महाभारतम्-06-भीष्मपर्व-096
दिखावट
← भीष्मपर्व-095 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-096 वेदव्यासः |
भीष्मपर्व-097 → |
|
भीमेन दुर्योधनानुजानां कतिपयानां हननम् ।। 1 ।।
सञ्जय उवाच। | 6-96-1x |
पुत्रं विनिहतं श्रुत्वा इरावन्तं धन?ञ्जयः। दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ।। | 6-96-1a 6-96-1b |
अब्रवीत्समरे राजन्वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।। | 6-96-2a 6-96-2b |
कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक । स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ।। | 6-96-3a 6-96-3b |
अन्ये च बहवो वीराः संग्रामे मधुसूदन। निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ।। | 6-96-4a 6-96-4b |
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ।। | 6-96-5a 6-96-5b |
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् । किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ।। | 6-96-6a 6-96-6b |
दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ।। | 6-96-7a 6-96-7b |
इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता त सुयोधनम् ।। | 6-96-8a 6-96-8b |
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक । दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ।। | 6-96-9a 6-96-9b |
निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् । अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ।। | 6-96-10a 6-96-10b |
एतदर्थं मया युद्धं रोचितं मधुसूदन। संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ।। | 6-96-11a 6-96-11b |
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् । नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ।। | 6-96-12a 6-96-12b |
सञ्जय उवाच। | 6-96-13x |
एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ।। | 6-96-13a 6-96-13b |
अथ शब्दो महानासीत्तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।। | 6-96-14a 6-96-14b |
अपराह्णे महाराज संग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ।। | 6-96-15a 6-96-15b |
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा ।। | 6-96-16a 6-96-16b |
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ।। | 6-96-17a 6-96-17b |
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ।। | 6-96-18a 6-96-18b |
शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम् ।। | 6-96-19a 6-96-19b |
`भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ।। | 6-96-20a 6-96-20b |
पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम् ।। | 6-96-21a 6-96-21b |
स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते । सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ।। | 6-96-22a 6-96-22b |
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् । क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ।। | 6-96-23a 6-96-23b |
ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः । अपरेण तु भल्लेन पीतेन निशितेन तु। अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ।। | 6-96-24a 6-96-24b 6-96-24c |
ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् । स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ।। | 6-96-25a 6-96-25b |
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ।। | 6-96-26a 6-96-26b |
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् । दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ।। | 6-96-27a 6-96-27b |
प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ।। | 6-96-28a 6-96-28b |
ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे । तं कालमिव मन्यन्तो भीमसेनं महाबलम् ।। | 6-96-29a 6-96-29b |
द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ।। | 6-96-30a 6-96-30b |
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ।। | 6-96-31a 6-96-31b |
यथा गोवृषभो वर्षं संधारयति स्वात्पतत् । भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ।। | 6-96-32a 6-96-32b |
अद्भुतं च महाराज तत्र चक्रे वृकोदरः । यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ।। | 6-96-33a 6-96-33b |
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः । मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ।। | 6-96-34a 6-96-34b |
यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः । वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ।। | 6-96-35a 6-96-35b |
गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः । पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ।। | 6-96-36a 6-96-36b |
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ।। | 6-96-37a 6-96-37b |
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् । विरथं रथिनां श्रेष्ठं कारयामास सायकैः ।। | 6-96-38a 6-96-38b |
विरथो वध्यमानस्तु सौभद्रेण यशस्विना । अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ।। | 6-96-39a 6-96-39b |
असिं चिक्षेप समरे सौभद्रस्य महात्मनः । आरुरोह रथं चैव हार्दिक्यस्य महाबलः ।। | 6-96-40a 6-96-40b |
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः । लाघवाद्व्यंसयामास सौभद्रः परवीरहा ।। | 6-96-41a 6-96-41b |
व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ।। | 6-96-42a 6-96-42b |
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ।। | 6-96-43a 6-96-43b |
तत्राक्रन्दो महानासीत्तव तेषां च भारत। निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ।। | 6-96-44a 6-96-44b |
अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः। नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ।। | 6-96-45a 6-96-45b |
तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः। विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ।। | 6-96-46a 6-96-46b |
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा। व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ।। | 6-96-47a 6-96-47b |
रणे चारूणि चापानि हेमपृष्ठानि मारिष । हतानामपविद्धानि कलापाश्च महाधनाः ।। | 6-96-48a 6-96-48b |
जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ।। | 6-96-49a 6-96-49b |
खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः । चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ।। | 6-96-50a 6-96-50b |
सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः। जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ।। | 6-96-51a 6-96-51b |
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च । परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ।। | 6-96-52a 6-96-52b |
पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः । कुथा बहुविधाकाराश्चामरा व्यजनानि च ।। | 6-96-53a 6-96-53b |
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ।। | 6-96-54a 6-96-54b |
गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः। गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ।। | 6-96-55a 6-96-55b |
तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ।। | 6-96-56a 6-96-56b |
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः। निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ।। | 6-96-57a 6-96-57b |
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ।। | 6-96-58a 6-96-58b |
विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही ।। | 6-96-59a 6-96-59b |
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ।। | 6-96-60a 6-96-60b |
बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः । पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ।। | 6-96-61a 6-96-61b |
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ।। | 6-96-62a 6-96-62b |
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ।। | 6-96-63a 6-96-63b |
रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः । वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ।। | 6-96-64a 6-96-64b |
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ।। | 6-96-65a 6-96-65b |
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता।। | 6-96-66a 6-96-66b |
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ।। | 6-96-67a 6-96-67b |
विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ।। | 6-96-68a 6-96-68b |
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ।। | 6-96-69a 6-96-69b |
विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ।। | 6-96-70a 6-96-70b |
यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः। `रराज सुभृशं भूमिस्तत्रतत्र विशांपते' अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः।। | 6-96-71a 6-96-71b 6-96-71c |
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा। प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः।। | 6-96-72a 6-96-72b |
उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः। विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ।। | 6-96-73a 6-96-73b |
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा। नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ।। | 6-96-74a 6-96-74b |
छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि । पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ।। | 6-96-75a 6-96-75b |
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः । अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ।। | 6-96-76a 6-96-76b |
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा। एवमेते महासेने मृदिते तत्र भारत ।। | 6-96-77a 6-96-77b |
परस्परं समासाद्य तव तेषां च संयुगे । तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ।। | 6-96-78a 6-96-78b |
रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् । ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ।। | 6-96-79a 6-96-79b |
घोरे निशामुखे रौद्रे वर्तमाने महाभये। अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः । न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ।। | 6-96-80a 6-96-80b 6-96-80c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे षण्णवतितमोऽध्यायः ।। |
6-96-23 व्यूढोरस्कं इति झo पाठः ।। 6-96-48 अपविद्धानि पतितानि ।।
भीष्मपर्व-095 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-097 |