महाभारतम्-06-भीष्मपर्व-068
दिखावट
← भीष्मपर्व-067 | महाभारतम् षष्ठपर्व महाभारतम्-06-भीष्मपर्व-068 वेदव्यासः |
भीष्मपर्व-069 → |
|
भीष्मेण दुर्योधनंप्रति ब्रह्मर्षिकृतकृष्णस्तवकथनम् ।। 1 ।। तथा कृष्णस्य पाण्डवेषु प्रीतिकथनपूर्वकं तैः सह शमविधानम् ।। 2 ।।
भीष्म उवाच। | 6-68-1x |
स्तवं वै ब्रह्मसंयुक्तं शृणु कृष्णस्य भारत। ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ।। | 6-68-1a 6-68-1b |
साध्यानामपि देवानां देवदेवेश्वरः प्रभुः । लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ।। | 6-68-2a 6-68-2b |
भूतं भव्यं भविष्यच्च मार्कण्डेयोऽभ्युवाच ह। यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ।। | 6-68-3a 6-68-3b |
देवानामपि देवं च त्वामाह भगवान्भृगुः । पुराणां चैव परमं विष्णो रूपं तवेति च ।। | 6-68-4a 6-68-4b |
वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा। देवदेवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ।। | 6-68-5a 6-68-5b |
पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम्। स्रष्टारं सर्वभूतानामङ्गिरास्त्वां तथाऽब्रवीत् ।। | 6-68-6a 6-68-6b |
अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् । देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ।। | 6-68-7a 6-68-7b |
शिरसा ते दिव्यं व्याप्तं बाहुभ्यां पृथिवी तथा । जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ।। | 6-68-8a 6-68-8b |
एवं त्वामभिजानन्ति तपसा भाविता नराः। आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ।। | 6-68-9a 6-68-9b |
राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् । सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ।। | 6-68-10a 6-68-10b |
इति नित्यं योगविर्द्भिर्भगवान्पुरुषोत्तमः। सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ।। | 6-68-11a 6-68-11b |
एष ते विस्तरस्तात संक्षेपश्च प्रकीर्तितः । केशवस्य यथा तत्त्वं सुप्रीतो भज केशवम् ।। | 6-68-12a 6-68-12b |
सञ्जय उवाच। | 6-68-13x |
पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव। केशवं बहुमेने स पाण्डवांश्च महारथान् ।। | 6-68-13a 6-68-13b |
तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः । माहात्म्यं ते श्रुतं राजन्केशवस्य महात्कमनः ।। | 6-68-14a 6-68-14b |
नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप। यदर्थं नृषु संभूतौ नरानारायणावृषी ।। | 6-68-15a 6-68-15b |
अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ । यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ।। | 6-68-16a 6-68-16b |
प्रीतिमान्हि दृढं कृष्णः पाण्डवेषु यशस्विषु । तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ।। | 6-68-17a 6-68-17b |
पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी । नरानारायणौ देवाववज्ञाय नशिष्यसि ।। | 6-68-18a 6-68-18b |
एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते । व्यसर्जयच्च राजानं शयनं च विवेश ह ।। | 6-68-19a 6-68-19b |
राजा च शिबिरं प्रायात्प्रणिपत्य महात्मने । शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ।। | 6-68-20a 6-68-20b |
।। इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टषष्टितमोऽध्यायः ।। | |
।। विश्वोपाख्यानं समाप्तम् ।। |
भीष्मपर्व-067 | पुटाग्रे अल्लिखितम्। | भीष्मपर्व-069 |