शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ३

विकिस्रोतः तः
Jump to navigation Jump to search
ऐन्द्रवायवग्रह। द्विदेवत्यग्रह १
निष्क्रियक्षणेषु द्विदेवत्यग्रहाः.

४.१.३ ऐन्द्रवायवग्रहः

वाग्घ वा अस्यैन्द्रवायवः । एतन्न्वध्यात्ममिन्द्रो ह यत्र वृत्राय वज्रम्प्रजहार सोऽबलीयान्मन्यमानो नास्तृषीतीव बिभ्यन्निलयां चक्रे तदेवापि देवा अपन्यलयन्त - ४.१.३.[१]

ते ह देवा ऊचुः । न वै हतं वृत्रं विद्म न जीवं हन्त न एको वेत्तु यदि हतो वा
वृत्रो जीवति वेति - ४.१.३.[२]

ते वायुमब्रुवन् । अयं वै वायुर्योऽयं पवते वायो त्वमिदं विद्धि यदि हतो वा वृत्रो जीवति वा त्वं वै न आशिष्ठोऽसि यदि जीविष्यति त्वमेव क्षिप्रम्पुनरागमिष्यसीति - ४.१.३.[३]

स होवाच । किं मे ततः स्यादिति प्रथमवषट्कार एव ते सोमस्य राज्ञ इति तथेत्येयाय वायुरैद्धतं वृत्रं स होवाच हतो वृत्रो यद्धते कुर्यात् तत्कुरुतेति - ४.१.३.[४]

ते देवा अभ्यसृज्यन्त । यथा वित्तिं वेत्स्यमाना एवं स यमेकोऽलभत स एकदेवत्योऽभवद्यं द्वौ स द्विदेवत्यो यं बहवः स बहुदेवत्यस्तद्यदेनम्पात्रैर्व्यगृह्णत तस्माद्ग्रहा नाम - ४.१.३.[५]

स एषामापूयत् । स एनाञ्छुक्तः पूतिरभिववौ स नालमाहुत्या आस नालं भक्षाय - ४.१.३.[६]

ते देवा वायुमब्रुवन् । वायविमं नो विवाहीमं नः स्वदयेति स होवाच किं मे ततः स्यादिति त्वयैवैतानि पात्राण्याचक्षीरन्निति तथेति होवाच यूयं तु मे सच्युपवातेति - ४.१.३.[७]

तस्य देवाः । यावन्मात्रमिव गन्धस्यापजघ्नुस्तं पशुष्वदधुः स एष पशुषु कुणपगन्धस्तस्मात्कुणपगन्धान्नापिगृह्णीत सोमस्य हैष राज्ञो गन्धः - ४.१.३.[८]

नो एव निष्ठीवेत् । तस्माद्यद्यप्यासक्त इव मन्येताभिवातं परीयाच्छ्रीर्वै सोमः पाप्मा यक्ष्मः स यथा श्रेयस्यायति पापीयान्प्रत्यवरोहेदेवं हास्माद्यक्ष्मः प्रत्यवरोहति - ४.१.३.[९]

अथेतरं वायुर्व्यवात् । तदस्वदयत्ततोऽलमाहुत्या आसालं भक्षाय तस्मादेतानि नानादेवत्यानि सन्ति वायव्यानीत्याचक्षते सोऽस्यैष प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते - ४.१.३.[१०]

इन्द्रो ह वा ईक्षां चक्रे । वायुर्वै नोऽस्य यज्ञस्य भूयिष्ठभाग्यस्य प्रथमवषट्कारश्च सोमस्य राज्ञ एतान्यु एनेन पात्राण्याचक्षते हन्तास्मिन्नपित्वमिच्छा इति - ४.१.३.[११]

स होवाच । वायवा माऽस्मिन्ग्रहे भजेति किं ततः स्यादिति निरुक्तमेव वाग्वदेदिति
निरुक्तं चेद्वाग्वदेदा त्वा भजामीति तत एष ऐन्द्रवायवो ग्रहोऽभवद्वायव्यो हैव ततः पुरा - ४.१.३.[१२]

स इन्द्रोऽब्रवीत् । अर्धं मेऽस्य ग्रहस्येति तुरीयमेव त इति वायुरर्धमेव म इतीन्द्रस्तुरीयमेव त इति वायुः - ४.१.३.[१३]

तौ प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापतिर्ग्रहं द्वेधा चकार स होवाचेदं वायोरित्यथ पुनरर्धं द्वेधा चकार स होवाचेदं वायोरितीदं तवेतीन्द्रतुरीयमेव भाजयांचकार यद्वै चतुर्थं तत्तुरीयं तत एष ऐन्द्रतुरीयो ग्रहोऽभवत् - ४.१.३.[१४]

तस्य वा एतस्य ग्रहस्य । द्वे पुरोरुचौ वायव्यैव पूर्वा ऐन्द्रवायव उत्तरा द्वे अनुवाक्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरा द्वौ प्रैषौ वायव्य एव पूर्व ऐन्द्रवायव उत्तरो द्वे याज्ये वायव्यैव पूर्वैन्द्रवायव्युत्तरैवमेनं तुरीयं तुरीयमेव भाजयांचकार - ४.१.३.[१५]

स होवाच । तुरीयंतुरीयं चेन्मामबीभजुस्तुरीयमेव तर्हि वाङ्निरुक्तं वदिष्यतीति तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यद्वयांसि वदन्त्यथैतत्तुरीयं वाचोऽनिरुक्तं यदिदं क्षुद्रं सरीसृपं वदति - ४.१.३.[१६]

तस्मादेतदृषीणाभ्यनूक्तम् । चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा येमनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति - ४.१.३.[१७]

अथातो गृह्णात्येव । आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार उपो तेऽअन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयं वायवे त्वेति - ४.१.३.[१८]

अथापगृह्य पुनरानयति । इन्द्रवायू इमे सुता उप प्रयोभिरागतम्। इन्दवो वामुशन्ति हि । उपयामगृहीतोऽसि वायव इन्द्रवायुभ्यां त्वैष ते योनिः सजोषोभ्यां त्वेति सादयति स यदाह सजोषोभ्यां त्वेति यो वै वायुः स इन्द्रो य इन्द्रः स वायुस्तस्मादाहैष ते योनिः सजोषोभ्यां त्वेति - ४.१.३.[१९]



[सम्पाद्यताम्]

टिप्पणी

प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति प्राणैर्वा एतद्धोतारं अभिधिनोति, वषट्कारे वषट्कारे वै होता प्राणस्यान्तं गच्छति, प्राणा वै द्विदेवत्या , यदध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारं अभ्याद्रवति, प्राणैर्वा एतद्धोतारं अभिधिनोति, प्राणा वै द्विदेवत्याः, पशवा इडा, यद् द्विदेवत्यानभक्षयित्वेडामुपह्वयेत पशुभिः प्राणानन्तरियात् , अथ यद् द्विदेवत्यान् भक्षयित्वेडामुपह्वयते प्राणान् वा एतदात्मन् धित्वाथ पशून् उपह्वयते , इन्द्रियं वै सोमः, पशव इन्द्रियम् , यत् सोमं भक्षयति इन्द्रियमेवात्मन्धत्ते - मैसं ४.६.१

वायु उपरि टिप्पणी

ऐन्द्रवायवोपरि टिप्पणी

स यस्स आकाश इन्द्र एव सः स यस्स इन्द्रस्सामैव तत् १ तास्यैतस्य साम्न इयमेव प्राची दिग्घिङ्कार इयम्प्रस्ताव इयमादिरियमुद्गीथोऽसौ प्रतिहारोऽन्तरिक्षमुपद्र व इयमेव निधनम् २ तदेतत्सप्तविधं साम स य एवमेतत्सप्तविधं साम वेद यत्किं च प्राच्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं हिङ्कारेणाप्नोति ३ अथ यद्दक्षिणायं दिशि तत्सर्वम्प्रस्तावेनाप्नोति ४ अथ यत्प्रतीच्यां दिशि तत्सर्वमादिनाप्नोति ५ अथ यदुदीच्यां दिशि तत्सर्वमुद्गीथेनाप्नोति ६ अथ यदमुष्यां दिशि तत्सर्वम्प्रतिहारेणाप्नोति ७ अथ यदन्तरिक्षे तत्सर्वमुपद्रवेणाप्नोति ८ अथ यदस्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं निधनेनाप्नोति - जैउब्रा. १.१०.१.१। वायुर्हिंकर्त्ता - तैसं. ३.३.२.१

यद्वै पात्रं रिक्तमनुन्मुक्तं तदनु रक्षांसि यज्ञं अवयन्ति, यदैन्द्रवायवे पुरोडाशमवदधाति मैत्रावरुणे पयस्यामाश्विने धानां, अरिक्तत्वाय, वि वा एतद्यज्ञश्छिद्यते यत्सवनानि संतिष्ठन्ते, यदेतानि पात्राण्या तृतीयात्सवनात् परिशेरे, यज्ञस्य संतत्या अविछेदाय - मैसं ४.६.२