महाभारतम्-06-भीष्मपर्व-072
दिखावट
← भीष्मपर्व-071 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-072 वेदव्यासः |
भीष्मपर्व-073 → |
|
संकुलयुद्धवर्णनम् ।। 1 ।।
सञ्जय उवाच। | 6-72-1x |
शिखण्डी सह मत्स्येन विराटेन विशांपते। भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ।। | 6-72-1a 6-72-1b |
द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् । राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ।। | 6-72-2a 6-72-2b |
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः । प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ।। | 6-72-3a 6-72-3b |
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् । दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ।। | 6-72-4a 6-72-4b |
सहदेवस्तु शकुनिमुलूकं च महारथम् । पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ।। | 6-72-5a 6-72-5b |
युधिष्ठिरो महाराज गजानीकं महारथः । समवर्तत संग्रामे पुत्रेण निकृतस्तव ।। | 6-72-6a 6-72-6b |
माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि । त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ।। | 6-72-7a 6-72-7b |
अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान्। सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ।। | 6-72-8a 6-72-8b |
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । नाकुलिश्च शतानीकः समरे रथपुङ्गवः । पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ।। | 6-72-9a 6-72-9b 6-72-9c |
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः । द्रोणेन समरे राजन्समियायोग्रकर्मणा ।। | 6-72-10a 6-72-10b |
एवमेते महेष्वासास्तावकाः पाण्डवैः सह । समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ।। | 6-72-11a 6-72-11b |
मध्यंदिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ।। | 6-72-12a 6-72-12b |
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ।। | 6-72-13a 6-72-13b |
समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ।। | 6-72-14a 6-72-14b |
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम्। यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ।। | 6-72-15a 6-72-15b |
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन। विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ।। | 6-72-16a 6-72-16b |
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ।। | 6-72-17a 6-72-17b |
कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा ।। | 6-72-18a 6-72-18b |
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः । विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ।। | 6-72-19a 6-72-19b |
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे। विरेजुः समरे राजन्ग्रहा इव नभस्तले ।। | 6-72-20a 6-72-20b |
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ।। | 6-72-21a 6-72-21b |
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः। अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ।। | 6-72-22a 6-72-22b |
तस्य शक्तिं महावेगं भीमसेनो महाबलः । क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ।। | 6-72-23a 6-72-23b |
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम्। चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ।। | 6-72-24a 6-72-24b |
ततोऽपरेण भल्लेन पीतेन निशितेन च। कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ।। | 6-72-25a 6-72-25b |
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः । शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ।। | 6-72-26a 6-72-26b |
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ।। | 6-72-27a 6-72-27b |
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर । ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ।। | 6-72-28a 6-72-28b |
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्। तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ।। | 6-72-29a 6-72-29b |
तेन तेनैव धावन्ति मनोमारुतरंहसः। ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ।। | 6-72-30a 6-72-30b |
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् । अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ।। | 6-72-31a 6-72-31b |
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति । एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ।। | 6-72-32a 6-72-32b |
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ।। | 6-72-33a 6-72-33b 6-72-33c |
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे। अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ।। | 6-72-34a 6-72-34b |
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः। अभ्यधावन्त वेगेन ततो युद्धमवर्तत ।। | 6-72-35a 6-72-35b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ।। |
6-72-18 ओजसा स्वप्रभावेण ।।
भीष्मपर्व-071 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-073 |