महाभारतम्-06-भीष्मपर्व-039
पठन सेटिंग्स
← भीष्मपर्व-038 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-039 वेदव्यासः |
भीष्मपर्व-040 → |
|
एकोनचत्वारिंशोऽध्यायः ।। भगवद्गीताध्यायः ।। 15 ।।
श्रीभगवानुवाच। | 6-39-1x |
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। | 6-39-1a 6-39-1b |
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ।। | 6-39-2a 6-39-2b 6-39-2c 6-39-2d |
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्वा ।। | 6-39-3a 6-39-3b 6-39-3c 6-39-3d |
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ।। | 6-39-4a 6-39-4b 6-39-4c 6-39-4d |
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वद्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् ।। | 6-39-5a 6-39-5b 6-39-5c 6-39-5d |
न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। | 6-39-6a 6-39-6b |
ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।। | 6-39-7a 6-39-7b |
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।। | 6-39-8a 6-39-8b |
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते ।। | 6-39-9a 6-39-9b |
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।। | 6-39-10a 6-39-10b |
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ।। | 6-39-11a 6-39-11b |
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मार्मकम् ।। | 6-39-12a 6-39-12b |
गामाविश्य च भूतानि धारयम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ।। | 6-39-13a 6-39-13b |
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। | 6-39-14a 6-39-14b |
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।। | 6-39-15a 6-39-15b 6-39-15c 6-39-15d |
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। | 6-39-16a 6-39-16b |
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। | 6-39-17a 6-39-17b |
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रस्थितः पुरुषोत्तमः ।। | 6-39-18a 6-39-18b |
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ।। | 6-39-19a 6-39-19b |
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एवद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।। | 6-39-20a 6-39-20b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकोनचत्वारिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगोनाम पञ्चशोऽध्यायः ।। |
6-39-3 न च संप्रविष्टः इति माध्वपाठः ।। 6-39-* पुराणपुरुषोत्तमयोयोनाम इति माध्वपाठः ।।
भीष्मपर्व-038 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-040 |