महाभारतम्-06-भीष्मपर्व-010
पठन सेटिंग्स
← भीष्मपर्व-009 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-010 वेदव्यासः |
भीष्मपर्व-011 → |
|
चतुर्युगवर्णनम् ।।
धृतराष्ट्र उवाच। | 6-10-1x |
भारतस्यास्य वर्षस्य तथा हैमवतस्य च। प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ।। | 6-10-1a 6-10-1b |
अनागतमतिक्रान्तं वर्तमानं च संजय । आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ।। | 6-10-2a 6-10-2b |
संजय उवाच। | 6-10-3x |
चत्वारि भारते वर्षे युगानि भरतर्षभ। कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ।। | 6-10-3a 6-10-3b |
पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो । संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ।। | 6-10-4a 6-10-4b |
चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम। आयुःसंख्या कृतयुगे संख्याता राजसत्तम ।। | 6-10-5a 6-10-5b |
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप । द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ।। | 6-10-6a 6-10-6b |
न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ।। | 6-10-7a 6-10-7b |
महाबला महासत्वाः प्रज्ञागुणसमन्विताः। प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ।। | 6-10-8a 6-10-8b |
जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः । प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ।। | 6-10-9a 6-10-9b |
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः। प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ।। | 6-10-10a 6-10-10b |
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः। त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ।। | 6-10-11a 6-10-11b |
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे । महोत्साहा वीर्यवन्तः परस्परजयैषिणः ।। | 6-10-12a 6-10-12b |
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप। लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ।। | 6-10-13a 6-10-13b |
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च। तिष्ये भवति भूतानां रागो लोभश्च भारत ।। | 6-10-14a 6-10-14b |
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप । गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ।। | 6-10-15a 6-10-15b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः।। |
6-10-3 तिष्यं कलियुगम् ।। 6-10-8 प्रजायन्ते प्रजां जनयन्ति ।। 6-10-10 वपुष्मन्तः प्रशस्तदेहाः ।। 6-10-12 सर्वे वर्णाः परस्परजयैषिणो जायन्त इति संबन्धः ।। 6-10-14 ईर्ष्या परोत्कर्षासहिष्णुत्वम् । मानः स्वस्मिन्पूज्यताबुद्धिः । क्रोधोऽभिज्वलनम् । माया कपटम्। असूया परगुणेषु दोषाविष्करणम्। रागो विषयेषु प्रीतिः। लोभस्तल्लिप्सा ।। 6-10-15 संक्षेपो गुणानामिति शेषः ।।
भीष्मपर्व-009 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-011 |