महाभारतम्-06-भीष्मपर्व-032
दिखावट
← भीष्मपर्व-031 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-032 वेदव्यासः |
भीष्मपर्व-033 → |
|
द्वात्रिंशोऽध्यायः ।।
भगवद्गीताध्यायः ।। 8 ।।
अर्जुन उवाच। | 6-32-1x |
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम्। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ।। | 6-32-1a 6-32-1b |
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसीदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ।। | 6-32-2a 6-32-2b |
श्रीभगवानुवाच। | 6-32-3x |
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।। | 6-32-3a 6-32-3b |
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।। | 6-32-4a 6-32-4b |
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।। | 6-32-5a 6-32-5b |
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ।। | 6-32-6a 6-32-6b |
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ।। | 6-32-7a 6-32-7b |
अभ्यासयोगयुक्तेन चेतसाऽनान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।। | 6-32-8a 6-32-8b |
कविं पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूप- मादित्यवर्णं तमसः परस्तात् ।। | 6-32-9a 6-32-9b 6-32-9c 6-32-9d |
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्य- क्स तं परं पुरुषमुपैति दिव्यम् ।। | 6-32-10a 6-32-10b 6-32-10c 6-32-10d |
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ।। | 6-32-11a 6-32-11b 6-32-11c 6-32-11d |
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणां ।। | 6-32-12a 6-32-12b |
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्दें स याति परमां गतिम् ।। | 6-32-13a 6-32-13b |
अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।। | 6-32-14a 6-32-14b |
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ।। | 6-32-15a 6-32-15b |
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। | 6-32-16a 6-32-16b |
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ।। | 6-32-17a 6-32-17b |
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यामे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ।। | 6-32-18a 6-32-18b |
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यगमेऽवशः पार्थत प्रभवत्यहरागमे ।। | 6-32-19a 6-32-19b |
परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषुक नश्यत्सु न विनश्यति ।। | 6-32-20a 6-32-20b |
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ।। | 6-32-21a 6-32-21b |
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ।। | 6-32-22a 6-32-22b |
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ।। | 6-32-23a 6-32-23b |
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।। | 6-32-24a 6-32-24b |
धूमो रात्रिस्तथा कृष्णः षण्मसा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।। | 6-32-25a 6-32-25b |
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ।। | 6-32-26a 6-32-26b |
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ।। | 6-32-27a 6-32-27b |
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ।। | 6-32-28a 6-32-28b 6-32-28c 6-32-28d |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वात्रिंशोऽध्यायः ।। | |
इतित श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगोनाम अष्टमोऽध्यायः ।। |
6-32-* अक्षरब्रह्मयोगोनाम इति माध्वपाठः ।।
भीष्मपर्व-031 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-033 |