महाभारतम्-06-भीष्मपर्व-052
दिखावट
← भीष्मपर्व-051 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-052 वेदव्यासः |
भीष्मपर्व-053 → |
|
भीष्मार्जुनयोर्युद्धम् ।। 1 ।।
धृतराष्ट्र उवाच। | 6-52-1x |
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च । कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ।। | 6-52-1a 6-52-1b |
सञ्जय उवाच। | 6-52-2x |
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः। `तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।' अपारमिव संदृश्य सागरप्रतिमं बलम् ।। | 6-52-2a 6-52-2b 6-52-2c |
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव । अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ।। | 6-52-3a 6-52-3b |
ते मनः क्रूरमाधाय समभित्यक्तजीविताः । पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ।। | 6-52-4a 6-52-4b |
ततो युद्धं समभवत्तुमुलं रोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम् ।। | 6-52-5a 6-52-5b |
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक । सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ।। | 6-52-6a 6-52-6b |
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः । अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ।। | 6-52-7a 6-52-7b |
सौभद्रे भीमसेने च सात्यकौ च महारथे । कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ।। | 6-52-8a 6-52-8b |
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः । ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ।। | 6-52-9a 6-52-9b |
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ।। | 6-52-10a 6-52-10b |
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः । विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ।। | 6-52-11a 6-52-11b |
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् । वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ।। | 6-52-12a 6-52-12b |
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् । नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ।। | 6-52-13a 6-52-13b |
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन । धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ।। | 6-52-14a 6-52-14b |
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना । सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ।। | 6-52-15a 6-52-15b |
तमब्रवीद्वासुदेवो यत्तो भव धनंजय। एष त्वां प्रापयिष्यामि पितामहरथं प्रति ।। | 6-52-16a 6-52-16b |
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् । प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ।। | 6-52-17a 6-52-17b |
चलद्बहुपातकेन बलाकावर्णवाजिना । समुच्छ्रितमहाभीमनदद्वानरकेतुना ।। | 6-52-18a 6-52-18b |
महता मेघनादेन रथेनामिततेजसा । विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ।। | 6-52-19a 6-52-19b |
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः । तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।। | 6-52-20a 6-52-20b |
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः । सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः । सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ।। | 6-52-21a 6-52-21b 6-52-21c |
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्। द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ।। | 6-52-22a 6-52-22b |
ततो भीष्मो महाराज सर्वलोकमहारथः । अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ।। | 6-52-23a 6-52-23b |
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ।। | 6-52-24a 6-52-24b |
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः । विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ।। | 6-52-25a 6-52-25b |
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। न विव्यथे महाबाहुर्भिद्यमान इवाचलः ।। | 6-52-26a 6-52-26b |
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः । द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ।। | 6-52-27a 6-52-27b |
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः । प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ।। | 6-52-28a 6-52-28b |
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः। सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम् ।। | 6-52-29a 6-52-29b |
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्। अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ।। | 6-52-30a 6-52-30b |
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम्। अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ।। | 6-52-31a 6-52-31b |
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्। प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ।। | 6-52-32a 6-52-32b |
तेषां महारथानां स मध्यं प्राप्य धनंजयः। चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ।। | 6-52-33a 6-52-33b |
`क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः । शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ।' | 6-52-34a 6-52-34b |
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः । पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ।। | 6-52-35a 6-52-35b |
एष पाण्डुसुतस्तात कृष्णेन सहितो बली। यततां सर्वसैन्यानां मूलं नः परिकृन्तति। त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ।। | 6-52-36a 6-52-36b 6-52-36c |
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते। न युध्यति रणे पार्थान्हितकामः सदा मम। स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ।। | 6-52-37a 6-52-37b 6-52-37c |
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव। धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ।। | 6-52-38a 6-52-38b |
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः । सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ।। | 6-52-39a 6-52-39b |
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः । परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ।। | 6-52-40a 6-52-40b |
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् । स्थिता युद्धाय महते ततो युद्धमवर्तत ।। | 6-52-41a 6-52-41b |
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः । तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ।। | 6-52-42a 6-52-42b |
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ।। | 6-52-43a 6-52-43b |
शरजालं ततस्तत्तु शरजालेन मारिष। वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ।। | 6-52-44a 6-52-44b |
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ । निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ।। | 6-52-45a 6-52-45b |
भीष्मचापविमुक्तानि शरजालानि शङ्घशः। शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ।। | 6-52-46a 6-52-46b |
तथैवार्जुनमुक्तानि शरजालानि सर्वशः । गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ।। | 6-52-47a 6-52-47b |
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः । | 6-52-48a 6-52-48b |
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ । रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ।। | 6-52-49a 6-52-49b |
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः। वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ।। | 6-52-50a 6-52-50b |
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः । विरराज रणे राजन्सपुष्प इव किंशुकः ।। | 6-52-51a 6-52-51b |
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् । सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ।। | 6-52-52a 6-52-52b |
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति। न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ।। | 6-52-53a 6-52-53b |
तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च। अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ।। | 6-52-54a 6-52-54b |
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् । राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ।। | 6-52-55a 6-52-55b |
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः । तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ।। | 6-52-56a 6-52-56b |
तयोः शङ्खनिनादेन रथनेमिस्वनेन च। दारिता सहसा भूमिश्चकम्पे च ननाद च ।। | 6-52-57a 6-52-57b |
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ । बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ।। | 6-52-58a 6-52-58b |
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः । तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ।। | 6-52-59a 6-52-59b |
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम्। विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ।। | 6-52-60a 6-52-60b |
न तयोर्विवरं कश्चिद्रणे पश्यति भारत। धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ।। | 6-52-61a 6-52-61b |
उभौ च शरजालेन तावदृश्यो बभूवतुः। प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे।। | 6-52-62a 6-52-62b |
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह। अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ।। | 6-52-63a 6-52-63b |
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन। सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ।। | 6-52-64a 6-52-64b |
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् । नैतादृशानि युद्धानि भविष्यन्ति कथंचन ।। | 6-52-65a 6-52-65b |
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता। सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ।। | 6-52-66a 6-52-66b |
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् । न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ।। | 6-52-67a 6-52-67b |
आलोकादपि युद्धं हि सममेतद्भविष्यति। इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः। गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते ।। | 6-52-68a 6-52-68b 6-52-68c |
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत। अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ।। | 6-52-69a 6-52-69b |
शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः । शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ।। | 6-52-70a 6-52-70b |
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् । वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे। द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ।। | 6-52-71a 6-52-71b 6-52-71c |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे द्विपञ्चशोऽध्यायः ।। |
6-52-10 व्यतिकरो मेलकः। समागम इत्यर्थः ।। 6-52-15 दृढधन्वना भीष्मेण ।। 6-52-55 अन्तरं छिद्रम्। तर्कयन्तौ चिन्तयन्तौ। अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ।। 6-52-59 चिह्नं ध्वजः ।। 6-52-68 आलोकात् आसंसारस्थितेः ।।
भीष्मपर्व-051 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-053 |