महाभारतम्-06-भीष्मपर्व-004
दिखावट
| ← भीष्मपर्व-003 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-004 वेदव्यासः |
भीष्मपर्व-005 → |
|
व्यासे गते संजयेन धृतराष्ट्रंप्रति भूमिगुणानुवर्णनम् ।। 1 ।।
| वैशंपायन उवाच। | 6-4-1x |
|
एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते। धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत।। | 6-4-1a 6-4-1b |
|
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः । संजयं संशितात्मानमपृच्छद्रतर्षभ ।। | 6-4-2a 6-4-2b |
|
संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः । अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ।। | 6-4-3a 6-4-3b |
|
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् । न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ।। | 6-4-4a 6-4-4b |
|
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् । मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ।। | 6-4-5a 6-4-5b |
|
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च। कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ।। | 6-4-6a 6-4-6b |
|
देशानां च परीमाणं नगराणां च संजय । श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ।। | 6-4-7a 6-4-7b |
|
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा। प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ।। | 6-4-8a 6-4-8b |
| संजय उवाच। | 6-4-9x |
|
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्। शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ।। | 6-4-9a 6-4-9b |
|
द्विविधानीह भूतानि चराणि स्थावराणि च। त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ।। | 6-4-10a 6-4-10b |
|
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः। जरायुजानां प्रवरा मानवाः पशवश्च ये ।। | 6-4-11a 6-4-11b |
|
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश । वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ।। | 6-4-12a 6-4-12b |
|
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् । सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ।। | 6-4-13a 6-4-13b |
|
उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ।। | 6-4-14a 6-4-14b |
|
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु । चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता ।। | 6-4-15a 6-4-15b |
|
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् । तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति।। | 6-4-16a 6-4-16b |
|
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ।। | 6-4-17a 6-4-17b |
|
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप । गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ।। | 6-4-18a 6-4-18b |
|
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः । एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ।। | 6-4-19a 6-4-19b |
|
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति । भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ।। | 6-4-20a 6-4-20b |
|
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् । तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ।। | 6-4-21a 6-4-21b |
|
।। इति श्रीमन्महाभारते उद्योगपर्वणि जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ।। |
6-4-4 नवा नैव । यमक्षयं यमलोकम् ।। 6-4-10 त्रसानां जंगमानां योनिरुत्पत्तिस्थानम् ।।
| भीष्मपर्व-003 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-005 |