महाभारतम्-06-भीष्मपर्व-093
दिखावट
← भीष्मपर्व-092 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-093 वेदव्यासः |
भीष्मपर्व-094 → |
|
संकुलमुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-93-1x |
विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः। जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ।। | 6-93-1a 6-93-1b |
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ।। | 6-93-2a 6-93-2b |
तालमात्राणि चापानि विकर्षन्तो महारथाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ।। | 6-93-3a 6-93-3b |
अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् । पर्वतं वारिधाराभिः शरदीव वलाहकाः ।। | 6-93-4a 6-93-4b |
स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः । उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ।। | 6-93-5a 6-93-5b |
व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ।। | 6-93-6a 6-93-6b |
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ।। | 6-93-7a 6-93-7b |
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।। | 6-93-8a 6-93-8b |
अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे । पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ।। | 6-93-9a 6-93-9b |
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः। एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ।। | 6-93-10a 6-93-10b |
गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् । भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ।। | 6-93-11a 6-93-11b |
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् । वेगेन महता राजन्पर्वकाले यथोदधिःक ।। | 6-93-12a 6-93-12b |
तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ।। | 6-93-13a 6-93-13b |
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ।। | 6-93-14a 6-93-14b |
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन् ।। | 6-93-15a 6-93-15b |
कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ।। | 6-93-16a 6-93-16b |
सिंहनादेन महता नेमिघोषेण चैव ह। खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम् ।। | 6-93-17a 6-93-17b |
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।। | 6-93-18a 6-93-18b |
परिवृत्य महाराज परित्यज्य घटोत्कचम् । ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम् ।। | 6-93-19a 6-93-19b |
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् । नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।। | 6-93-20a 6-93-20b |
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे । व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ।। | 6-93-21a 6-93-21b |
हया हयैः समाजग्मुः पादाताश्च पदातिभिः । `रथा रथैः समागच्छन्नागा नागैश्च संयुगे' अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ।। | 6-93-22a 6-93-22b 6-93-22c |
सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः। गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ।। | 6-93-23a 6-93-23b |
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्। नैव स्वे न परे राजन्समजानन्परस्परम् ।। | 6-93-24a 6-93-24b |
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ।। | 6-93-25a 6-93-25b |
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् । सुमहानभवच्छब्दः प्रेतानामिव भारत ।। | 6-93-26a 6-93-26b |
गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी । प्राववर्तत नदी तत्र केशशैवलशाद्वला ।। | 6-93-27a 6-93-27b |
नराणां चैव कायेभ्यः शिरसां पततां रणे। शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ।। | 6-93-28a 6-93-28b |
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ।। | 6-93-29a 6-93-29b |
नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ।। | 6-93-30a 6-93-30b |
हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ।। | 6-93-31a 6-93-31b |
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ।। | 6-93-32a 6-93-32b |
प्रेषिताश्च महामात्रैर्वारणाः परवारणैः । अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ।। | 6-93-33a 6-93-33b |
ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ।। | 6-93-34a 6-93-34b |
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ।। | 6-93-35a 6-93-35b |
केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ।। | 6-93-36a 6-93-36b |
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः ।। | 6-93-37a 6-93-37b |
नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ।। | 6-93-38a 6-93-38b |
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातींश्च ममृदुः शतशो रणे ।। | 6-93-39a 6-93-39b |
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ।। | 6-93-40a 6-93-40b |
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः। परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ।। | 6-93-41a 6-93-41b |
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ।। | 6-93-42a 6-93-42b |
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे। धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ।। | 6-93-43a 6-93-43b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे त्रिनवतितमोऽध्यायः ।। |
भीष्मपर्व-092 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-094 |