शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search
द्विदेवत्यग्रह२

४.१.४ मैत्रावरुणग्रहः

क्रतूदक्षौ ह वा अस्य मित्रावरुणौ । एतन्न्वध्यात्मं स यदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदस्मै तत्समृध्यते स दक्षो मित्र एव क्रतुर्वरुणो दक्षो ब्रह्मैव मित्रः क्षत्रं वरुणोऽभिगन्तैव ब्रह्म कर्ता क्षत्रियः - ४.१.४.[१]

ते हैतेऽअग्रे नानेवासतुः । ब्रह्म च क्षत्रं च ततः शशाकैव ब्रह्म मित्र ऋते क्षत्राद्वरुणात्स्थातुम् - ४.१.४.[२]

न क्षत्रं वरुणः । ऋते ब्रह्मणो मित्राद्यद्ध किं च वरुणः कर्म चक्रेऽप्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समानृधे - ४.१.४.[३]

स क्षत्रं वरुणः । ब्रह्म मित्रमुपमन्त्रयां चक्र उप माऽऽवर्तस्व संसृजावहै पुरस्त्वा करवै त्वत्प्रसूतः कर्म करवा इति तथेति तौ समसृजेतां तत एष मैत्रावरुणो ग्रहोऽभवत् - ४.१.४.[४]

सो एव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणम्पुरोदधीत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण सं हैवास्मै तदानृधे - ४.१.४.[५]

तत्तदवकॢप्तमेव । यद्ब्राह्मणोऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवकॢप्तं यत्क्षत्रियो ब्राह्मणो भवति यद्ध किं च कर्म कुरुते प्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मऽर्ध्यते - ४.१.४.[६]

अथातो गृह्णात्येव । अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ममेदिह श्रुतं हवमुपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वेति - ४.१.४.[७]

तं पयसा श्रीणाति । तद्यत्पयसा श्रीणाति वृत्रो वै सोम आसीत्तं यत्र देवा अघ्नंस्तम्मित्रमब्रुवंस्त्वमपि हंसीति स न चकमे सर्वस्य वा अहं मित्रमस्मि न मित्रं सन्नमित्रो भविष्यामीति तं वै त्वा यज्ञादन्तरेष्याम इत्यहमपि हन्मीति होवाच तस्मात्पशवोऽपाक्रामन्मित्रं सन्नमित्रोऽभूदिति स पशुभिर्व्यार्ध्यत तमेतद्देवाः पशुभिः समार्धयन्यत्पयसाऽश्रीणंस्तथो एवैनमेष एतत्पशुभिः समर्धयति यत्पयसा श्रीणाति - ४.१.४.[८]

तदाहुः । शश्वद्ध नैव चकमे हन्तुमिति तद्यदेवात्र पयस्तन्मित्रस्य सोम एव वरुणस्य तस्मात्पयसा श्रीणाति - ४.१.४.[९]

स श्रीणाति । राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः तां धेनुम्मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीमेष ते योनिर्ऋतायुभ्यां त्वेति सादयति स यदाहऽर्तायुभ्यां त्वेति ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्मो ह्यृतं वरुण एवायुः संवत्सरो हि वरुणः संवत्सर आयुस्तस्मादाहैष ते योनिर्ऋतायुभ्यां त्वेति - ४.१.४.[१०]