महाभारतम्-06-भीष्मपर्व-112
पठन सेटिंग्स
← भीष्मपर्व-111 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-112 वेदव्यासः |
भीष्मपर्व-113 → |
|
द्रोणेनाश्वत्थामानंप्रति दुर्निमित्तप्रदर्शपूर्वकं युद्धानुशासनम् ।। 1 ।।
सञ्जय उवाच। | 6-112-1x |
अथ वीरो महेष्वासो मत्तवारणविक्रमः। समादाय महच्चापं मत्तवारणवारणम् ।। | 6-112-1a 6-112-1b |
विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् । पृतनां पाण्डवेयानां गाहमानो महाबलः ।। | 6-112-2a 6-112-2b |
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् । प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ।। | 6-112-3a 6-112-3b |
द्रोण उवाच। | 6-112-4x |
अयं हि दिवसस्तात यत्र पार्थो महाबलः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ।। | 6-112-4a 6-112-4b |
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च । योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ।। | 6-112-5a 6-112-5b |
दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ।। | 6-112-6a 6-112-6b |
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिः कम्पतीव च सर्वशः ।। | 6-112-7a 6-112-7b |
कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ।। | 6-112-8a 6-112-8b |
पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ।। | 6-112-9a 6-112-9b |
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ।। | 6-112-10a 6-112-10b |
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ।। | 6-112-11a 6-112-11b |
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् । अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ।। | 6-112-12a 6-112-12b |
वपूंषि च नरेन्द्राणां विगताभानि लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ।। | 6-112-13a 6-112-13b |
सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ।। | 6-112-14a 6-112-14b |
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ।। | 6-112-15a 6-112-15b |
हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ।। | 6-112-16a 6-112-16b |
तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः।। | 6-112-17a 6-112-17b |
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ।। | 6-112-18a 6-112-18b |
असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः । न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ।। | 6-112-19a 6-112-19b |
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ।। | 6-112-20a 6-112-20b |
युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः । मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ।। | 6-112-21a 6-112-21b |
मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ।। | 6-112-22a 6-112-22b |
अजेयः समरे चापि देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ।। | 6-112-23a 6-112-23b |
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । `अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।' तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ।। | 6-112-24a 6-112-24b 6-112-24c |
पश्याद्यैतन्महाघोरे संयुगे वैशसं महत्। हेमचित्राणि शूरणां महान्ति च शुभानि च ।। | 6-112-25a 6-112-25b |
कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः । छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ।। | 6-112-26a 6-112-26b |
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः । वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ।। | 6-112-27a 6-112-27b |
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः । याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ।। | 6-112-28a 6-112-28b |
रथनागहयावर्तां महाघोरां सुदुर्गमाम् । रथेन संग्रामनदीं तरत्येष कपिध्वजः ।। | 6-112-29a 6-112-29b |
ब्रह्मण्यता दमो दानं तपश्च चरितं महत्। इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ।। | 6-112-30a 6-112-30b |
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ । वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ।। | 6-112-31a 6-112-31b |
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः । तपोभावितदेहस्य कोपो दहति वाहिनीम् ।। | 6-112-32a 6-112-32b |
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः । दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ।। | 6-112-33a 6-112-33b |
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना । महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ।। | 6-112-34a 6-112-34b |
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे । याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ।। | 6-112-35a 6-112-35b |
दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः । समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ।। | 6-112-36a 6-112-36b |
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ । पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ।। | 6-112-37a 6-112-37b |
उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः । एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ।। | 6-112-38a 6-112-38b |
उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः । पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ।। | 6-112-39a 6-112-39b |
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः । क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ।। | 6-112-40a 6-112-40b |
एष चातिरणे भीष्मो दहते वै महाचमूम् । युद्धेषु सदृशस्तात यमस्य वरुणस्य च ।। | 6-112-41a 6-112-41b |
सञ्जय उवाच। | 6-112-42x |
पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्। महारणे महाराज धर्मराजमयोधयत् ।। | 6-112-42a 6-112-42b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ।। |
6-112-6 घोराणि भयंकराणि । अशान्तानि अनुपरतानि।। 6-112-7 रसते शब्दायते। व्यथते बिभेतीव कम्पत इव च ।। 6-112-12 अलक्ष्माणं प्रचण्डलक्षणलक्षितम् । अवाक्शिरा अधोमुखकोटिद्वयः ।। 6-112-15 आस्थाय आलम्ब्य ।। 6-112-21 अस्त्रसमारम्भः उद्यममात्रं नतु पूर्ववदस्त्राणामुपस्थितिः ।। 6-112-28 हे पुत्र उपजीविभिरनुगतैः ।। 6-112-30 पार्थए युधिष्ठिरे ।। 6-112-32 तस्य धर्मस्य। मन्युर्दैन्यम्। भारतीमिति पाठे सेनामिति शेषः ।।
भीष्मपर्व-111 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-113 |