महाभारतम्-06-भीष्मपर्व-076
दिखावट
← भीष्मपर्व-075 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-076 वेदव्यासः |
भीष्मपर्व-077 → |
|
धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम् ।। 1 ।।
धृतराष्ट्र उवाच। | 6-76-1x |
एवं बहुगुणं सैन्यमेवं बहुविधं परम्। व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ।। | 6-76-1a 6-76-1b |
जुष्टमस्माकमत्यन्तमभिकामं च नः सदा । प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ।। | 6-76-2a 6-76-2b |
नातिवृद्धमबालं च न कृशं न च पीवरम् । लघुवृत्तायतप्रायं सागराकारमव्ययम् ।। | 6-76-3a 6-76-3b |
आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् । असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ।। | 6-76-4a 6-76-4b |
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च । भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ।। | 6-76-5a 6-76-5b |
कम्पनेषु च चापेषु कणपेषु च सर्वशः । क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ।। | 6-76-6a 6-76-6b |
अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् । शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ।। | 6-76-7a 6-76-7b |
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ।। | 6-76-8a 6-76-8b |
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ।। | 6-76-9a 6-76-9b |
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः । न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ।। | 6-76-10a 6-76-10b |
समृद्धजनमार्यं च तुष्टसंबन्धिबान्धवम् । कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ।। | 6-76-11a 6-76-11b |
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः । लोकपालोपमैस्तात पालितं लोकविश्रुतम् ।। | 6-76-12a 6-76-12b |
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः । अस्मानभिगतैः कामात्सबलैः सपदानुगैः ।। | 6-76-13a 6-76-13b |
महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षपक्षिसंकाशै रथैर्नागैश्च संवृतम् ।। | 6-76-14a 6-76-14b |
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्। क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ।। | 6-76-15a 6-76-15b |
ध्वजभूषणसंबाधं रत्नपट्टसुसंचितम् । परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ।। | 6-76-16a 6-76-16b |
अपारमिव गर्जन्तं सागरप्रतिमं महत्। द्रोणभीष्मासिसंगप्तं गुप्तं च कृतवर्मणा ।। | 6-76-17a 6-76-17b |
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा । भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ।। | 6-76-18a 6-76-18b |
गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः । यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ।। | 6-76-19a 6-76-19b |
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः । ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ।। | 6-76-20a 6-76-20b |
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा । वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ।। | 6-76-21a 6-76-21b |
विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय । यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ।। | 6-76-22a 6-76-22b |
पाण्डवार्थाय नियतं देवास्तत्र समागताः । युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ।। | 6-76-23a 6-76-23b |
उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः । न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ।। | 6-76-24a 6-76-24b |
तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः । आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ।। | 6-76-25a 6-76-25b |
अथवा भाव्यमेवं हि संजयैतेन सर्वथा । पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ।। | 6-76-26a 6-76-26b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ।। |
6-76-2 नः अस्मान् अभिकामं आकाङ्क्षमाणम्। प्रह्वनिमिपाठे प्रणतम् ।। 6-76-3 लघुवृत्तं शीघ्रकारि। आयतप्रायं प्रांशुबहुलम् ।। 6-76-8 आरोहे हस्त्यादीनाम्। पर्यवस्कन्दे हस्त्यादिभ्योऽवतरणे ।। 6-76-11 मनस्वि साहंकारम् ।।
भीष्मपर्व-075 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-077 |