महाभारतम्-06-भीष्मपर्व-118
पठन सेटिंग्स
← भीष्मपर्व-117 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-118 वेदव्यासः |
भीष्मपर्व-119 → |
|
भीष्मपराक्रमवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-118-1x |
असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु । ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ।। | 6-118-1a 6-118-1b |
च ह्यनीकमनीकेषु समसञ्जत संकले । रथा न रथिभिः सार्धं पादाता न पदातिभिः ।। | 6-118-2a 6-118-2b |
अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः । उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ।। | 6-118-3a 6-118-3b |
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत । नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ।। | 6-118-4a 6-118-4b |
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत । ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ।। | 6-118-5a 6-118-5b |
दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् । पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ।। | 6-118-6a 6-118-6b |
सा वध्यमाना समरे पाण्डुसेना महात्मभिः । त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ।। | 6-118-7a 6-118-7b |
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति | 6-118-8a 6-118-8b |
तथैव तव सैन्यस्य पार्थेन च महात्मना। नवमेघप्रतीकाशाः पातिता बहुधा गजाः ।। | 6-118-9a 6-118-9b |
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः । इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ।। | 6-118-10a 6-118-10b |
पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः । आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ।। | 6-118-11a 6-118-11b |
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । तस्मिन्नेव महाराज महावीरवरक्षये ।। | 6-118-12a 6-118-12b |
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये । ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ।। | 6-118-13a 6-118-13b |
अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः । इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ।। | 6-118-14a 6-118-14b |
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये । पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ।। | 6-118-15a 6-118-15b |
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप । भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ।। | 6-118-16a 6-118-16b |
तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्। सेनापतिस्तु समरे प्राह सेनां महारथः ।। | 6-118-17a 6-118-17b |
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह । सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ।। | 6-118-18a 6-118-18b |
अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः । वध्यमानस्ततो राजन्पिता शान्तनवस्तव ।। | 6-118-19a 6-118-19b |
अमर्षवशमापन्नो योधयामास सृञ्जयान्। तस्य कीर्तिमतस्तात पुरा रामेण धीमता।। | 6-118-20a 6-118-20b |
संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी । स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ।। | 6-118-21a 6-118-21b |
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भीष्मो दशसहस्राणि जघान परवीरहा ।। | 6-118-22a 6-118-22b |
तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ । एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ।। | 6-118-23a 6-118-23b |
गजाश्वममितं हत्वा हत्वा सप्त महारथान् । हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ।। | 6-118-24a 6-118-24b |
नराणां च महायुद्धे सहस्राणि चतुर्दश । दन्तिनां च सहस्राणि हयानामयुतं पुनः ।। | 6-118-25a 6-118-25b |
शिक्षबलेन न्यहनत्पिता तव विशांपते । ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ।। | 6-118-26a 6-118-26b |
विराटस्य प्रियो भ्राता शतानीको निपातितः। शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ।। | 6-118-27a 6-118-27b |
सहस्राणि महाराज राज्ञां भल्लैरपातयत्। उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ।। | 6-118-28a 6-118-28b |
ये च केचन पार्थानामभियाता धनञ्जयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम् ।। | 6-118-29a 6-118-29b |
किरन्दश दिशो भीष्मः शरजालैः समन्ततः । अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ।। | 6-118-30a 6-118-30b |
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ।। | 6-118-31a 6-118-31b |
न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् । मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ।। | 6-118-32a 6-118-32b |
यथा दैत्यचमूं शक्रस्तापयामास संयुगे । तथा भीष्मः पाण्डवेयांस्तापयामास भारत ।। | 6-118-33a 6-118-33b |
तथा चैनं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ।। | 6-118-34a 6-118-34b |
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः । सन्निहत्य बलादेनं विजयस्ते भविष्यति ।। | 6-118-35a 6-118-35b |
बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ।। | 6-118-36a 6-118-36b |
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ।। | 6-118-37a 6-118-37b |
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ।। | 6-118-38a 6-118-38b |
ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ।। | 6-118-39a 6-118-39b |
यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ।। | 6-118-40a 6-118-40b |
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । विराटश्च महाराज पाण्डवेया महाबलाः ।। | 6-118-41a 6-118-41b |
एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ।। | 6-118-42a 6-118-42b |
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ।। | 6-118-43a 6-118-43b |
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ।। | 6-118-44a 6-118-44b |
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ।। | 6-118-45a 6-118-45b |
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना । अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ।। | 6-118-46a 6-118-46b |
ददृशुः समरे भीष्मं समुद्यतमहायुधम् । ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ।। | 6-118-47a 6-118-47b |
बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः । विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ।। | 6-118-48a 6-118-48b |
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् । चक्रे शरविघातं च क्रीडन्निव पितामहः ।। | 6-118-49a 6-118-49b |
नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ।। | 6-118-50a 6-118-50b |
जघान द्रुपदानीके रथान्सप्त महारथः । ततः किलकिलाशब्दः क्षणेन समभूत्तदा ।। | 6-118-51a 6-118-51b |
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् । ते नराश्वरथव्रातैर्मार्गणैश्च परंतप ।। | 6-118-52a 6-118-52b |
तमेकं छादयामासुर्मेघा इव दिवाकरम् । भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ।। | 6-118-53a 6-118-53b |
ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ।। | 6-118-54a 6-118-54b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ।। |
6-118-1 अनिवर्तिषु इति झo पाठः ।। 6-118-4 व्यतिकरः क्षोभः ।। 6-118-49 अदीनात्मा अक्षीणस्वभावः ।।
भीष्मपर्व-117 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-119 |