतौ वत्सौ भवति चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके दशमोऽनुवाकः ।। १० ।।

1.11 अनुवाक ११

पवित्रवन्तः परि वाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महः समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम्, इति । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत, इति । ब्रह्मा देवानाम्, इति । असतः सद्ये ततक्षुः ( १) । ऋषयः सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैः शंकृतोऽवसन्, इति । अथ सवितुः श्यावाश्वस्यावर्तिकामस्य, इति । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति, इति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ( २) । धियो यो नः प्रचोदयात्, इति । तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठꣳ सर्वधातमम् । तुरं भगस्य धीमहि, इति । अपागूहत सविता तृभीन् । सर्वान्दिवो अन्धसः । नक्तं तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः, इति । नाम नामैव नाम मे ( ३) । नपुꣳसकं पुमाꣳस्त्र्यस्मि(?) । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च, इति । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः, इति । स्त्रियः सतीः । ता उ मे पुꣳस आहुः । पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत ( ४) । यस्ता वि'जानात्सवितुः पिता सत्, इति । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत, इति । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद संप्रति । न स जातु जनः श्रद्दध्यात् । मत्युर्मा मारयादितिः, इति । हसितꣳ रुदितं गीतम् ( ५) । वीणा पणवलासितम् । मृतं जीवं च यत्किंचित् । अङ्गानि स्नेव विद्धि तत्, इति । अतृष्यꣳस्तृष्य ध्यायत् । अस्माज्जाता मे मिथू चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः, इति । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ( ६) । सोऽजिह्वो असश्चत, इति । नैतमृषिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तत्संभवस्य व्रतम्, इति । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो, इति । न रिष्यति न व्यथते ( ७) । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चाग्नेः । रथे युक्त्वाऽधितिष्ठति, इति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳशत्या च । तिसृभिश्च वहसे त्रिꣳशता च । नियुद्भिर्वायविह ता विमुञ्च ( ८ ) इति ।। ततक्षुर्धीमहि नाम मे चिकेत गीतं प्रत्यमुञ्चद्व्यथते सप्त च ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

1.12 अनुवाक १२

आतनुष्व प्रतनुष्व । उद्धमाऽऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्, इति । इतः सिक्तꣳ सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं[१४] जनयाग्रेऽग्निम्[१५] । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( १) । एवमेतं निबोधत, इति । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि, इति । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव ताँ३ इमि, इति । अणुभिश्च महद्भिश्च ( २) । निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्राऽऽयाहि सहस्रयुक्, इति । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव, इति । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ( ३) । गौरावस्क-न्दिन्नहल्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण, इति । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते, इति । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । ( ४) उक्तꣳ स्थानं प्रमाणं च पुर इत, इति । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्द्वयोः, इति । उक्तो वेषो वासाꣳसि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्त-रिक्षे शब्दं करोतीति । वासिष्ठो रौहिणो मीमाꣳसां चक्रे । तस्यैषा भवति, इति । वाश्रेव विद्युदिति, इति । ब्रह्मण उदरणमसि । ब्रह्मण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि(५), इति ।। दृश्यते च मेने परां गताश्चक्रे षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

1.13 अनुवाक १३

अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । अष्टयोन्यष्टपुत्राम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत् । अष्टयोनीमष्टपुत्राम् । अरष्टपत्नीममूं दिवम् (१) । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । सुत्रामाणं महीमूषु, इति । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिर्जनित्वम, इति । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवां३ उपप्रैत्सप्तभिः ( २) । परा मार्ताण्डमास्यत्, इति । सप्तभिः पुत्रैरदितिः । उपप्रैत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति, इति । ताननुक्रमिष्यामः, इति । मित्रश्च वरुणश्च । धाता चार्यमा च । अꣳशश्च भगश्च । इन्द्रश्च विवस्वाꣳश्चेत्येते, इति । हिरण्यगर्भो हꣳसः शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति, इति । गर्भः प्राजापत्यः । अथ पुरुषः सप्तपुरुषः ( ३), इति ।। अमूं दिवꣳ सप्तभिरेते चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

1.14 अनुवाक १४

योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः, इति । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणा-नादायास्तमेतिं । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तं गाः, इति । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति (१) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः, इति । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः, इति । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ( २), इति । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ।। इम ऋतवः । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत, इति । अयम् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च (३) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप, इति । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । इयꣳ रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृम् मोत्सृप, इति । ॐ भूर्भुवुः स्वः, इति । एतद्वो मिथुनं मा नो मिथुनꣳ रीढ्वम्, ( ४) इति । प्राणैरापूर्यति मोत्सृपत चोत्सर्पति च मोत्सृप द्वे च ।। उदेत्यस्तमेत्यापूर्यत्यपक्षीयत्यमूनि नक्षत्राणीमे मासा इम ऋतवोऽयꣳ संवत्सर इदमहरियꣳ रात्रिर्दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ।। १४ ।।

1.15 अनुवाक १५

अथाऽऽदित्यस्याष्टपुरुषस्य, इति । वसूनामादित्यानाँ स्थाने स्वतेजसा भानि, इति । रुद्राणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । सताँ सत्यानाम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । संवत्सरस्य सवितुः । आदित्यस्य स्थाने स्वतेजसा भानि, इति । ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनँ रीढ्वम्, ( १) इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि षट् च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।। 1.15

1.16 अनुवाक १६

आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनँ रीढ्वम् ( १), इति । आरोगस्य दश ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके षोडशोऽनुवाकः ।। १६ ।। 1.16

1.17 अनुवाक १७

अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमानानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । व्यवदातानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भ्रानि । रजतानाँ रुद्राणां स्थाने स्वतेजसा भानि । परु- षाणां रुद्राणाँ स्थाने स्वतेजसा भानि । श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । अतिलोहितानाशं रुद्राणां स्थाने स्वतेजसा भानि । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि ( १) । अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । वैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि । प्रभ्राजमानीनां रुद्राणीनां स्थाने स्वतेजसा भानि । व्यवदातीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । परुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । अतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भ्रानि । ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वैद्युतीनाँ रुद्राणीनां स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनं रीढ्वम् ( २), इति । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भान्यतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भानि पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
सप्तदशोऽनुवाकः ।। १७ ।। 1.17

1.18 अनुवाक १८

अथाग्नेरष्टपुरुषस्य, इति । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्तिरा-धस उदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदि श्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ रीढ्वम् ( १), इति ।। स्वरेकं च ।।
एतद्रश्मय आपो रूपाणि दिशः पञ्च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टादशोऽनुवाकः ।। १८ ।।

1.19 अनुवाक १९

दक्षिणपूर्वस्यां दिशि विसर्पी नरकः । तस्मान्नः परिपाहि, इति । दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि, इति। उत्तरपूर्वस्यां दिशि विषादी नरकः । तस्मान्नः परिपाहि, इति । उत्तरापरस्यां दिश्यविषादी नरकः । तस्मान्नः परिपाहि, इति । आ यस्मिन्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ( १), इति ।। दक्षिणपूर्वस्यां नव ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठक एकोनविंशोऽनुवाकः ।। १९ ।। 1.19

1.20 अनुवाक २०

इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यैरुत्तरत उपदधताम् । त्वष्टा वो रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति, इति । आदित्यः सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ( १), इति । दिक्षु, सप्त च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके विंशोऽनुवाकः ।। २० ।। 1.20

1.21 अनुवाक २१

आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्या त्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः ( १) देवीः पर्जन्यसू वरीः । पुत्रवत्त्वाय मे सुत । अपाश्नुष्णिमपा रक्षः । अपाश्नुष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ( २) भद्रं कर्णेभिः शृणुयामं देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३), इति । स्वरुदीषत वातरशनाः षट्च । ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकविंशोऽनुवाकः ।। २१ ।। 1.21



1.22 अनुवाक २२

योऽपां पुष्पं वेद । पुष्पवान्प्रजावान्पशुमान्भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान्प्रजावान्पशुमान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । अग्निर्वा अपामायतनम् । आयतनवान्भवति । योऽग्नेरायतनं वेद ( १) । आयतनवान्भवति । आपो वा अग्नेरायतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । वायुर्वा अपामायतनम् । आयतनवान्भवति । यो वायोरायतनं वेद । आयतनवान्भवति ( २) । आपो वै वायोरायतनम् । आयतनान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । असौ वै तपन्नपामायतनम् । आयतनवान्भवति । योऽमुष्य तपत आयतनं वेद । आयनवान्भवति । आपो वा अमुष्य तपत आयतनम् (३) । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । चन्द्रमा वा अपामायतनम् । आयतनवान्भवति । यश्चन्द्रमस आयतनं वेद । आयतवान्भवति । आपो वै चन्द्रमस आयतनम् । आयतनान्भवति ( ४) । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान्भवति । यो नक्षत्राणामायतनं वेद । आयतनवान्भवति । आपो वै नक्षत्राणामा यतनम् । आयतनवान्भवति । य एवं वेद ( ५), इति । योऽपामायतनं वेद । आयतनवान्भवति । पर्जन्यो वा अपामायतनम् । आयतनवान्भवति । यः पर्जन्यस्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद ( ६) । आयतनवान्भवति । संवत्सरो वा अपामायतनम् । आयतनवान्भवति । यः संवत्सर स्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै संवत्सरस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ( ७) । इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता, इति । अपां रसमुदयं सन् । सूर्ये शुक्रम् समाभृतम् । अपाँ रसस्य यो रसः । तं वो गृह्णाम्युत्तममिति, इति । इमे वै लोका अपाँ रसः । तेऽमुष्मिन्नादित्ये समाभृताः, इति । जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयित्वा गुल्फदघ्नम् । ( ८) । पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सँस्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय,, इति । ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्प्रणीतेऽयमप्सु ह्ययं चीयते । असौ भुवनेऽप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति, इति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । ( ९) अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । एतद्ध स्म वा आहुः शण्डिलाः । कमग्निं चिनुते । सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण, इति । कमग्निं चिनुते । ( १०) नाचिकेतमग्निं चिन्वानः । प्राणान्प्रत्यक्षेण, इति । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । ब्रह्म प्रत्यक्षेण, इति । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । शरीरं प्रत्यक्षेण, इति । कमग्निं चिनुते । उपानुवाक्यमाशुमग्निं चिन्वानः ।( ११) इमाँल्लोकान्प्रत्यक्षेण इति । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति । य एवासौ । इतश्चामुतश्चाव्यतीपाती । तमिति, इति । योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ( १२), इति । वेद भवत्यायतनमायतनवान्भवति वेद वेद तिष्ठति गुल्फदघ्नं चातुर्मास्येष्वमुमादित्यं प्रत्यक्षेण कमग्निं चिनुत उपानुवाक्यमाशुमग्निं चिन्वानो मिथूया मिथुनवान्भवत्येकं च ।। पुष्पमग्निर्वायुरसौ वै तपन्,चन्द्रमा नक्षत्राणि पर्जन्यः संवत्सरस्तिष्ठति सत्रियँ संवत्सरँ सावित्रममुं नाचिकेतं प्राणाँश्चातुर्होत्रियं ब्रह्म वैश्वसृजँ शरीरमुपानुवाक्यमाशुमिमाँल्लोकानिममारुणकेतुकं य एवासौ ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वाविंशोऽनुवाकः ।। 1.२२ ।।

1.23 अनुवाक २३

आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति ।
कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति ।
अन्तरतः कूर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रयोविंशोऽनुवाकः । । 1.२३ ।।

1.24 अनुवाक २४

चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति । आतपति वर्ष्यां गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ( १), इति । कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्वनीरापः । तेज एवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः,इति । स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति, इति । वहन्तीर्गृह्णाति २) । ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः, इति । संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति, इति ।
पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ( ३) । असौ वै पल्वल्याः । अमुष्यामेव प्रतितिष्ठति, इति । दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे, इति । तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन् । तस्मादारुणकेतुकः, इति । तदेषाऽभ्यनूक्ता, इति । कैतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसमिति, इति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद, इति ।। व्रह्मवर्चसितरो वहन्तीर्गृह्णाति ता उपरिष्टादुपादधात्यारुणकेतुकोऽष्टौ च ।।
इति कृप्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके चतुर्विशोऽनुवाकः । । 1.२४ । ।

1.25 अनुवाक २५

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति । पुष्करपर्णं रुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्यं रुक्मः। । अमृतं पुरुषः । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति ( १) । तदवरुन्धे, इति । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै, इति । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया इति । वाय्वश्वा रश्मिपतयः, हति । लोकं पृण च्छिद्रं पृण ( २ । यास्तिस्रः परमजाः, इति । इन्द्रघोषा वो वसुभिरेवा ह्येवेति, इति । पञ्च चितय उपदधाति । पाङ्क्तोऽग्निः। यावानेवाग्निः । तं चिनुते, इति । लोकंपृणया द्वितीयामुपदधाति । पञ्चपदा वै विराट् । तस्या वा इयं पादः । अन्तरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः, इति । विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ।। 1.२५ ।। 1.25

1.26 अनुवाक २६

अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातु र्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । अथ ह स्माऽऽहारुणः स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि,इति । कमग्निं चिनुते ( १) । सत्रियमग्निं चिन्वानः । कमग्निं चिनुते । सावित्रमग्निं चिन्वानः । कमग्निं चिनुते । नाचिकेतमग्निं चिन्वानः । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । कमग्निं चिनुते ( २) । उपानुवाक्यमाशुमग्निं चिन्वानः । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति, इति । वृषा वा अग्निः । वृषाणौ सँस्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः, इति । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्यां ह्यग्निश्चीयते, इति । प्रजाकामश्चिन्वीत ( ३) । प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान्भवति । य एवं वेद, इति । पशुकामश्चिन्वीत । संज्ञानं वा एतत्पशूनाम् । यदापः । पशूनामेव संज्ञानेऽग्निं चिनुते । पशु मान्भवति । य एवं वेद ( ४), इति । वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद, इति । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति, इति । अभिचरँश्चिन्वीत । वज्रो वा आपः ( ५) । वज्रमेव भ्रातृव्येभ्यः प्रहरति । स्तृणुत एनम्, इति । तेजस्काम्रो यशस्कामः । ब्रह्मवर्चसकामः स्वर्गकामश्चिन्वीत । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति । तदवरुन्धे, इति । तस्यैतद्व्रतम् । वर्षति न धावेत् (६) अमृतं वा आपः । अमृतस्यानन्तरित्यै, इति । नाप्सु मूत्रपुरीषं कुर्यात् । न निष्ठीवेत् । न विवसनः स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय, इति । न पुष्करपर्णानि हिरण्यं वाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय, इति । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येन मोदकानि भवन्ति । अघातुका आपः । य एतमग्निं चिनुते । य उ चैनमेवं वेद (७), इति । चिनुते चिनुते प्रजाकामश्चिन्वीत य एवं वेदाऽऽपो धावेदश्नीयाच्चत्वारि च ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके षड्विंशोऽनुवाकः ।। २६ ।। 1.26

1.27 अनुवाक २७

इमा नु कं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः इति । यज्ञं च नः स्तन्व च प्रजां च । आदित्यैरिन्द्रः सह सीषधातु, इति । आदिरत्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम्, इति । आप्लवस्व प्रप्लवस्व । आण्डी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ( १) इति । मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत्, इति । उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सुयुजोषसः इति । युवा सुवासाः, इति । अष्टाचक्रा नवद्वारा ( २) । देवानां पूर-योध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । पुरँ हिरण्मयीं ब्रह्मा ( ३) । विवेशापराजिता, इति । पराङेत्यज्यामयी । पराङेत्यनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान्, इति । यत्कुमारी मन्द्रयते । यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति, इति । अशृतासः शृतासश्च ( ४) । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निं च ये विदुः, इति ।
सिकता इव संयन्ति । रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभिः, इति । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । ( ५) । यमो ददात्ववसानमस्मै, इति । नृ मुणन्तु नृ पात्वर्यः । अक्रृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः, इति । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान्, इति । शतमिन्नु शरदः, इति अदो यद्ब्रह्म विलबम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाम्, इति । कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम । पुत्रानापो देवीरिहाऽऽहिता ( ६), इति ।। पुरं नवद्वारा ब्रह्मा च व्यक्तँ शरदोऽष्टौ च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः ।। २७ ।। 1.27

1.28 अनुवाक २८

विशीर्ष्णी गृध्रशीर्ष्णी च । अपेतो निर्ऋतिँ हथः । परिबाधँ श्वेतकुक्षम् । निजङ्घँ शबलोदरम्,इति । स तान्वाच्यायया सह । अग्ने नाशय संदृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन किँक्षुकावता । अग्ने नाशय संदृशः ( १), इति । इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टाविंशोऽनुवाकः ।। २८ ।। 1.28

1.29 अनुवाक २९

पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु, इति । इदं वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरं तद्युयोत । मयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः,इति । यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् ( १), इति ।। विशीर्ष्णी पर्जन्याय दश दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः ।। २९ ।। 1.29

1.30 अनुवाक ३०

पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा, इति । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे, इति । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसं कुरु (१), इति ।
पुनर्द्वे च ।।
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठके त्रिंशोऽनुवाकः ।। ३० ।। 1.30

1.31 अनुवाक ३१

अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणः सदा । तिरो धेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन, इति । त्वाष्ट्री मायां वैश्रवणः । रथँ सहस्रवन्धुरम् । पुरश्चक्रँ सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम्, इति । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्तिहिण्यमश्वान् ( १) । असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतोऽन्नमुखीं विराजम्, इति । सुदर्शने च क्रौञ्चे च। मैनागे च महागिरौ । सतद्वाट्टारगमन्ता । सँहार्यं नगरं तव, इति । इति मन्त्राः । कल्पोऽत ऊर्ध्वम्, इति । यदि बलिँ हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः(२)। सर्वभूताधिपतये नम इति । अथ बलिँ हृत्वोपतिष्ठेत, इति । क्षत्त्रं क्षत्त्रं वैश्रवणः । ब्राह्मणा वयँ स्मः । नमस्ते अस्तु मा मा हिँसीः । अस्मात्प्रविश्यान्नमद्धीति, इति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः । तिरोधा भुवः ( ३) । तिरोधा स्वः । तिरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति, इति । अथ तमग्निमिन्धति । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहा । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा, इति । यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः (४) । अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुञ्जीत । परः सुप्तजनाद्वेपि, इति । मा स्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थाः सिध्यन्ते । य एवं वेद् । क्षुध्यन्निदमजानताम् । सर्वार्था न सिध्यन्ते, इति । यस्ते विघातुको भ्राता । ममान्तर्हृदय्रे श्रितः ( ५) । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा, इति । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाँ शतधा हि । समाहितासो सहस्र- धायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ६) इति ।। अश्वान्बलिर्भुवो भवेयुः श्रितश्च सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ।। ३१ ।। 1.31

1.32 अनुवाक ३२

संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ, इति । नियमः समासेन, इति । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तः स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुम्बरीभिः समिद्भिरग्निं परिचरेत् । पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ( १) । असंचयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यः संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्ड ऋषयः, इति । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा ( २) । महानाम्नीभिरुदकँ सँस्पर्श्य । तमाचार्यो दद्यात् । शिवा नः शंतमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । कँसं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवँ स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ( ३), इति ।। कुर्वीत जपित्वा स्वाध्यायधर्मेण द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ।। ३२ ।। 1.32
अथ शान्तिः
भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देव हितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।
इति कृष्णयजुर्वेदीय तैत्तिरीयाऽरण्यके प्रथमः प्रपाठकः समाप्तः।।१।।

अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयः प्रपाठकः ।
हरिः ॐ ।
नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते
करोमि ।।
ॐ शान्तिः शान्तिः शान्तिः ।।


  1. कालोपरि टिप्पणी
  2. ऋ. ८.९६.१३, अंशु
  3. तेजश्चाभयदानत्वमद्रोहः कौशलं तथा॥
    अचापल्यमथाक्रोधः प्रियवादश्च सप्तमः॥
    इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः॥ - स्कन्दपुराणम् १.२.४२.१६०
  4. मेरु उपरि टिप्पणी
  5. तैब्रा २.७.१५.३ (यज्ञसंयुक्तालौकिकः राजाभिषेकः)
  6. रेफस्य व्यत्यये सति भस्त्राशब्दो धमनसाधनमित्याचष्टे। यथा चर्ममय्या दृत्या वायुमुत्पाद्य ज्वलितेनाग्निना सुवर्णादेः किट्टादिकमपनीय भस्त्राकर्मकृत्सुवर्णकारः शोधयत्येवं कश्यपसंबन्धकारी सोमस्तान्सूर्यानशोधयत्।
  7. मेरुं कदाचिदप्यपरित्यजन्तमेकं कश्यपाख्यं सूर्यं च गच्छतम्।
  8. भ्राजादयस्त्रयस्ते निहने मेरुमार्गस्य निहतप्रदेशेऽधोभागे तिष्ठन्नातपन्ति अवस्थिताः सन्तो रश्मिभिरधोमुखैर्मेरुमार्गादधोवर्तिनः प्राणिनः सर्वतः प्रकाशयन्ति - सा.भा.
  9. यस्मादेषामधोमुखा रश्मयस्तस्मादिह लोके तप्-त्रितपास्तपनशीलरश्मियुक्ताः। इतरे तु भ्राजपटरपतङ्गेभ्योऽन्ये स्वर्णरज्योतिष्मद्विभासास्त्रयः सूर्यास्तेऽमुत्र मेरुमार्गादुपरिभागे वर्तन्ते। यस्मात्तेषां रश्मय ऊर्ध्वमुखास्तस्मात्ते इहाधोलोकेष्ववतप्-त्रिपास्तपनशीलरश्मियुक्ता न भवन्ति। भ्राजादीनामधोमुखरश्मित्वात्स्वर्णरादीनामूर्ध्वमुखरश्मित्वाच्च वर्गद्वयमध्ये तापाभावाच्छीतलेन मार्गेण मेरुं गन्तुं शक्यते इत्यर्थः - सा.भा.
  10. अथ सूर्याणां मध्यवर्तिमार्गप्रतिपादिकामृचमवतारयति-
  11. आरोगादयः सप्त सूर्या दिवमन्तरिक्षमनुप्रविष्टा अनुक्रमेण व्याप्ताः।
  12. शास्त्रोक्ताबिष्टकादक्षिणायुक्तोऽनुष्ठितारुणकेतुकाग्निः प्रागुक्तान्सप्त सूर्याननुसृत्य पथिभिः सूर्यवर्गद्वयवर्तिभिः शीतैर्मार्गैरेति मेरुं गच्छति।
  13. मेरुमार्गरूपमाकाशं घृतादिभोग्यवस्तुसंपूर्णं यथा भवति तथा प्रकाशयन्ति।
  14. वारादं वरणीयस्य फलस्य आसमन्ताद्दातारं - सा.भा.
  15. आरुणकेतुकरूपम् - सा.भा.