महाभारतम्-06-भीष्मपर्व-115
दिखावट
← भीष्मपर्व-114 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-115 वेदव्यासः |
भीष्मपर्व-116 → |
|
युद्धे विरक्तेन भीष्मेण युधिष्ठिरंप्रति स्ववधोद्यमचोदना ।। 1 ।।
धृतराष्ट्र उवाच। | 6-115-1x |
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः ।। | 6-115-1a 6-115-1b |
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ।। | 6-115-2a 6-115-2b |
सञ्जय उवाच। | 6-115-3x |
कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत। यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम् ।। | 6-115-3a 6-115-3b |
गमिताः परलोकाय परमास्त्रैः किरीटिना । अहन्यहनि संप्राप्ते तावकानां महारथाः ।। | 6-115-4a 6-115-4b |
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः । पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ।। | 6-115-5a 6-115-5b |
कुरुभिः सहितं भीष्मं युध्यमानं परंतप । अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः ।। | 6-115-6a 6-115-6b |
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे । अवर्तत महारौद्रः सततं समिति क्षयः ।। | 6-115-7a 6-115-7b |
तस्मिन्नयुतशो राजन्भूयशश्च परंतपः । भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित् ।। | 6-115-8a 6-115-8b |
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव । ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ।। | 6-115-9a 6-115-9b |
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् । निरविद्यत धर्मात्मा जीविते स परंतपः ।। | 6-115-10a 6-115-10b |
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे। न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति ।। | 6-115-11a 6-115-11b |
चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव । अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ।। | 6-115-12a 6-115-12b |
भीष्म उवाच। | 6-115-13x |
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ।। | 6-115-13a 6-115-13b |
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत । घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ।। | 6-115-14a 6-115-14b |
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा । मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ।। | 6-115-15a 6-115-15b |
सञ्जय उवाच। | 6-115-16x |
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः । भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः ।। | 6-115-16a 6-115-16b |
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः । श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ।। | 6-115-17a 6-115-17b |
अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे । रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ।। | 6-115-18a 6-115-18b |
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः । भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ।। | 6-115-19a 6-115-19b |
मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ।। | 6-115-20a 6-115-20b |
ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः ।। | 6-115-21a 6-115-21b |
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः ।। | 6-115-22a 6-115-22b |
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः ।। | 6-115-23a 6-115-23b |
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा ।। | 6-115-24a 6-115-24b |
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ।। | 6-115-25a 6-115-25b |
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ।। | 6-115-26a 6-115-26b |
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । अभिमन्युः सहामात्यं दुर्योधमयोधयत् ।। | 6-115-27a 6-115-27b |
विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परंतप ।। | 6-115-28a 6-115-28b |
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ।। | 6-115-29a 6-115-29b |
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ।। | 6-115-30a 6-115-30b |
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः ।। | 6-115-31a 6-115-31b |
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे पार्थमभिपेतुर्जिघांसवः ।। | 6-115-32a 6-115-32b |
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ।। | 6-115-33a 6-115-33b |
तान्यनीकान्यनीकेषु समयुध्यन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ।। | 6-115-34a 6-115-34b |
ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ।। | 6-115-35a 6-115-35b |
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः । सिंहनादश्च सैन्यानां दारुणः समपद्यत ।। | 6-115-36a 6-115-36b |
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत ।। | 6-115-37a 6-115-37b |
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चापि निर्घोषो दारुणः समपद्यत ।। | 6-115-38a 6-115-38b |
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथघोषश्च संजज्ञे सेनयोरुभयोरपि ।। | 6-115-39a 6-115-39b |
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ।। | 6-115-40a 6-115-40b |
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः ।। | 6-115-41a 6-115-41b |
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ।। | 6-115-42a 6-115-42b |
तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ।। | 6-115-43a 6-115-43b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे पञ्चादशाधिकशततमोऽध्यायः ।। |
6-115-10 निरविद्यत निर्वेदं जगाम ।। 6-115-14 निर्विण्यो विरक्तः ।। 6-115-21 ब्रह्मलोकपराः बृहत्त्वान्महान्तं लोकं प्रति यतमानाः ।।
भीष्मपर्व-114 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-116 |