शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

४.१.१ उपांशुग्रहः

प्राणो ह वा अस्योपांशुः । व्यान उपांशुसवन उदान एवान्तर्यामः - ४.१.१.[१]

अथ यस्मादुपांशुर्नाम । अंशुर्वै नाम ग्रहः स प्रजापतिस्तस्यैष प्राणस्तद्यदस्यैष प्राणस्तस्मादुपांशुर्नाम - ४.१.१.[२]

तं बहिष्पवित्राद्गृह्णाति । पराञ्चमेवास्मिन्नेतत्प्राणं दधाति सोऽस्यायं पराङेव प्राणो निरर्दति तमंशुभिः पावयति पूतोऽसदिति षड्भिः पावयति षड्वा ऋतव ऋतुभिरेवैनमेतत्पावयति - ४.१.१.[३]

तदाहुः । यदंशुभिरुपांशुं पुनाति सर्वे सोमाः पवित्रपूता अथ केनास्यांशवः पूता भवन्तीति - ४.१.१.[४]

तानुपनिवपति । यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहेति तदस्य स्वाहाकारेणैवांशवः पूता भवन्ति सर्वं वा एष ग्रहः सर्वेषां हि सवनानां रूपम् - ४.१.१.[५]

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः संस्थापयाम यज्ञं यदि नोऽसुररक्षकान्यासजेयुः संस्थित एव नो यज्ञः स्यादिति - ४.१.१.[६]

ते प्रातःसवन एव । सर्वं यज्ञं समस्थापयन्नेतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेनाचरन्त्स एषोऽप्येतर्हि तथैव यज्ञः संतिष्ठत एतस्मिन्नेव ग्रहे यजुष्टः प्रथमे स्तोत्रे सामतः प्रथमे शस्त्र ऋक्तस्तेन संस्थितेनैवात ऊर्ध्वं यज्ञेन चरति - ४.१.१.[७]

स वा अष्टौ कृत्वोऽभिषुणोति । अष्टाक्षरा वै गायत्री गायत्रं प्रातः सवनम्प्रातःसवनमेवैतत्क्रियते - ४.१.१.[८]

स गृह्णाति । वाचस्पतये पवस्वेति प्राणो वै वाचस्पतिः प्राण एष ग्रहस्तस्मादाह वाचस्पतये पवस्वेति वृष्णो अंशुभ्यां गभस्तिपूत इति सोमांशुभ्यां ह्येनम्पावयति तस्मादाह वृष्णो अंशुभ्यामिति गभस्तिपूत इति पाणी वै गभस्ती पाणिभ्यां ह्येनं पावयति - ४.१.१.[९]

अथैकादश कृत्वोऽभिषुणोति । एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभं माध्यन्दिनं सवनं माध्यन्दिनमेवैतत्सवनं क्रियते - ४.१.१.[१०]

स गृह्णाति । देवो देवेभ्यः पवस्वेति देवो ह्येष देवेभ्यः पवते येषां भागोऽसीति तेषामु ह्येष भागः - ४.१.१.[११]

अथ द्वादश कृत्वोऽभिषुणोति । द्वादशाक्षरा वै जगती जागतं तृतीयसवनं तृतीयसवनमेवैतत्क्रियते - ४.१.१.[१२]

स गृह्णाति । मधुमतीर्न इषष्कृधीति रसमेवास्मिन्नेतद्दधाति स्वदयत्येवैनमेतद्देवेभ्यस्तस्मादेष हतो न पूयत्यथ यज्जुहोति संस्थापयत्येवैनमेतत् - ४.१.१.[१३]

अष्टावष्टौ कृत्वः । ब्रह्मवर्चसकामस्याभिषुणुयादित्याहुरष्टाक्षरा वै गायत्री ब्रह्म गायत्री ब्रह्मवर्चसी हैव भवति - ४.१.१.[१४]

तच्चतुर्विंशतिं कृत्वोऽभिषुतं भवति । चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्सं स्थापयति - ४.१.१.[१५]

पञ्चपञ्च कृत्वः । पशुकामस्याभिषुणुयादित्याहुः पाङ्क्ता पशवः पशून्हैवावरुन्द्धे पञ्च वा ऋतवः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत्संस्थापयति सोऽएषा मीमांसैवेतरं त्वेव क्रियते - ४.१.१.[१६]

तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति तं न सादयति प्राणो ह्यस्यैष तस्मादयमसन्नः प्राणः संचरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वा प्राणं सादयामीति तथाह तस्मिन्न पुनरस्ति यन्नानुसृजति तेनो अध्वर्युश्च यजमानश्च ज्योग्जीवतः - ४.१.१.[१७]

अथो अप्येवैनं दध्यात् । अमुष्य त्वा प्राणमपिदधामीति तथाह तस्मिन्न पुनरस्ति यन्न सादयति तेनो प्राणान्न लोभयति - ४.१.१.[१८]

स वा अन्तरेव सन्त्स्वाहेति करोति । देवा ह वै बिभयांचक्रुर्यद्वै नः पुरैवास्य ग्रहस्य होमादसुररक्षसानीमं ग्रहं न हन्युरिति तमन्तरेव सन्तः स्वाहाकारेणाजुहवुस्तं हुतमेव सन्तमग्नावजुहवुस्तथो एवैनमेष एतदन्तरेव सन्त्स्वाहाकारेण जुहोति तं हुतमेव सन्तमग्नौ जुहोति - ४.१.१.[१९]

अथोपनिष्क्रामति । उर्वन्तरिक्षमन्वेमीत्यन्तरिक्षं वा अनु रक्षश्चरत्यमूलमुभयतः परिच्छिन्नं यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरत्येतद्वै यजुर्ब्रह्म रक्षोहा स एतेन ब्रह्मणान्तरिक्षमभयमनाष्ट्रं कुरुते - ४.१.१.[२०]

अथ वरं वृणीते । बलवद्ध वै देवा एतस्य ग्रहस्य होमं प्रेप्सन्ति तेऽस्मा एतं वरं समर्धयन्ति क्षिप्रे न इमं ग्रहं जुहवदिति तस्माद्वरं वृणीते - ४.१.१.[२१]

स जुहोति । स्वांकृतोऽसीति प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयंजातस्तस्मादाह स्वांकृतोऽसीति विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इति सर्वाभ्यो ह्येष प्रजाभ्यः स्वयं जातो मनस्त्वाष्टु इति प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुतामित्येवैतदाह स्वाहा त्वा सुभव सूर्यायेति तदवरं स्वाहाकारं करोति परां देवताम् - ४.१.१.[२२]

अमुष्मिन्वा एतमहौषीत् । य एष तपति सर्वं वा एष तदेनं सर्वस्यैवपरार्ध्यं करोत्यथ यदवरां देवतां कुर्यात्परं स्वाहाकारं स्यादु हैवामुष्मादादित्यात्परं तस्मादवरं स्वाहाकारं करोति परां देवताम् - ४.१.१.[२३]

अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि । पराञ्चमेवास्मिन्नेतत्प्राणं दधात्यथोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि पराञ्चमेवास्मिन्नेतत्प्राणं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति - ४.१.१.[२४]

अमुष्मिन्वा एतं मण्डलेऽहौषीत् । य एष तपति तस्य ये रश्मयस्ते देवा मरीचिपास्तानेवैतत्प्रीणाति त एनं देवाः प्रीताः स्वर्गं लोकमभिवहन्ति - ४.१.१.[२५]

तस्य वा एतस्य ग्रहस्य । नानुवाक्यास्ति न याज्या तं मन्त्रेण जुहोत्येतेनो हास्यैषो ऽनुवाक्यवान्भवत्येतेन याज्यवानथ यद्यभिचरेद्योऽस्यांशुराश्लिष्टः स्याद्बाह्वोर्वोरसि वा वाससि वा तं जुहुयाद्देवांशो यस्मै त्वेडे तत्सत्यमुपरिप्रुता भङ्गेन हतोऽसौ फडिति यथा ह वै हन्यमानानामपधावेदेवमेषोऽभिषूयमाणानां स्कन्दति तथा ह तस्य नैव धावन्नापधावत्परिशिष्यते यस्मा एवं करोति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः - ४.१.१.[२६]

दक्षिणार्धे हैके सादयन्ति । एतां ह्येष दिशमनु संचरतीति तदु तथा न कुर्यादुत्तरार्ध एवैनं सादयेन्नो ह्येतस्या आहुतेः का चन परास्ति तं सादयति प्राणाय त्वेति प्राणो ह्यस्यैषः - ४.१.१.[२७]

अथोपांशुसवनमादत्ते । तं न दशाभिर्न पवित्रेणोपस्पृशति यथा ह्यद्भिः प्रणिक्तमेवं तद्यद्यंशुराश्लिष्टः स्यात्पाणिनैव प्रध्वंस्योदञ्चमुपनिपादयेद्व्यानाय त्वेति व्यानो ह्यस्यैषः - ४.१.१.[२८]