महाभारतम्-06-भीष्मपर्व-020
दिखावट
← भीष्मपर्व-019 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-020 वेदव्यासः |
भीष्मपर्व-021 → |
|
कुरुसेनागमनप्रकारवर्णनम् ।। 1 ।।
धृतराष्ट्र उवाच। | 6-20-1x |
सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन्। मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ।। | 6-20-1a 6-20-1b 6-20-1c 6-20-1d |
केषां जघन्यौ समसूर्यौ सवायू केषां सेनां श्वापदाश्चाभषन्त । केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ।। | 6-20-2a 6-20-2b 6-20-2c 6-20-2d |
सञ्जय उवाच। | 6-20-3x |
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र। उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे।। | 6-20-3a 6-20-3b 6-20-3c 6-20-3d |
उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषह्ये । तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे ।। | 6-20-4a 6-20-4b 6-20-4c 6-20-4d |
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः । दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ।। | 6-20-5a 6-20-5b 6-20-5c 6-20-5d |
शीतो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याहरन्त । गजेन्द्राणां मदगन्धांश्च तीव्रा- न्न सेहिरे तव पुत्रस्य नागाः ।। | 6-20-6a 6-20-6b 6-20-6c 6-20-6d |
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम् । समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ।। | 6-20-7a 6-20-7b 6-20-7c 6-20-7d |
चन्द्रप्रभं श्वेतमथातपत्रं सौवर्णस्रग्भ्राजति चोत्तमाङ्गे । तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः ।। | 6-20-8a 6-20-8b 6-20-8c 6-20-8d |
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखङ्गः । श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः ।। | 6-20-9a 6-20-9b 6-20-9c 6-20-9d |
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च। ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो- स्तथा सौवीराः पञ्चनदाश्च शूराः ।। | 6-20-10a 6-20-10b 6-20-10c 6-20-10d |
शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्वः । आप्तो गुरुः प्रथितः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभियाति ।। | 6-20-11a 6-20-11b 6-20-11c 6-20-11d |
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च। साल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ।। | 6-20-12a 6-20-12b 6-20-12c 6-20-12d |
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति।। | 6-20-13a 6-20-13b 6-20-13c 6-20-13d |
महारथैर्वष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः । बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति ।। | 6-20-14a 6-20-14b 6-20-14c 6-20-14d |
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः ।। | 6-20-15a 6-20-15b 6-20-15c 6-20-15d |
साग्रं शतसहस्रं तु नागानां तव भारत । नागेनागे रथशतं शतमश्वा रथेरथे ।। | 6-20-16a 6-20-16b |
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत ।। | 6-20-17a 6-20-17b |
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ।। | 6-20-18a 6-20-18b |
महारथौघविपुलः समुद्र इव घोषवान्। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ।। | 6-20-19a 6-20-19b |
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम्। तां चैव मन्ये बृहतीं दुष्प्रघर्षां यस्या नेता केशवश्चार्जुनश्च ।। | 6-20-20a 6-20-20b 6-20-20c 6-20-20d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि विंशोऽध्यायः ।। |
6-20-1 भीष्मो नेत्रः नेता येषां ते भीष्मनेत्राः ।। 6-20-15 येन यत्र। तेन तत्र ।। 6-20-20 अनन्तरूपा वह्वी त्वदीया नतु पाण्डवानां सेना वह्वी। तथापि तां बृहतीमेव मन्ये इति संबन्धः ।।
भीष्मपर्व-019 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-021 |