महाभारतम्-06-भीष्मपर्व-121
← भीष्मपर्व-120 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-121 वेदव्यासः |
भीष्मपर्व-122 → |
|
तृषार्तेन भीष्मेण पानीययाचनम् ।। 1 ।। राजभिः कलशेनानीते जले भीष्मेण तन्निन्दनपूर्वकमर्जुनंप्रति याचनम् ।। 2 ।। अर्जुनेन पर्यन्यास्त्रेण भूमिंभित्त्वोत्थापितसलिलधारया भीष्मस्य तृष्णाशमनम् ।। 3 ।। भीष्मेण दुर्योधनंप्रति अर्जुनप्रशंसनपूर्वकं पाण्डवैः सह शमोपदेशः ।। 4 ।।
सञ्जय उवाच। | 6-121-1x |
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः। पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम् ।। | 6-121-1a 6-121-1b |
तं वीरशयने वीरं शयानं कुरुसत्तम। अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ।। | 6-121-2a 6-121-2b |
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः ।। | 6-121-3a 6-121-3b |
स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः । समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ।। | 6-121-4a 6-121-4b |
तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः। शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ।। | 6-121-5a 6-121-5b |
उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते। आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ।। | 6-121-6a 6-121-6b |
अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्। अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ।। | 6-121-7a 6-121-7b |
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ।। | 6-121-8a 6-121-8b |
विबभौ च नृपाणां सा गङ्गासुतमुपासताम्। देवानामिव देवेशं पितामहमुपासताम् ।। | 6-121-9a 6-121-9b |
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ । अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत् ।। | 6-121-10a 6-121-10b |
शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः । पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत ।। | 6-121-11a 6-121-11b |
ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः । भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान् ।। | 6-121-12a 6-121-12b |
उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्। न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः ।। | 6-121-13a 6-121-13b |
अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्। प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ।। | 6-121-14a 6-121-14b |
` सञ्जय उवाच। | 6-121-15x |
एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः। पयः पास्यामि गोपाला गोमयं न तु गोमयम्। गोपयेनाग्निवर्णेन गोमयं न तु गोमयम् ।।' | 6-121-15a 6-121-15b 6-121-15c |
एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान्। अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ।। | 6-121-16a 6-121-16b |
अथोपेत्य महाबाहुरभिवाद्य पितामहम् । अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ।। | 6-121-17a 6-121-17b |
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्। अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ।। | 6-121-18a 6-121-18b |
दह्यतीव शरीर मे संवृतस्य तवेषुभिः। मर्माणि परिदूयन्ते मुखं च परिशुष्यति ।। | 6-121-19a 6-121-19b |
वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन। त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ।। | 6-121-20a 6-121-20b |
सञ्जय उवाच। | 6-121-21x |
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्। अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ।। | 6-121-21a 6-121-21b |
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ।। | 6-121-22a 6-121-22b |
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः। शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ।। | 6-121-23a 6-121-23b |
संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः। पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः।। | 6-121-24a 6-121-24b |
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे । उत्पपात ततो धारा वारिणो विमला शुभा ।। | 6-121-25a 6-121-25b |
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च । अतर्पयत्ततः पार्थः शीतया जलधारया ।। | 6-121-26a 6-121-26b |
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् । कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः ।। | 6-121-27a 6-121-27b |
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः । तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ।। | 6-121-28a 6-121-28b |
संप्रावेपन्त कुरवो गावः शीतार्दिता इव। विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ।। | 6-121-29a 6-121-29b |
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्। तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् ।। | 6-121-30a 6-121-30b |
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव । नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ।। | 6-121-31a 6-121-31b |
कथितो नारदेनासि पूर्वर्षिरमितद्युते । वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ।। | 6-121-32a 6-121-32b |
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् । विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ।। | 6-121-33a 6-121-33b |
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ।। | 6-121-34a |
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः। सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ।। | 6-121-35a 6-121-35b |
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां ।। | 6-121-36a 6-121-36b |
न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव। द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः सञ्जयेनापि चोक्तम् ।। | 6-121-37a 6-121-37b 6-121-37c 6-121-37d |
परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो न च तच्छ्रद्दधाति। स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः ।। | 6-121-38a 6-121-38b 6-121-38c 6-121-38d |
सञ्जय उवाच। | 6-121-39x |
एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव। तमब्रविच्छान्तनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः ।। | 6-121-39a 6-121-39b 6-121-39c 6-121-39d |
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता। जलस्य धारा जनिता शीतस्यामृतगन्धिनः ।। | 6-121-40a 6-121-40b |
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते। आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।। | 6-121-41a 6-121-41b |
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः । धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा।। | 6-121-42a 6-121-42b |
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः। कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ।। | 6-121-43a 6-121-43b |
अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन । अमानुषाणि कर्माणि यस्यैतानि महात्मनः ।। | 6-121-44a 6-121-44b |
तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना । जिष्णुना समरे राजन्संधिर्भवतु मा चिरम् ।। | 6-121-45a 6-121-45b |
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम। तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ।। | 6-121-46a 6-121-46b |
यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः । नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम् ।। | 6-121-47a 6-121-47b |
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः । नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ।। | 6-121-48a 6-121-48b |
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् । युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम् ।। | 6-121-49a 6-121-49b |
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः। यावच्चमूं महाराज नाशयन्ति न सर्वशः ।। | 6-121-50a 6-121-50b |
तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते। युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ।। | 6-121-51a 6-121-51b |
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ। एतत्क्षममहं मन्ये तव चैव कुलस्य च ।। | 6-121-52a 6-121-52b |
त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन । भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन्प्रसीद ।। | 6-121-53a 6-121-53b 6-121-53c 6-121-53d |
राज्यस्यार्दं दीयतां पाण्डवाना- मिन्द्रप्रस्थं धरमराजोऽभियातु। मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र।। | 6-121-54a 6-121-54b 6-121-54c 6-121-54d |
ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पाण्डवाः प्रीतिमन्तः। पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन् ।। | 6-121-55a 6-121-55b 6-121-55c 6-121-55d |
न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या । तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि ।। | 6-121-56a 6-121-56b 6-121-56c 6-121-56d |
सञ्जय उवाच। | 6-121-57x |
एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा। तूष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां संनियम्य ।। | 6-121-57a 6-121-57b 6-121-57c 6-121-57d |
धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् । नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ।। | 6-121-58a 6-121-58b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि एकविंशत्यधिकशततमोऽध्यायः । |
6-121-4 पृधग्जनाः प्राकृता जनाः। भूतानि प्राणिनो गन्धर्वादीनि वा। तमोनुदं सूर्यम् ।। 6-121-19 परिदूयन्ते परितप्यन्ते ।। 6-121-27 विकुर्वतो विशेषेण कुर्वतः ।। 6-121-29 व्याविध्यन्भ्रामितवन्तः ।। 6-121-33 निधनं निधनहेतुः। तद्विदो देवरहस्यज्ञाः ।। 6-121-35 जगति भूलोके ।। 6-121-52 क्षेममिति पाठे हितं ।। 6-121-53 फल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु। चशब्दादेतावतां भ्रातॄणामन्तादपीति ।। 6-121-57 योज्ययोगधारणायुक्तं कृत्वा ।। 6-121-58 धर्मार्थेति श्लोकः झo पुस्त एवास्ति ।।
भीष्मपर्व-120 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-122 |