शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १
ब्राह्मण १ ग्रहयागाः
१ ग्रहयागाः - तत्रादौ प्रातःसवनीयाः षोडशग्रहाः-तत्रापि पूर्वं उपांशुग्रहः, वक्ष्यमाणं बहिर्ग्रहणस्य च प्रयोजनं प्राणस्य बहिःसञ्चरणप्राप्तिबन्धनिरासमुपपादयितुमुपोद्घातत्वेनोपांशोः प्राणरूपत्वमुपांशुसवनान्तर्यामयोर्व्यानोदानत्वं चेति निरूपणम्, उक्तस्योपांशोः प्राणत्वस्य प्रश्नोत्तरपूर्वकमुपांशुनामव्युत्पत्त्या समर्थनम्, उक्तस्य प्राणात्मकस्य सोमस्य गुणविशिष्टग्रहणविधानं, पवित्रविरहस्य प्रयोजनकथनं षड्वारमंशुकरणकपावनविधानं, षट्त्वसंख्याया अंशूनामृतुरूपसंपादकत्वेन स्तवनं, आत्तानामंशूनां पुनरपि .सोमे योजनविधानाय याज्ञिकानां जिज्ञासाया अवतारणम्, उक्तप्रश्नस्योत्तरत्वेन सहेतुकं समन्त्रकमुपनिवापविधानम, उपांशुग्रहस्य सवनत्र- यात्मकत्वं प्रातःसवनस्य सवनत्रयात्मकत्वनिदर्शनेन द्रढयितुमाख्यायिकाकथनं, विहिताभिषवपर्यायत्रयमध्ये प्रथमपर्याये संख्याविशेषस्य विधानं, बहिष्पविद्ग्रहणे मन्त्रं विनियुज्य तस्य भागशो व्याख्यानं, द्वितीये पर्याये प्रहारसंख्याविशेषं मन्त्रं च विधाय तत्र मन्त्रस्य भागशो व्याख्यानं, तृतीये पर्याये समन्त्रकं प्रहारसंख्याविशेषविधानं, गृहीतस्य सोमरसस्य होम- करणविधानम् , अभिषवे सार्थवादं काम्यस्य संख्याविशेषस्य विधानं, पर्यायत्रयेऽप्यष्टसंख्याविधेः प्रकारान्तरेण स्तवनम्, अभिषवावृत्तिषु फलान्तराय सार्थवादं संख्यान्तरविधानं, सप्रयोजनं ग्रहणा- नंतरमनुष्ठेयकृत्यविधानं, सादितस्य पात्रस्य समंत्रकं पिधानकथनं, अभिचरता हि प्राणा आकुलीकर्तव्या इत्यस्य सप्रयोजन विधानं, स्वाहाकारोच्चारणानन्तरं समन्त्रकं हविर्धानान्निर्गमनकथनं, सहेतुकं अध्वर्योर्वरवरणविधानं, समन्त्रकं होमं विधाय तत्र मन्त्रं चतुर्धा विभज्य तद्व्याख्यानं, होमानन्तरं ग्रहोन्मार्जनं विधाय तदुत्तरकर्तव्यं समन्त्रकमुपमार्जनविधानं, ' स्वाङ्कृतः ' इत्यस्य होममन्त्रस्याभिष्टवनं, विहितस्य सादनस्योत्तरार्धं स्थानं विधातुं मता- न्तरमनूद्य तन्निरस्य च स्वीयमतस्योप- पत्तिपूर्वकं स्थापनम, उपांशुसवनस्य ग्राव्ण आदानविधानं, दशापवित्रेण तदु- पस्पर्शनस्यनिषेधकथनं, तत्र हेतुकथनं, समन्त्रकं ग्राव्ण आसादनविधानं चेत्यादि. इत्युपांशुग्रहः ।
ब्राह्मण २ अन्तर्यामग्रहः
२ अन्तर्यामग्रहः-तत्र विधास्यमानस्य ग्रहस्य अन्तर्यामताव्युत्पादनायोदानतामन्तर्यामसहचारिणोरुपांशुसवनयोः प्राणव्यानात्मकत्वेन समर्थनम्, उदानात्मकस्याप्यन्तर्यामग्रहस्य कथमेतन्नामेति समर्थयितुं पृच्छाकरणम्, सार्थ- वादमन्तर्यामग्रहस्य ग्रहणविधानम्, प्रस्तुतधारास्रावस्याविच्छेत्वविधानम्, आख्यायिकया पवित्रेणैव सोमस्य शोधने कारणजिज्ञासनम्, प्रतिज्ञापूर्वकं पूतस्य सोमस्योपयामेन ग्रहणे कारणकथनम्, सार्थवादं सहेतुकं ग्रहाणां खरे सादनविधानम्, सार्थवादं सप्रयोजनं उपांश्वन्तर्यामयोर्होमे कालभेदप्रदर्शनम्, उक्तकालविभागस्य प्रकारान्तरेण स्तवनं, विहितमन्तर्यामग्रहणमनूद्य तत्र मन्त्रं विनियुज्य च मंत्रस्य पञ्चधाविभागेन व्याख्यानम्, गृहीतस्यान्तर्यामग्रहस्य समंत्रकं परिमार्जनविधानम्, हेतुपूर्वकमुपांश्वन्तर्यामयोः सादनादिकर्मसमानत्वोपपादनं, होमे शाखान्तरीयमतमुपन्यस्य तन्निरस्य च स्वमते विकल्पेन तूष्णींहोमपक्षं प्रतिपाद्य पक्षान्तरे ' स्वाङ्कृतः ' इत्युपांशुमन्त्रेणैवान्तर्यामग्रहो होतव्य इत्युपपादनम्, सप्रयोजनं सोपपत्तिकं समन्त्रमुपांशौ विहित- योरुन्मार्जनोपमार्जनयोरत्रान्तर्यामे तद्वैलक्षण्यस्य विधानम्, अन्तर्यामस्य तन्मन्त्रस्य च विधिपूर्विका प्रशंसा, तत्रापि सादने विशेषं विधाय तत्प्रशंसनम्, आसादितानामुपांश्वादित्रयाणां तृतीयसवनपर्यन्तं निर्व्यापारतयाऽवस्थाने हेतुनिरूपणं, यज्ञस्य पक्षिरूपताया उदाहरणान्तरेणापि समर्थनम्, पुनस्तेषां त्रयाणां लोकत्रयात्मकत्वेनापि प्रशंसनं चेत्यादि.
ब्राह्मण ३ ऐन्द्रवायवग्रहः
३ ऐन्द्रवायवग्रहः-तत्रैन्द्रवायवग्रहस्योपांश्वादित्रयप्रयोगानन्तर्ये कारणकथनम्, अस्य ग्रहस्य द्विदैवत्यमेन्द्रद्रवायवनामत्वं सर्वेषां पात्राणां वायव्यनामत्वं चेत्यादि- व्युत्पादयितुमाख्यायिका तस्यां चाख्यायिकायां विशेषतः प्रजापतिकृते ऐन्द्रवायवे इन्द्रवाय्वोर्विवादपूर्वकमिन्द्रस्य तुरीयांशभाक्त्वं तुरीयशब्दार्थं चाभिधाय तयोः स्वकीयग्रहभागानुसा- रेण ग्रहांगभूतानामपि मन्त्राणां विभागकथनम्, स्वकीयग्रहादिभागमनुसृत्य वाचश्चतुर्थमेव पदं निरुक्तं स्यादिति कथनम्, उक्तेऽर्थे मन्त्रसम्वाददर्शनम्, इत्थमाख्यायिकया ग्रहस्य देवतादिकं प्रदर्श्य तस्य समन्त्रकं ग्रहणसंस्कारविधानम् तन्मन्त्रार्थकथनं च, तस्य मंत्रतदर्थयुतं पुनर्ग्रहणविधानम्, मंत्र- मन्त्रार्थसहितं गृहीतस्य सोमरसस्य सादनविधानं चेत्यादि.
ब्राह्मण ४ मैत्रावरुणग्रहः
४ मैत्रावरुणग्रहः- तत्र विधास्यमानग्रहस्य देवतायाः प्रशंसापूर्वकं तस्य ग्रहस्यैन्द्रवायव्यानन्तर्ये कारणनिरूपणं, क्रतुदक्षशब्दव्युत्पत्या मित्रावरुणयो- रध्यात्माधिभौतिकरूपत्वस्य सोपपत्तिकमुपपादनम्, अधिभौतिकत्वमाख्यायिकया दृढीकरणपुरःसरं ग्रहस्य द्विदेवत्यत्वप्रतिपादनम्, प्रसंगाद्ब्राह्मणस्य स्वाभाविकज्ञानशक्तिसम्भवात्क्षत्रस्य तदभावात्क्षत्रेण ब्राह्मणोऽनुगंतव्य इति निरूपणम्, एवं ग्रहस्य द्विदेवत्यत्वादिकमभिधाय समन्त्रकं ग्रहणविधानम्, सकारणं गृहीतस्य सोमरसस्य पयसामिश्रणविधानं, प्रकारान्तरेणापि पयसा मिश्रणस्यावश्यकत्वकथनं, विहितं पयसा मिश्रणमनूद्य तत्र मंत्रविधानं, गृहीतस्य सोमरसस्य खरे सादनविधानं चेति
ब्राह्मण ५ आश्विनग्रहः
५ आश्विनग्रहः- तत्र विधित्सितस्याश्विनग्रहस्य भक्षणविध्युपयोगित्वेन श्रोत्रात्मना स्तवनम्, आश्विनग्रहविधायिनी आख्यायिका, आश्विनग्रहग्रहणस्य बहिष्पवमानानन्तर्यरूपकालविधानं, ग्रहीष्यमाणस्याश्विनग्रहस्य होमकालविधानं, प्रसंगादश्विनामप्राप्तेरुपवर्णनं, मंत्रमन्त्रार्थसहितं ग्रहणविधानं, ग्रहणसादनयोर्मधुशब्दप्रयोगास्याभिप्रायाविष्करणं, द्विदेवत्यानां पात्राणां लक्षणाभिधानं चेति