महाभारतम्-06-भीष्मपर्व-100
पठन सेटिंग्स
← भीष्मपर्व-099 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-100 वेदव्यासः |
भीष्मपर्व-101 → |
|
अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च ।। 1 ।।
सञ्जय उवाच। | 6-100-1x |
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः। अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।। | 6-100-1a 6-100-1b |
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः। न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।। | 6-100-2a 6-100-2b |
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्। निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ।। | 6-100-3a 6-100-3b |
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः। क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ।। | 6-100-4a 6-100-4b |
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् । सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ।। | 6-100-5a 6-100-5b |
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः । गजारोहांश्च सगजान्दारयामास फाल्गुनिः ।। | 6-100-6a 6-100-6b |
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः। पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ।। | 6-100-7a 6-100-7b |
तान्यनीकानि सौभद्रो द्रावयामास भारत। तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ।। | 6-100-8a 6-100-8b |
तेन विद्राव्यमाणानि तव सैन्यानि भारत । त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ।। | 6-100-9a 6-100-9b |
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम । अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ।। | 6-100-10a 6-100-10b |
न चैनं तावका राजन्विषेहुररिघातिनम् । प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ।। | 6-100-11a 6-100-11b |
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः । अदृश्यत महेष्वासः सवज्र इव वासवः ।। | 6-100-12a 6-100-12b |
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः । तोयदेषु यथा राजन्राजमाना शतह्रदा ।। | 6-100-13a 6-100-13b |
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे । वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ।। | 6-100-14a 6-100-14b |
तथैव चरतस्तस्य सौभद्रस्य महात्मनः । रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ।। | 6-100-15a 6-100-15b |
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्। सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ।। | 6-100-16a 6-100-16b |
मण्डलीकृतमेवास्य धनुः पश्याम भारत। सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ।। | 6-100-17a 6-100-17b |
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् । द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ।। | 6-100-18a 6-100-18b |
तेनार्दिता महाराज भारती सा महाचमूः । व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ।। | 6-100-19a 6-100-19b |
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् । नन्दयामास सुहृदो मयं जित्वेव वासवः ।। | 6-100-20a 6-100-20b |
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे। चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ।। | 6-100-21a 6-100-21b |
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।। | 6-100-22a 6-100-22b |
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत। एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ।। | 6-100-23a 6-100-23b |
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव । तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ।। | 6-100-24a 6-100-24b |
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् । स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ।। | 6-100-25a 6-100-25b |
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः । स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ।। | 6-100-26a 6-100-26b |
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्। नर्दमानो महानादं प्रावृषीव बलाहकः ।। | 6-100-27a 6-100-27b |
तस्य शब्देन महता पाण्डवानां बलं महत् । प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ।। | 6-100-28a 6-100-28b |
बहवश्च महाराज तस्य नादेन भीषिताः। प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ।। | 6-100-29a 6-100-29b |
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ।। | 6-100-30a 6-100-30b |
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे। नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ।। | 6-100-31a 6-100-31b |
तां वध्यमानां च तथा पाण्डवानां महाचमूम्। प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ।। | 6-100-32a 6-100-32b |
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे।। | 6-100-33a 6-100-33b |
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्। व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ।। | 6-100-34a 6-100-34b |
सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ।। | 6-100-35a 6-100-35b |
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा। ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ।। | 6-100-36a 6-100-36b |
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः। राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ।। | 6-100-37a 6-100-37b |
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ।। | 6-100-38a 6-100-38b |
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ।। | 6-100-39a 6-100-39b |
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ।। | 6-100-40a 6-100-40b |
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ।। | 6-100-41a 6-100-41b |
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे। विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः । | 6-100-42a 6-100-42b |
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ।। | 6-100-43a 6-100-43b |
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ।। | 6-100-44a 6-100-44b |
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ।। | 6-100-45a 6-100-45b |
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ।। | 6-100-46a 6-100-46b |
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ।। | 6-100-47a 6-100-47b |
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः। शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ।। | 6-100-48a 6-100-48b |
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः ।। | 6-100-49a 6-100-49b |
तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ।। | 6-100-50a 6-100-50b |
तयोः समभवद्युद्धं वृत्रवासवयोरिव। ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ।। | 6-100-51a 6-100-51b |
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्। महाबलौ महाराज क्रोधसंरक्तलोचनौ ।। | 6-100-52a 6-100-52b |
परस्परमवेक्षेतां कालानलसमौ युधि। `आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।' तयोः समागमो घोरो बभूव कटुकोदयः ।। | 6-100-53a 6-100-53b 6-100-53c |
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ।। | 6-100-54a |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ।। |
6-100-16 लघु सुष्ठु च शीघ्रं शोभनं च यथा स्तात्तथा ।। 6-100-23 आर्ष्यशृङ्गिमलम्बुसम् ।। 6-100-39 सर्वपारशवैः सर्वलोहमयैः ।। 6-100-40 संस्यूतो ग्रथितः ।।
भीष्मपर्व-099 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-101 |