महाभारतम्-06-भीष्मपर्व-030
दिखावट
← भीष्मपर्व-029 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-030 वेदव्यासः |
भीष्मपर्व-031 → |
|
श्रीभगवानुवाच। | 6-30-1x |
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः ।। | 6-30-1a 6-30-1b |
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसिंकल्पो योगी भवति कश्चन ।। | 6-30-2a 6-30-2b |
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते ।। | 6-30-3a 6-30-3b |
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषञ्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ।। | 6-30-4a 6-30-4b |
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।। | 6-30-5a 6-30-5b |
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ।। | 6-30-6a 6-30-6b |
जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।। | 6-30-7a 6-30-7b |
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ।। | 6-30-8a 6-30-8b |
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।। | 6-30-9a 6-30-9b |
योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ।। | 6-30-10a 6-30-10b |
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।। | 6-30-11a 6-30-11b |
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।। | 6-30-12a 6-30-12b |
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकथन् ।। | 6-30-13a 6-30-13b |
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । प्रनः संयम्य मच्चित्तो युक्त आसीत मत्परः ।। | 6-30-14a 6-30-14b |
युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ।। | 6-30-15a 6-30-15b |
नात्यश्रतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्रशीलस्य जाग्रतो नैव चार्जुन ।। | 6-30-16a 6-30-16b |
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नाववोधस्य योगो भवति दुःखहा ।। | 6-30-17a 6-30-17b |
यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ।। | 6-30-18a 6-30-18b |
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ।। | 6-30-19a 6-30-19b |
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ।। | 6-30-20a 6-30-20b |
मुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ।। | 6-30-21a 6-30-21b |
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ।। | 6-30-22a 6-30-22b |
तं विद्याद्दुःखसंयोगवयोगं योगसंज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।। | 6-30-23a 6-30-23b |
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनिवम्य समन्ततः ।। | 6-30-24a 6-30-24b |
शनैः शनैरुपरमेद्भुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ।। | 6-30-25a 6-30-25b |
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। | 6-30-26a 6-30-26b |
प्रशान्तमनसं ह्येनं योगिनं मुखमुत्तमम् । उपैति श्चान्तरजसं ब्रह्मभूतमकल्मषम् ।। | 6-30-27a 6-30-27b |
युञ्चयेवं सदात्मानं योगी विमतकल्मषःक । मुखेन ब्रह्मसंस्कपर्शमत्यन्तं सुखमश्रुते ।। | 6-30-28a 6-30-28b |
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते कयोगयुक्तात्मा सर्वत्र समदर्शनः ।। | 6-30-29a 6-30-29b |
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। | 6-30-30a 6-30-30b |
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।। | 6-30-31a 6-30-31b |
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखंक वा यदि वा दुःखं स योगी मरमो मतः ।। | 6-30-32a 6-30-32b |
अर्जुन उवाच। | 6-30-33x |
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिरां ।। | 6-30-33a 6-30-33b |
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।। | 6-30-34a 6-30-34b |
श्रीभगवानुवाच। | 6-30-35x |
असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।। | 6-30-35a 6-30-35b |
असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽऽवाप्तुमुपायतः ।। | 6-30-36a 6-30-36b |
अर्जुन उवाच। | 6-30-37x |
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ।। | 6-30-37a 6-30-37b |
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिकष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।। | 6-30-38a 6-30-38b |
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ।। | 6-30-39a 6-30-39b |
श्रीभगवानुवाच। | 6-30-40x |
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ।। | 6-30-40a 6-30-40b |
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। | 6-30-41a 6-30-41b |
अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृश्यम् ।। | 6-30-42a 6-30-42b |
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ।। | 6-30-43a 6-30-43b |
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशेऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।। | 6-30-44a 6-30-44b |
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकन्मसंसिद्धस्ततो याति परां गतिम् ।। | 6-30-45a 6-30-45b |
तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भावार्जुन ।। | 6-30-46a 6-30-46b |
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ।। | 6-30-47a 6-30-47b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रिंशोऽध्यायः ।। | |
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अध्यात्मयोगोनाम षष्ठोऽध्यायः ।। |
भीष्मपर्व-029 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-031 |