महाभारतम्-06-भीष्मपर्व-081
← भीष्मपर्व-080 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-081 वेदव्यासः |
भीष्मपर्व-082 → |
|
भीष्मेण दुर्योधनसंहर्षणम् ।। 1 ।। राज्ञां द्वन्द्वीभूय मेलनम् ।। 2 ।। अर्जुनपराक्रमवर्णनम् ।। 3 ।।
सञ्जय उवाच॥
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् |
अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ॥१॥
अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः |
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥२॥
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः |
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥३॥
बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः |
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥४॥
देशजाश्च हया राजन्स्वारूढा हयसादिभिः |
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥५॥
पदाताश्च तथा शूरा नानाप्रहरणायुधाः |
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥६॥
एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः |
देवानपि रणे जेतुं समर्था इति मे मतिः ॥७॥
अवश्यं तु मया राजंस्तव वाच्यं हितं सदा |
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥८॥
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥८॥
सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव |
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥९॥
एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् |
ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ॥१०॥
ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् |
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥११॥
मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् |
सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥१२॥
रथैरनेकसाहस्रैः समन्तात्परिवारितम् |
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥१३॥
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे |
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥१४॥
एवंव्यूहं महाराज तव सैन्यं महारथैः |
स्थितं रणाय महते भीष्मेण युधि पालितम् ॥१५॥
दशाश्वानां सहस्राणि दन्तिनां च तथैव च |
रथानामयुतं चापि पुत्राश्च तव दंशिताः ॥१६॥
चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम् ॥१६॥
रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते |
संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥१७॥
दुर्योधनस्तु समरे दंशितो रथमास्थितः |
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥१८॥
ततः शब्दो महानासीत्पुत्राणां तव भारत |
रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥१९॥
भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि |
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ॥२०॥
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः ॥२०॥
मण्डलं तु समालोक्य व्यूहं परमदारुणम् |
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥२१॥
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः |
रथिनः सादिनश्चैव सिंहनादमथानदन् ॥२२॥
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः |
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥२३॥
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् |
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥२४॥
नकुलः सहदेवश्च राजन्मद्रेशमीयतुः |
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥२५॥
सर्वे नृपास्तु समरे धनञ्जयमयोधयन् |
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥२६॥
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो |
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥२७॥
प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः |
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥२८॥
अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् |
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥२९॥
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् |
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥३०॥
चेकितानस्तु समरे कृपमेवान्वयोधयत् |
शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥३१॥
ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् |
शक्तितोमरनाराचगदापरिघपाणयः ॥३२॥
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् |
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ॥३३॥
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥३३॥
युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् |
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥३४॥
अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन |
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥३५॥
एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च |
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥३६॥
तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् |
तडागमिव धाराभिर्यथा प्रावृषि तोयदा ॥३७॥
हाहाकारो महानासीत्तव सैन्ये विशां पते |
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥३८॥
देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः |
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥३९॥
ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् |
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥४०॥
शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् |
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥४१॥
तेषां राजसहस्राणां हयानां दन्तिनां तथा |
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥४२॥
ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः |
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥४३॥
आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् |
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥४४॥
भीष्मपर्व-080 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-082 |