महाभारतम्-06-भीष्मपर्व-031
पठन सेटिंग्स
← भीष्मपर्व-030 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-031 वेदव्यासः |
भीष्मपर्व-032 → |
|
एकत्रिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 7 ।।
श्रीभगवानुवाच। | 6-31-1x |
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ।। | 6-31-1a 6-31-1b |
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।। | 6-31-2a 6-31-2b |
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।। | 6-31-3a 6-31-3b |
भूमिरापोऽनलो वायुः स्वं मनो बुद्धिरेव च । अहंकार इती यं मे भिन्ना प्रकृतिरष्टधा ।। | 6-31-4a 6-31-4b |
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। | 6-31-5a 6-31-5b |
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। | 6-31-6a 6-31-6b |
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। | 6-31-7a 6-31-7b |
रसोऽहमंप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ।। | 6-31-8a 6-31-8b |
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ।। | 6-31-9a 6-31-9b |
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।। | 6-31-10a 6-31-10b |
बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।। | 6-31-11a 6-31-11b |
ये चैव सात्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ।। | 6-31-12a 6-31-12b |
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।। | 6-31-13a 6-31-13b |
दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। | 6-31-14a 6-31-14b |
न मां तुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। | 6-31-15a 6-31-15b |
चुत्रर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। | 6-31-16a 6-31-16b |
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। | 6-31-17a 6-31-17b |
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितःक स हि युक्तात्मा मामेवानुत्तमां गतिं ।। | 6-31-18a 6-31-18b |
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। | 6-31-19a 6-31-19b |
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ।। | 6-31-20a 6-31-20b |
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।। | 6-31-21a 6-31-21b |
स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान्हितान् ।। | 6-31-22a 6-31-22b |
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ।। | 6-31-23a 6-31-23b |
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम् ।। | 6-31-24a 6-31-24b |
नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ।। | 6-31-25a 6-31-25b |
वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन ।। | 6-31-26a 6-31-26b |
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परंतप ।। | 6-31-27a 6-31-27b |
योषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्त भजन्ते मां दृढव्रताः ।। | 6-31-28a 6-31-28b |
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ।। | 6-31-29a 6-31-29b |
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। | 6-31-30a 6-31-30b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकत्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगोनाम सप्तमोऽध्यायः ।। |
6-31-* ज्ञानविज्ञानयोगोनाम इति माध्वपाठः ।। 6-31-16 आब्रह्मभवनात् इति माध्वपाठः ।।
भीष्मपर्व-030 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-032 |