महाभारतम्-06-भीष्मपर्व-083

विकिस्रोतः तः
Jump to navigation Jump to search
← भीष्मपर्व-082 महाभारतम्
षष्ठपर्व
महाभारतम्-06-भीष्मपर्व-083
वेदव्यासः
भीष्मपर्व-084 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122

द्वन्द्वयुद्धवर्णनम् ।। 1 ।।

धृतराष्ट्र उवाच। 6-83-1x
बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ।।
6-83-1a
6-83-1b
न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ।।
6-83-2a
6-83-2b
जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ।।
6-83-3a
6-83-3b
सञ्जय उवाच। 6-83-4x
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ।।
6-83-4a
6-83-4b
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ।।
6-83-5a
6-83-5b
तथा तत्पौरुषं राजंस्तावकानां परंतप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ।।
6-83-6a
6-83-6b
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ।।
6-83-7a
6-83-7b
तवापराधात्सुमहान्सपुत्रस्य विशांपते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ।।
6-83-8a
6-83-8b
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ।।
6-83-9a
6-83-9b
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ।।
6-83-10a
6-83-10b
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ।।
6-83-11a
6-83-11b
आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ।।
6-83-12a
6-83-12b
तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ।।
6-83-13a
6-83-13b
विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ।।
6-83-14a
6-83-14b
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ।।
6-83-15a
6-83-15b
युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ।।
6-83-16a
6-83-16b
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ।।
6-83-17a
6-83-17b
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ।।
6-83-18a
6-83-18b
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ।।
6-83-19a
6-83-19b
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ।।
6-83-20a
6-83-20b
युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ।।
6-83-21a
6-83-21b
तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ।।
6-83-22a
6-83-22b
तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ।।
6-83-23a
6-83-23b
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ।।
6-83-24a
6-83-24b
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्।
रथेनादित्यवर्णेन सध्वजेन महाबलः ।।
6-83-25a
6-83-25b
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं संग्रामे तारकामये ।।
6-83-26a
6-83-26b
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ।।
6-83-27a
6-83-27b
यथा सुरपतिः शक्रस्त्रासयामास दानवान्।
तथैव समरे राजा द्रावयामास पाण्डवान् ।।
6-83-28a
6-83-28b
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ।।
6-83-29a
6-83-29b
भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ।।
6-83-30a
6-83-30b
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ।।
6-83-31a
6-83-31b
घटोत्कचस्ततो राजन्भगदत्तं महारणे।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ।।
6-83-32a
6-83-32b
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान्।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ।।
6-83-33a
6-83-33b
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ।।
6-83-34a
6-83-34b
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ।।
6-83-35a
6-83-35b
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ।।
6-83-36a
6-83-36b
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ।।
6-83-37a
6-83-37b
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ।।
6-83-38a
6-83-38b
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ।।
6-83-39a
6-83-39b
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ।।
6-83-40a
6-83-40b
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ।।
6-83-41a
6-83-41b
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ।।
6-83-42a
6-83-42b
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ।।
6-83-43a
6-83-43b
सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ।।
6-83-44a
6-83-44b
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ।।
6-83-45a
6-83-45b
ततः प्रहस्य समरे नकुलस्य महारथः।
` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ।।
6-83-46a
6-83-46b
अथैनं छिन्नधन्वानं छादयामास भारत।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ।।
6-83-47a
6-83-47b
ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ।।
6-83-48a
6-83-48b
प्रेषयामास समरे यमस्य सदनं प्रति।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।।
6-83-49a
6-83-49b
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ।।
6-83-50a
6-83-50b
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात्।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ।।
6-83-51a
6-83-51b
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ।।
6-83-52a
6-83-52b
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ।।
6-83-53a
6-83-53b
स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ।।
6-83-54a
6-83-54b
स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ।।
6-83-55a
6-83-55b
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ।।
6-83-56a
6-83-56b
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम्।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ।।
6-83-57a
6-83-57b
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ।।
6-83-58a
6-83-58b
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ।।
6-83-59a
6-83-59b
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि
सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ।।

[सम्पाद्यताम्]

6-83-12 इरावन्तमभिप्रेक्ष्य इति झo पाठः ।। 6-83-13 इरावांस्तु सुसंक्रुद्ध इति झo पाठः ।। 6-83-16 इरावांस्तु ततं इति झo पाठः ।। 6-83-19 इरावति महात्मनीति झo पाठः ।। 6-83-21 इरावांस्तु रणे इति झo पाठः ।। 6-83-23 नागराजसुतासुत इति झo पाठः । तत्र नागराजः कौरव्यस्तस्य सुता उलूपी तस्याः सुत इरावानित्यर्थः ।। 6-83-31 निष्ठानकः सव्यथः कशब्दः ।।

भीष्मपर्व-082 पुटाग्रे अल्लिखितम्। भीष्मपर्व-084