महाभारतम्-06-भीष्मपर्व-044
पठन सेटिंग्स
← भीष्मपर्व-043 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-044 वेदव्यासः |
भीष्मपर्व-045 → |
|
कुरुपाण्डवसेनयोर्युद्धारम्भः ।। 1 ।।
धृतराष्ट्र उवाच। | 6-44-1x |
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ।। | 6-44-1a 6-44-1b |
सञ्जय उवाच। | 6-44-2x |
भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ।। | 6-44-2a 6-44-2b |
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः । भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ।। | 6-44-3a 6-44-3b |
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः । भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ।। | 6-44-4a 6-44-4b |
उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन्। वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत् ।। | 6-44-5a 6-44-5b |
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ।। | 6-44-6a 6-44-6b 6-44-6c 6-44-6d |
नरेन्द्र नागाश्वरताकुलाना- मभ्यागतानामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ।। | 6-44-7a 6-44-7b 6-44-7c 6-44-7d |
तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे। भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ।। | 6-44-8a 6-44-8b |
शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम्। सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ।। | 6-44-9a 6-44-9b |
हयानां हेषमाणानामनीकेषु सहस्रशः । सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ।। | 6-44-10a 6-44-10b |
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः । जीमूतस्येव नदतः शक्राशनिसमस्वनम् ।। | 6-44-11a 6-44-11b |
वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः । शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः ।। | 6-44-12a 6-44-12b |
दर्शयन्घोरमात्मानं महाभ्रमिव नादयन्। विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ।। | 6-44-13a 6-44-13b |
तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् । छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ।। | 6-44-14a 6-44-14b |
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः । दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ।। | 6-44-15a 6-44-15b |
विविंशतिश्चित्रसेनो विकर्णश्च महारथः । पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ।। | 6-44-16a 6-44-16b |
महाचापानि धुन्वन्तो मेघा इव सविद्युतः । आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ।। | 6-44-17a 6-44-17b |
अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः । नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।। | 6-44-18a 6-44-18b |
धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः । वज्रैरिव महावेगैः शिखराणि धराभृताम् ।। | 6-44-19a 6-44-19b |
तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने। तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ।। | 6-44-20a 6-44-20b |
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ । निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ।। | 6-44-21a 6-44-21b |
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा। विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात् ।। | 6-44-22a 6-44-22b |
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत। ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ।। | 6-44-23a 6-44-23b |
ततस्ते जातसंरम्भाः परस्परकृतागसः । अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ।। | 6-44-24a 6-44-24b |
कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले । शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ।। | 6-44-25a 6-44-25b |
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः । सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ।। | 6-44-26a 6-44-26b |
युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः । विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ।। | 6-44-27a 6-44-27b |
उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः । अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ।। | 6-44-28a 6-44-28b |
प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि। नात्र स्वेषां परेषां वा विशेषः समदृश्यत ।। | 6-44-29a 6-44-29b |
तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये। अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ।। | 6-44-30a 6-44-30b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुश्चत्वारिंशोऽध्यायः ।। |
6-44-6 महान् समुच्छ्रयः संप्रहारो यत्र ।। 6-44-9 अभ्यभूत् अभिभूतवान् ।। 6-44-14 सोदर्याः राजानुजाः ।। 6-44-21 निमित्तं लक्ष्यम् ।। 6-44-25 पटे इति सप्तम्यन्तम् ।। 6-44-28 सैन्येन सेनाभवेन ।। 6-44-30 अति अतिक्रम्य ।।
भीष्मपर्व-043 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-045 |